________________
तृतीये काण्डे
प्रयुक्तः प्रकरणसमः पक्षद्वयेऽपि तस्य समानत्वात् उभयत्रापि अन्वयादिसद्भावात् । तथाहितस्योदाहरणम्-अनित्यः शब्दः नित्यधर्मानुपलब्धेः अनुपलभ्यमाननित्यधर्मकं घटादि अनित्यं दृष्टम् यत् पुनर्नित्यं न तद् अनुपलभ्यमाननित्यधर्मकम् यथा आत्मादि । एवं चिन्तासंबन्धिपुरुषेण तत्त्वानुपलब्धेरेकदेशभूताया अन्यतरानुपलब्धेः अनित्यत्वसिद्धौ साधनत्वेन उपन्यासे सति द्वितीय५श्चिन्तासंबन्धी पुरुष आह-यदि अनेन प्रकारेण अनित्यत्वं साध्यते तर्हि नित्यतासिद्धिरपि
अन्यतरानुपलब्धेस्तत्रापि सद्भावात् । तथाहि-नित्यः शब्दः अनित्यधर्मानुपलब्धः अनुपलभ्यमानानित्यधर्मकं नित्यं दृष्टम् आत्मादि यत् पुनर्न नित्यं तत् नानुपलभ्यमानाऽनित्यधर्मकम् यथा घटादि। एवमन्यतरानुपलब्धेरुभयपक्षसाधारणत्वात् प्रकरणानतिवृत्तेर्हेत्वाभासत्वम् न च निश्चितयोः पक्ष-प्रतिपक्षपरिग्रहेऽधिकारात् कथं चिन्तायुक्त एवं साधनोपन्यासं विदध्यात् इति वक्तव्यम् १० यतोऽन्यदा संदेहेऽपि चिन्तासंबन्धी पुरुषः अन्यतरानुपलब्धेः पक्षधर्मान्वय-व्यतिरेकान् अवगच्छन् तद्बलात् स्वसाध्यं यदा निश्चिनोति तदा द्वितीयस्तामेव खसाध्यसाधनाय हेतुत्वेन अभिधत्ते । यदि अतः त्वत्पक्षसिद्धिः अत एव मत्पक्षसिद्धिः किं न भवेत् त्रैरूप्यस्य पक्षद्वयेऽपि अत्र तुल्यत्वात् । अथ नित्यत्वाऽनित्यत्वैकान्तविपर्ययेणापि अस्याः प्रवृत्तेः अनैकान्तिकता उभयवृत्तिर्हि अनैकान्तिकः न प्रकरणसमः, न; यत्र पक्ष-सपक्ष-विपक्षाणां तुल्यो धर्मो हेतुत्वेन उपादीयते तत्र संशयहेतुता १५साधारणत्वेन तस्य विरुद्धविशेषानुस्मारकत्वात् न तु प्रकृत एवंविधः यतः नित्यधर्मानुपलब्धेरनित्य
एव भावः न नित्ये एवम् अनित्यधर्मानुपलब्धेर्नित्य एव भावः नाऽनित्ये एवं च एकत्र साध्ये विपक्षव्यावृत्तेः प्रकरणसमता न अनैकान्तिकता पक्षद्वयवृत्तितया तस्याभावात् । ननु यदि अयं पक्षद्वये वर्तते तदा साधारणानैकान्तिकः अथ न प्रवर्तते कथमयं पक्षद्वयसाधकः स्यात् अतद्वत्तेः अतत्सा
धकत्वात, न; पक्षद्वये प्रकृतस्य वृत्त्यभ्युपगमात् । तथाहि-साधनकाले अनित्यपक्ष एव नित्यधर्मा२० नुपलब्धिर्वर्तते न नित्ये, यदाऽपि नित्यत्वं साध्यं तदापि नित्यपक्ष एव अनित्यधर्मानुपलब्धिर्वर्तते नाऽनित्ये, ततश्च सपक्षे एव प्रकरणसमस्य वृत्तिः सपक्ष-विपक्षयोश्च अनैकान्तिकस्य; साध्यापेक्षया च पक्ष-सपक्ष-विपक्षव्यवहारः नान्यथा तेन साध्यद्वयवृत्तिः उभयसाध्यसपक्ष-वृत्तिश्च प्रकरणसमः नतु कदाचित् साध्यापेक्षया विपक्षवृत्तिः अनैकान्तिकस्तु विपक्षवृत्तिरपि इत्यस्मात् अस्य भेदः । न
