________________
शेयमीमांसा।
७१९
२०
पाठे इतरधर्माऽजहवृत्त्या प्रवर्तमाना पते पट् पक्षाः सम्यक्त्यम्य आधारतां प्रतिपद्यन्ते इति व्यायेयम् न च 'स्यादस्ति आत्मा' 'म्यान्नित्यः' इत्यादिप्रतिज्ञावाक्यम अध्यक्षादिना प्रमाणन वाध्यते ख-परभायाभावोभयात्मकभावावभासकाध्यक्षादिप्रमाणव्यतिरेकेण अन्यथाभूतम्य अध्यक्षादेग्प्रतीतेः तेन अनुमानाऽभ्युपगम-स्ववचन-लोकव्यवहारविरोधोऽपि न प्रतिक्षायाः अध्यक्षादिप्रमाणावसेये सदसत्तात्मके वस्तुनि कस्यचिद विरोधस्यासंभवात् । न चाप्रसिद्धविशपणः पक्षः लौकिक-परीक्षक-५ स्तथाभूतविशेषणस्याविप्रतिपत्त्या सर्वत्र प्रतीतेः अन्यथा विशेषणव्यवहारम्य उच्छेदप्रसङ्गान् अन्यथाभूतस्य तस्य क्वचिदपि असंभवात् नथाभूतविशंपणान्मकम्य धर्मिणः सर्वत्र प्रतीतेनीप्रसिद्धविशप्यतादोषः । नापि अप्रसिद्धोभयता दृपणम् तथाभृतद्वयव्यतिरेकेणान्यम्यासत्त्वतः प्रमाणाविषयत्वात् । हेतुरपि नाऽप्रसिद्धः तत्र तस्य सत्त्वप्रतीतेः, विपक्ष सत्त्वासंभवाद नापि विरुद्धः अनेकान्तिकताऽपि अत एवायुक्ता । दृशान्तदोषा अपि साध्यादिविकलत्वादयो नात्र संभविनः असिद्धन्वादि-१० दोषवत्येव साधने तेषां भावात् । न च अनुमानतः अनेकान्तात्मकं वस्तु तद्वादिभिः प्रतीयते अध्यक्षसिद्धत्वात् यस्तु प्रतिपन्नेऽपि ततस्तस्मिन् विप्रतिपद्यते तं प्रति तत्प्रसिद्धनैव न्यायेन अनुमानोपन्यासेन विप्रतिपत्तिनिराकरणमात्रमेव विधीयते इति न अप्रसिद्धविशेषणत्वादेदीपम्यावकाशः । प्रतिक्षणपरिणाम-परभागादीनां तु उत्तरविकाराऽर्वाग्भागदर्शनान्यथानुपपत्त्या अनुमाने न अध्यक्षादियाधा अस्मदाद्यध्यक्षस्य सर्वात्मना वस्तुग्रहणाऽसामर्थ्यात् स्फटिकादौ च अर्वाग्भाग-पग्भागयो-१५ रध्यक्षत एवैकदा प्रतिपत्तेः । न च स्थैर्य ग्राह्यध्यक्ष प्रतिक्षणपरिणामानुमानेन विरुध्यते अस्य तदनुग्राहकत्वात् कथंचित् प्रतिक्षणपरिणामस्य तत्प्रतीतस्यैव अनुमानतोऽपि निश्चयात् ॥ ५५ ॥ [एकान्तवादिनः साधर्मेण वा वेधर्मेण वैकान्तधर्मयुक्तधर्मिसाधनाशक्तवाभिधानम् ]
अनेकान्तव्यवच्छेदेन एकान्तावधारितधर्माधिकरणत्वेन धर्मिणं साधयन्नकान्तवादी न साधHतः साधयितुं प्रभुः नापि वैधर्म्यतः इति प्रतिपादयन्नाह
साहम्मउ व्व अत्थं साहेज परो विहम्मओ वा वि ।
अण्णोण्णं पडिकुट्ठा दोषणवि एए असव्वाया ॥५६॥ समानस्तुल्यः साध्यसामान्यान्वितः साधनधर्मा यस्य असौ सधर्मा साधर्म्यदृशान्तापेक्षया साध्यधर्मी तस्य भावः साधर्म्यम् ततो वा अर्थ साध्यधर्माधिकरणतया धर्मिणं साधयेत् परः अन्वयिहेतुप्रदर्शनात् साध्यधर्मिणि विवक्षितं साध्यं यदि वैशेषिकादिः साधयेत् तदा तत्पुत्रत्वादे-२५ रपि गमकत्वं स्यात् अन्वयमात्रस्य तत्रापि भावात् । अथ वैधाद् विगतस्तथाभूतः साधनधर्मो यस्माद असौ विधर्मा तस्य भावो वैधर्म्यम् ततो वा व्यतिरेकिणो हेतोः प्रकृतं साध्यं साधयेत् उभाभ्यां वा-'वा' शब्दस्य समुच्चयार्थत्वात्-तथापि तत्पुत्रत्वादेरेव गमकत्वप्रसक्तिः श्यामत्वाभावे तत्पुत्रत्वादेरन्यत्र गौरपुरुषेऽभावाद् उभाभ्यामपि तत्साधने अत एव साध्यसिद्धिप्रसक्तिः स्यात् । [प्रसङ्गाद् हेखाभाससंख्याविषया चर्चा ]
३० अथात्र कालात्ययापदिएत्वादिदोषसद्भावाद् न साध्यसाधकताप्रमक्तिः, नः असिद्ध-विरुद्धाऽनैकान्तिकहेत्वाभासमन्तरेणापरहेत्वाभासासंभवात् । न च रूप्यलक्षणयोगिनोऽसिद्धत्वादिहेन्वाभासता कृतकत्वादेरिव अनित्यत्वसाधने संभवति, अस्ति च भवदभिप्रायेण त्रैरूप्यं प्रकृतहेताविति कुतोऽस्य हेत्वाभासता?
अथ भवतु अयं दोषः येषां त्रैरूप्येऽविनाभावपरिसमाप्तिः नास्माकं पञ्चलक्षणहेतुवादिनाम् ३५ प्रकरणसमादेरपि हेत्वाभासत्वोपपत्तेः त्रैलक्षण्यसद्भावेऽपि अपरस्यासत्प्रतिपक्षत्वादेर्हेतुलक्षणस्यासंभवेन तदाभासत्वसंभवात् । “यस्मात् प्रकरणचिन्ता स प्रकरणसमः" [ न्यायद० १-२-७] इति प्रकरणसमस्य लक्षणाभिधानात्-प्रक्रियेते साध्यत्वेनाधिक्रियेते निश्चिती पक्ष-प्रतिपक्षी यौ तौ प्रकरणम् तस्य चिन्ता संशयात् प्रभृत्यानिश्चयाद् आलोचनखभावा यतो भवति स एव तन्निश्चयार्थ
१ “यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः” इति पाठो न्यायदर्शने ।