________________
झयमीमांसा।
७१५
तथाच
"स्वकर्मणा युक्त एव सर्वो ह्युत्पद्यते नरः।
__ स तथाऽऽकृष्यते तेन न यथा स्वयमिच्छति" ॥ [ तथाहि-समानमीहमानानां समानदेश-काल-कुलाऽऽकागदिमतामर्थप्रात्यप्राप्ती नाऽनिमित्ते युक्ते अनिमित्तस्य देशादिप्रतिनियमायोगात् । न च परिदृश्यमानकारणप्रभवे तस्य समानतयोपल-५ म्भात् न चैकरूपात् कारणात् कार्यभेदः तस्याहेतुकत्वप्रसक्तः अहेतुकन्वे च तस्य कार्यस्यापि तद्रूपतापत्तेः मेदाऽमेदव्यतिरिक्तस्य तस्यासत्त्वात् । ततो यन्निमित्ते एते तद् दृष्टकारणव्यतिरिक्तमदृष्टं कारणं कर्म इति,
___ असदेतत् कुलालादेर्घटादिकारणत्वेनाध्यक्षतः प्रतीयमानस्य परिहारेणापराऽदृष्टकारणप्रकल्पनायां तत्परिहारेणापराऽपराऽदृष्टकारणकल्पनयाऽनवस्थाप्रसङ्गतः क्वचिदपि कारणप्रतिनियमाऽनुप-१० पत्तेः । न च स्वतन्त्रं कर्म जगद्वैचित्र्यकारणमुपपद्यते तस्य कर्बधीनत्वात् । न चैकस्वभावात् ततो जगद्वैचित्र्यमुपपत्तिमत् कारणवैचित्र्यमन्तरेण कार्यवैचित्र्यायोगात् वैचित्र्ये वा तदेककार्यताप्रच्युतेः अनेकस्वभावत्वे च कर्मणः नाममात्रनिवन्धनैव विप्रतिपत्तिः पुरुष-काल-स्वभावादेरपि जगद्वैचित्र्यकारणत्वेन अर्थतोऽभ्युपगमात् । न च तेन चेतनवताऽनधिष्ठितमचेतनत्वाद् वास्यादिवत् कर्म प्रवर्तते । अथ तदधिष्ठायकः पुरुषोऽभ्युपगम्यते न तर्हि कर्मकान्तवादः पुरुपस्यापि तदधिष्ठायक-१५ त्वेन जगद्वैचित्र्यकारणत्वोपपत्तेः। न च केवलं किञ्चिद् वस्तु नित्यमनित्यं वा कार्यकृत् संभवतीति असकृत् प्रतिपादितम् । तन्न कमैकान्तवादोऽपि युक्तिसंगतः ।
[पुरुषककारणवादमुपन्यस्य तस्यैकान्तिकत्वनिरासः ] अन्यस्त्वाह-"पुरुष एवैकः सकललोकस्थिति-सर्ग-प्रलयहेतुः प्रलयेऽपि अलुप्तज्ञानातिशयशक्तिः" [ ] इति । तथा चोक्तम्
२० "ऊर्णनाभ इवांऽशूनां चन्द्रकान्त इवाऽम्भसाम् । प्ररोहाणामिव प्लक्षः स हेतुः सर्वजन्मिनाम्" ॥ [
] इति । तथा, “पुरुष एवेदं सर्वं यद् भूतं यच्च भाव्यम्” [
] इत्यादि । ऊर्णनाभोऽत्र मर्कटको व्याख्यातः । अत्र सकललोकस्थिति-सर्ग-प्रलयहेतुता ईश्वरस्येव पुरुषवादिभिः पुरुषस्य इष्टा ।
जगद निवर्तयति अयं तु केवल एव ।। अस्यं च ईश्वरस्येव जगद्धेतुता असंगता । तथाहि
यो जन्मिनां हेतुर्नोत्पत्तिविकलत्वतः।
गगनाम्भोजवत् सर्वमन्यथा युगपद् भवेत्” ॥ [ किञ्च, प्रेक्षापूर्वकारिप्रवृत्तिः प्रयोजनवत्तया व्याप्तेति किं प्रयोजनमुद्दिश्य अयं जगत्करणे प्रवर्तते ?
१ "देवादेवार्थसिद्धिश्वेद् दैवं पौरुषतः कथम् । दैवतश्चेदनिर्मोक्षः पौरुषं निष्फलं भवेत्" ॥ इत्यादिर्दैवविचारोऽत्रानुसंधेयः-आप्तमी. परि. ८ श्लो०८८-1
२ “अन्ये खीशसधर्माणं पुरुष लोककारणम् । कल्पयन्ति दुराख्यातसिद्धान्तानुगवुद्धयः॥ समस्तवस्तुप्रलयेऽप्यलुप्तज्ञानशक्तिमान् । ऊर्णनाभ इवांऽशूनां स हेतुः किल जन्मिनाम्" ॥
-तत्त्वसं. का. १५३-१५४ पृ०७५-७६ । ३ अयं भावो भङ्गयन्तरेण बृहदारण्यकाद्युपनिषत्सु वर्णितः-बृहदा० उ० २-१-२० । श्वेताश्वत• उ० ६-१०। ब्रह्मोप० पृ. १५२ पं०५। तत्त्वसं० पजि. पृ. ७६ पं० ४। ४ पृ. २७३ पं० १३ टि. १.।
५-त्र कर्मटको वा. बा."ऊर्णनाभो मर्कटकः"-तत्त्वसं० पञ्जि० पृ. ७६ पं० १०। ६"अस्यापीश्वरवत् सर्व वचनीयं निषेधनम् । किमर्थ च करोत्येष व्यापारमिममीदृशम् ॥
-तत्त्वसं० का० १५५पृ०७६ । ७ तत्त्वसं० पजि. पृ० ७६ पं०१४।। ८ "यद्यन्येन प्रयुक्तखान स्यादस्य स्वतन्त्रता । अथानुकम्पया कुर्यादेकान्तसुखितं जगत् ॥ आधिदारिद्यशोकादिविविधायासपीडितम् । जनं तु सृजतस्तस्य कानुकम्पा प्रतीयते" ॥
-तत्त्वसं. का. १५६-१५७ पृ. ७६ १२स.प्र.
विशेषस्तु
२५