च रूपत्रययोगेऽपि अस्य हेतुत्वम् सप्रतिपक्षत्वात् यस्य तु प्रतिबन्धपरिसमाप्ती रूपत्रययोगे तेन २५ प्रकरणसमस्य नाहेतुत्वमुपदर्शयितुं शक्यम् । न चास्य कालात्ययापदिष्टत्वम् अबाधितविषयत्वात्
ययोहि प्रकरणचिन्ता तयोरयं हेतुः न च तो संदिग्धत्वात् वाधामस्योपदर्शयितुं क्षमौ । न च हेतुद्वयसंनिपातात् एकत्र धर्मिणि संशयोत्पत्तेस्तजनकत्वेनास्य अनैकान्तिकता यतो न संशयहे. तुत्वेन अनैकान्तिकत्वम् इन्द्रियसंनिकर्षादेरपि तथात्वप्रसक्तेः। न च तत्त्वानुपलब्धिर्विशेषस्मृत्यादि
शून्या संशयकारणम् न च तत्सहिताया अस्या हेतुत्वम् केवलाया एव तत्त्वेन उपन्यासात् । न च २०संदिग्धे विषये भ्रान्तपुरुषेण निश्चयार्थमुपादीयमानाया अस्याः संदेहहेतुता युक्ता । भवतु वा कथंचिद् अतस्संशयोत्पत्तिस्तथापि अनैकान्तिकाद् अस्य विशेषः स हि सपक्ष-विपक्षयोः समानः अयं तु तद्विपरीतः साध्यद्वयवृत्तित्वात् तु प्रकरणसमःन चासंभवः अस्यैवंविधसाधनप्रयोगस्य भ्रान्तेः सद्भावात् । अथास्यासिद्ध अन्तर्भावः नित्यवादिनो नित्यधर्मानुपलब्धेः इतरस्य च इतरधर्मानुपलब्धेरसि.
द्धत्वात, असदेतत् यतश्चिन्तासंबन्धिपुरुषेण प्रकरणसमस्य हेतुत्वेन उपन्यासः तस्य च तत्संबन्धि३५ नैव कथमितरेण असिद्धतोद्भावनं विधातुं शक्यम् ? यस्य हि अनुपलब्धिनिमित्तसंशयोत्पत्तौ शब्दे नित्यत्वाऽनित्यत्वजिज्ञासा स कथमन्यतरानुपलब्धेहेतुत्वप्रयोगे असिद्धतां ब्रूयात् अत एव सूत्रकारेण “यस्मात् प्रकरणचिन्ता" [ न्यायद० १-२-७] इति असिद्धतादोषपरिहारार्थमुपातम् । एवम् 'अनित्यः शब्दः, पक्ष-सपक्षयोः अन्यतरत्वात्, घटवत्' इति चिन्तासंबन्धिना पुरुषेण उक्ते अपरस्त
संवन्धी 'नित्यः शब्दः, पक्ष-सपक्षयोः अन्यतरत्वात्, आकाशवत्' यदाह तदा प्रकरणसम एव । ४० अत्र प्रेरयन्ति-पक्ष-सपक्षयोः अन्यतरः पक्षः सपक्षो वा ? यदि पक्षः तदा न हेतोः सपक्षवृ. त्तिता न हि शब्दस्य धर्म्यन्तरे वृत्तिः संभवतीति असाधारणतैवास्य हेतोः स्यात् । अथ सपक्षः
अनकान्तिकत
२०संदिग्धेशरणम् न च तत्ससिप तथात्वास
१-टादिः ए-आ० हा० वि० विना। २ -वृत्तिःप्र-वा० बा० । ३-शब्दे नित्यत्वजि-वा० बा० आ०। ४ पृ. ७१९ पं० ३७। ५ शब्दः सपक्षपक्षयोरन्य-भां० मा० विना ।