________________
तृतीये काण्डे -
नेश्वरादिप्रेरणात् अस्वातन्यप्रसक्तेः । न परानुग्रहार्थमनुकम्पया दुःखितसत्त्वनिर्वर्तनानुपपत्तेः । न तत्कर्मप्रक्षयार्थे दुःखितसत्त्वनिर्माणे प्रवृत्तिः तत्कर्मणोऽपि तत्कृतत्वेन तत्प्रक्षयार्थं तन्निर्माणप्रवृत्तौ अप्रेक्षापूर्वकारितापत्तेः । न चं प्राक् सृष्टेः अनुकम्पनीयसत्त्वसद्भाव इति निरालम्बनाया अनुकम्पाया अयोगात् नातोऽपि जगत्करणे प्रवृत्तिर्युक्ता । नं च अनुकम्पातः प्रवृत्तौ सुखि सत्त्व५ प्रक्षयार्थ प्रवृत्तिर्युक्तेति देवादीनां प्रलयानुपपत्तिर्भवेत् । न च संमर्थस्य दुःखकारणमधर्मादिकमपेक्ष्य कृपालोर्दुःखितसत्त्वनिर्वर्तनं युक्तम् कृपापरतन्त्रतया दुःखप्रदे कर्मण्यवधा (घी) रणोपपत्तेः न हि कृपालवः परदुःखहेतुत्वमेव इच्छन्ति परदुःखवियोगेच्छयैव तेषां सर्वदा प्रवृत्तेः । न
क्रीडा अपि तत्र तस्य प्रवृत्तिर्युक्ता क्रीडोत्पादेऽपि जगदुत्पादापेक्षया तस्यास्वातन्योपपत्तेः जगदुत्पत्ति-स्थिति-प्रलयात्मकस्य विचित्रक्रीडोपायस्य तदुत्पत्तौ अपेक्षणात् । यदि विचित्र१० क्रीडोपायोत्पादने तस्य प्रागेव शक्तिः तदा युगपद् अशेषजगदुत्पत्ति-स्थिति- प्रलयान् विदध्यात् । अथ आदौ न तत्र शक्तिस्तदा अशक्तावस्थाया अविशिष्टत्वात् क्रमेणापि न तान् विदध्यात् एकत्र एकस्य शक्ताऽशक्तत्वलक्षणविरुद्धधर्मद्वयायोगात् । अयं च दोष ईश्वरवादिनामपि समान इति । "परानुग्रहार्थमीश्वरः प्रवर्तते यथा कश्चित् कृतार्थो मुनिरात्महिताऽहितप्राप्ति - परिहारार्थासंभवेऽपि परहितार्थमुपदेशादिकं करोति तथा ईश्वरोऽपि आत्मीयामैश्वर्यविभूर्ति विख्याप्य १५ प्राणिनोऽनुग्रहीष्यन् प्रवर्तत इति अथवा शक्तिस्वाभाव्यात् यथा कालस्य वसन्तादीनां पर्यायेण अभिव्यक्तौ स्थावर-जङ्गमविकारोत्पत्तिः स्वभावतः तथैव ईश्वरस्यापि आविर्भावाऽनुग्रहसंहारशक्तीनां पर्यायेण अभिव्यक्तौ प्राणिनामुत्पत्ति-स्थिति- प्रलयहेतुत्वम्" - [
1
इति यदुक्तं प्रशस्तमतिना तदपि प्रतिक्षिप्तं द्रष्टव्यम् । तथाहि - यदि असौ अनुग्रहप्रवृत्तस्तदा सर्वमेकान्तसुखिनं प्राणिगणं विदध्यात् इत्युक्तम् । शक्तिस्वाभाव्यात् करणे उत्पत्ति-स्थित्युपसंहारान् २० जगतो युगपत् कुर्यात् इत्यादिकमपि उक्तमेव दूषणम् । तथा चाह
७१६
“सर्ग-स्थित्युपसंहारान् युगपद् व्यक्तशक्तितः ।
युगपच्च जगत् कुर्यात् नो चेत् सोऽव्यक्तशक्तिकः” ॥
१ "सृष्टेः प्रागनुकम्पा ( प्या) नामसत्वे नोपपद्यते । अनुकम्पाऽपि यद्योगाद्धाताऽयं परिकल्प्यते” ॥
- तत्त्वसं० का० १५८ पृ० ७६ ।
२ " न चायं प्रलयं कुर्यात् सदाऽभ्युदययोगिनाम् । तददृष्टव्यपेक्षायां स्वातत्र्यमवहीयते” ॥
- तत्त्वसं० का० १५९ पृ० ७७ ।
३ " पीडाहेतुमदृष्टं च किमर्थ स व्यपेक्षते । उपेक्षैव पुनस्तत्र दयायोगेऽस्य युज्यते” ॥
- तत्त्वसं० का० १६० पृ० ७७ ।
४ “किन्त्ववधीरणमेव तत्र तस्य कृपापरतन्त्रतया युक्तं कर्तुम्” – तत्त्वसं० पञ्जि० पृ० ७७ पं० १४ । ५ " क्रीडार्था तस्य वृत्तिश्चेत् क्रीडायां न प्रभुर्भवेत् । विचित्रक्रीडनोपायव्यपेक्षातः शिशुर्यथा " ॥
- तत्त्वसं० का० १६१ पृ० ७७ । ६ “क्रीडासाध्या च या प्रीतिस्तस्या यदपि साधनम् । तत्सर्वं युगपत् कुर्याद् यदि तत्कृतिशक्तिमान् ॥ क्रमेणाऽपि न शक्तः स्यानो चेदादौ स शक्तिमान् । नाऽविभक्तस्य युज्येते शक्त्यशक्ती हि वस्तुनः” ॥ - तत्त्वसं ० का ० १६२ - १६३ पृ० ७७ ।
७ " यदाह प्रशस्तमतिः" इत्यादि -- तत्त्वसं० पजि० पृ० ७८ पं० २
८ न्यायवार्तिके ईश्वरोपादानताप्रकरणे उद्योतकरः “ अथायमीश्वरः कुर्वाणः किमर्थं करोति" इति ईश्वर विषयं प्रश्नमुत्थाप्य तद्विषये इमानि मतान्तराणि समुपन्यस्यति -
“क्रीडार्थमित्येके” x x x “विभूतिख्यापनार्थमित्यपरे - जगतो वैश्वरूप्यं ख्यापनीयमित्यपरे मन्यन्ते " -४-१२१ पृ० ४६२ पं० १७ - ४६३ पं० १ ।
९- “ शक्तिकः " - तत्त्व० प० पृ०७८ पं० ९ ।
१० - शक्तितः हा० ।