________________
ज्ञेयमीमांसा।
७१७
"न व्यक्तशक्तिरीशोऽयं क्रमेणाप्युपपद्यते।
व्यक्तशक्तिरतोऽन्यश्चेत् भावो होकः कथं भवेत्" ॥[ एवं कालस्यापि पर्यायेण वसन्ताद्यभिव्यक्तिप्रवृत्तौ अयमेव दोषः । भावास्तु शीतोष्णादिपरिणतिभाजः प्रतिक्षणविशरारवः कथंचित् काल इत्यभिधानाभिधेयाः प्राग व्यवस्थापिताः। अथ ने क्रीडाद्यर्था भगवतःप्रवृत्तिः किन्तु पृथिव्यादिमहाभूतानां यथा स्वकार्येषु स्वभावत एव प्रवृत्तिस्तथा ईश्व ५ रस्यापि इति, अयुक्तमेतत् एवं हि तद्व्यापारमात्रभाविनामशेषभावानां युगपद् भावो भवेत् अविकलकारणत्वात् सहकार्यपेक्षाऽपि न नित्यस्य संगता इत्युक्तम् । पुरुपवादिनां तु केवलस्यैव पुरुषस्य जगत्कारणत्वेन अभ्युपगमात् तदपेक्षा दुरापास्तैव । पृथिव्यादिमहाभूतानां तु स्वहेतुबलायाताऽपरापरस्वभावसद्भावान्न तदुत्पाद्यकार्यस्य युगपदुत्पत्त्यादिदोषः संभवी । न च यथा ऊर्णनाभः स्वभावतः प्रवृत्तोऽपि न खकार्याणि युगपद् निर्वर्तयति तथा पुरुषोऽपीति वाच्यम् , यत ऊर्णनाभस्यापि प्राणि-१० भक्षणलाम्पट्यात् स्वकार्ये प्रवृत्तिर्न स्वभावतः अन्यथा तत्राप्यस्य दोषस्य समानत्वात् न ह्यसौ नित्यैकस्वभावः अपि तु स्वहेतुबलभाव्यपरापरकादाचित्कशक्तिमानिति तद्भाविनः कार्यस्य क्रमप्रवृत्तिरुपपन्चैव । न च यथा कथंचिद् अबुद्धिपूर्वकमेव पुरुषो जगनिर्वर्तने प्रवर्तते, प्राकृतपुरुषादप्ये हीनतया प्रेक्षापूर्वकारिणामनवधेयवचनताप्रसक्तेः। एवं प्रजापतिप्रभृतीनामपि जगत्कारणत्वेनाभीष्टानां निरासो द्रष्टव्यः न्यायस्य समानत्वात् । तन्न कालाधकान्ताः प्रमाणतः संभवन्तीति तद्वादो १५ मिथ्यावाद इति स्थितम् । त एव अन्योन्यसव्यपेक्षा नित्यायेकान्तव्यपोहेन एकानेकस्वभावाः कार्यनिर्वर्तनपटवः प्रमाणविषयतया परमार्थसन्त इति तत्प्रतिपादकस्य शास्त्रस्यापि सम्यक्त्वमिति तद्वादः सम्यग्वादतया व्यवस्थितः॥५३॥
__ [आत्मन्येकान्तरूपस्य नास्तित्वादिवादषट्स्य मिथ्यारूपत्वकथनम् ]
यथैते कालाद्येकान्ता मिथ्यात्वमनुभवन्ति स्याद्वादोपग्रहात् तु त एव सम्यक्त्वं प्रतिपद्यन्ते २० तथा आत्माऽपि एकान्तनित्यानित्यत्वादिधर्माध्यासितो मिथ्यात्वम् अनेकान्तरूपतया तु अभ्युपगम्यमानः सम्यक्त्वं प्रतिपद्यत इत्याह
णत्थि ण णिचो ण कुणइ कयं ण वेएइ णत्थि णिव्वाणं । णत्थि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई ॥५४॥
१ तत्त्वसं० पजि. पृ. ७८५० १०-1 २ “अथ खभावतो वृत्तिरित्यादिना उद्योतकरमतमाशङ्कते
अथ खभावतो वृत्तिः सर्गादावस्य वर्ण्यते । पावकादेः प्रकृत्यैव यथा दाहादिकर्मणि ॥ यद्येवमखिला भावा भवेयुर्युगपत् ततः । तदुत्पादनसामर्थ्ययोगिकारणसन्निधेः" ॥
-तत्त्वसं० का. १६४-१६५-पृ. ७८ । एतदेवोद्योतकरीयं मतं न्यायवार्तिके इत्थमुपन्यस्तमस्ति
"किमर्थं तर्हि करोति तत्वाभाव्यात् प्रवर्तते इत्यदुष्टम्-यथा भूम्यादीनि धारणादिक्रियां तत्खाभाव्यात् कुर्वन्ति तथेश्वरोऽपि तत्स्वाभाव्यात् प्रवर्तत इति प्रवृत्तिस्वभावकं तत् तत्त्वमिति" इत्यादि-४-१-२१ पृ. ४६३ पं०४-1
३ "खहेतुबलसंभूता नियता एव शक्तयः। असर्वकालभाविन्यो ज्वलनादिषु वस्तुषु ॥ अन्यथा यौगपर्धन सर्व कार्य समुद्भवेत् । तेषामपि न चेदेष नियमोऽभ्युपगम्यते" ॥
-तत्त्वसं० का० १६६-१६७ पृ० ७८-७९ । ४ "प्रकृत्यैवांशुहेतुखमूर्णनामेऽपि नेष्यते । प्राणिभक्षणलाम्पट्याल्लालाजालं करोति यत्" ॥
-तत्त्वसं० का० १६८० ७९ । ५ “यथाकथंचिवृत्तिश्चेद् बुद्धिमत्ताऽस्य कीदृशी । नासमीक्ष्य यतः कार्य शनकोऽपि प्रवर्तते" ॥
-तत्त्वसं० का० १६९ पृ० ७९ । ६ "शौर्यात्मजादयो येऽपि धातारः परिकल्पिताः। एतेनैव प्रकारेण निरस्तास्तेऽपि वस्तुतः" ॥
-तत्त्वसं० का० १७० पृ. ७९ ।