________________
७१८
तृतीये काण्डेनास्ति आत्मा एकान्तत इति बृहस्पतिमतानुसारी । अस्ति आत्मा किन्तु प्रतिक्षणविशरारुतया चित्तसंततेन नित्य इति बौद्धाः । अस्ति आत्मा नित्यो भोक्ता न तु करोति इति सांख्याः त एव प्राहुः कर्ता असौ न भोक्ता प्रकृतिवत् कर्तुर्भोक्तृत्वानुपपत्तेः । यद्वा येन कृतं कर्म नासौ तद् भुक्ते क्षणिकत्वाद् चित्तसंततेः इति बौद्धाः क्षणिकत्वात् चित्तसंततेः कृतं न वेदयते इति बौद्ध ५एव आह । कर्ता भोक्ता च आत्मा किन्तु न मुच्यतेऽसौ चेतनत्वात् अभव्यवत्-रागादीनामात्मखरूपाऽव्यतिरेकात् तदक्षये तेषामपि अक्षयात् इति याज्ञिकः । निर्हेतुक एवासौ मुच्यते तत्स्वभावताव्यतिरेकेण अपरस्य तत्र उपायस्य अभावात् इति मण्डली प्राह । एतानि षड् मिथ्यात्वस्य स्थानानि षण्णामप्येषां पक्षाणां मिथ्यात्वाधारतया व्यवस्थितेः।
तथाहि-एतानि नास्तित्वादिविशेषणानि साध्यधर्मिविशेषणतया उपादीयमानानि किं प्रतिष १०क्षव्युदासेन उपादीयन्ते, आहोस्वित् कथंचित् तत्संग्रहेण इति कल्पनाद्वयम् । प्रथमपक्षे अध्यक्षवि.
रोधः स्वसंवेदनाध्यक्षतश्चैतन्यस्य आत्मरूपस्य प्रतीतेः कथंचित् तस्य परिणामनित्यताप्रतीतेश्च शरीरादिव्यापारतः कर्तृत्वोपलब्धेश्च स्वव्यापारनिर्वर्तितभक्त-सूपादिभोक्तत्वसंवेदनाच्च पुद्गललक्षणविलक्षणतया रागादिविविक्ततया च शमसुखरसावस्थायां कथंचित् तस्य उपलब्धेश्च स्वोत्कर्षतरतमादि
तो रागाद्यपचयतरतमभावविधायिसम्यग्ज्ञान-दर्शनादेरुपलम्भाच्च । अनुमानतोऽपि विरोधः १५ तथाभूतज्ञानकार्यान्यथानुपपत्तितः चैतन्यलक्षणस्य आत्मनः सिद्धिः घटादिवद् रूपादिगुणतः ज्ञानस्वरूपगुणोपलम्भात् कथंचित् तदभिन्नस्य आत्मलक्षणस्य गुणिनः सिद्धिरिति कथं नानुमानविरोधः? इतरधर्मनिरपेक्षधर्मलक्षणस्य विशेषणस्य तदाधारभूतस्य च विशेष्यस्य अप्रसिद्धेः अप्रसिद्ध विशेषणविशेष्योभयदोषैर्दुष्टश्च पक्षः। 'आत्मा' इति वचनेन तत्सत्ताभिधानम् 'नास्ति'इत्यनेन च तत्प्रतिषेधाभिधानमिति पदयोः प्रतिज्ञावाक्ये व्याघातः लोकविरोधश्च तथाभूतविशेषणविशिष्टतया धर्मिणो २० लोकेन व्यवह्रियमाणत्वात् स्ववचनविरोधश्च तत्प्रतिपादकवचनस्य इतरधर्मसापेक्षतया प्रवृत्तेः । हेतु
रपि इतरनिरपेक्षकधर्मरूपोऽसिद्धः तथाभूतस्य तस्य क्वचिद् अनुपलब्धेः सर्वत्र तद्विपरीत एव भावाद् विरुद्धश्च । दृष्टान्तश्च साध्यसाधनधर्मविकलः तथाभूतसाध्यसाधनधर्माधिकरणतया कस्यचिद् धर्मिणः अप्रसिद्धः। तन्न प्रथमः पक्षः। नापि द्वितीयः स्वाभ्युपगमविरोधप्रसङ्गात् साधनवैफल्यापत्तेश्च तथाभूतस्य अनेकान्तरूपतया अस्माभिरप्यभ्युपगमात् । तस्माद् व्यवस्थितमेतद् एकान्तरूपतया २५ षडपि एतानि मिथ्यात्वस्य स्थानानि ॥ ५४॥
[आत्मन्येकान्तरूपस्यास्तित्वादिवादषट्स्य मिथ्यारूपत्वकथनम् ] न केवलं 'नास्ति' इत्यादिषणमिथ्यात्वस्थानानि तद्विपर्ययेणापि एकान्तवादे तथैव तानीति दर्शयन्नाह
अत्थि अविणासधम्मी करेइ वेएइ अत्थि णिव्वाणं ।
अस्थि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई ॥५५॥ ___ 'अस्ति आत्मा' इति पक्षः पूरणादेर्वादिनः । स च अविनाशधर्मी'इत्येषा प्रतिज्ञा कपिलमतानुसारिणः । 'कर्तृ-भोक्तस्वभावोऽसौ' इति मतं जैमिनेः । 'तथाभूत एवासौ जडस्वरूपः' इति अक्षपादकणभुग्मतानुसारिणः । 'अस्ति निर्वाणम्' 'अस्ति च मोक्षोपायः' इत्यामनन्ति नास्तिक-याज्ञिकव्यतिरिक्ताः पाण्डिनः । एते च अभ्युपगमा एकान्ताभ्युपगमत्वाद् मिथ्यास्थानानि, एष्वपि पूर्ववद ३५ विकल्पद्वयेऽपि तद्दोषानतिकान्तेः एकान्तेन तदस्तित्वादेरध्यक्षाऽनुमानाभ्यामप्रतीतेः तथाभ्युपगमे व स्वास्तित्वेनेवान्यभावास्तित्वेनापि तस्य भावात् सर्वभावसंकीर्णताप्रसक्तेः स्वखरूपाऽव्यवस्थितेः खपुष्पवत् असत्त्वमेव स्यात् इत्यादिदूषणमसकृत् प्रतिपादितम् । हेतु-दृष्टान्तदोषाश्च पूर्ववद् अत्रापि वाच्याः ।
चतर्थपादं तु गाथायाः केचिद अन्यथा पठन्ति-"छस्सम्मत्तस्स ठाणाई"ति । अत्र तु
१-ण्डलीक प्रा-आ० । २-भक्तरूपादि-बृ० विना। ३-षणविशिष्टोभ-बृ. आ. हा० वि० । ४ प्र० पृ. पं०९। ५-स्तिकत्वेनैवा-बृ० आ० हा० वि०।