________________
तृतीये काण्डे
अथापि हेतुप्रणयालसो भवेत् प्रतिज्ञया केवलयाऽस्य किं भवेत् ?"॥
] इति । न च शापकहेतूपन्यासेऽपि कारकहेतुप्रतिक्षेपवादिनो न स्वपक्षबाधा इति वक्तव्यम् यतो लिङ्ग तत्प्रतिपादकं वा वचो यदि पक्षसिद्धरुत्पादकं न भवेत् कथं तस्य ज्ञापकहेतुता स्यात् अन्यथा सर्वस्य ५सर्व प्रति ज्ञापकता प्रसज्येत । न चैवं कारक-ज्ञापकहेत्वोरविशेषः साध्यानुत्पादकस्य ज्ञापकहेतुत्वात् तदुत्पादकस्य तु कारकहेतुशब्दवाच्यत्वात् अनुमानबाधितत्वं च प्रतिक्षायाः स्पष्टमेव । तथाहिप्रतिनियतभावसंनिधौ ये प्रतिनियतजन्मानस्ते सहेतुकाः यथा भवत्प्रयुक्तसाधनसंनिधिभावि तत्साध्यार्थज्ञानम् तथा च मयूरचन्द्रकादयो भावाः इति स्वभावहेतुः । तन्न स्वभावैकान्तवादाभ्युपगमो युक्तिसंगतः।
[नियत्येककारणवादमुपन्यस्य तस्यैकान्तिकखनिरासः] सर्वस्य वस्तु स्तथातथानियतरूपेण भवनाद् नियतिरेव कारणमिति केचित् । तथाहितीक्ष्णशस्त्राद्युपहता अपि तथामरणनियतताऽभावे जीवन्त एव दृश्यन्ते नियते च मरणकाले शस्त्रादिघातमन्तरेणापि मृत्युभाज उपलभ्यन्ते, न च नियतिमन्तरेण स्वभावः कालो वा कश्चिद् हेतुः यतः कण्टकादयोऽपि नियत्यैव तीक्ष्णादितया नियताः समुपजायन्ते न कुण्ठादितया कालोऽपि
देर्भावस्य तथानियततयैव तदा तदा तत्र तत्र तथा तथा निर्वर्तकम्(कः)। तथा चोक्तम्"प्राप्तव्यो नियतिवलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा।
भूतानां महति कृतेऽपि हि प्रयत्ने नाऽभाव्यं भवति न भाविनोऽस्ति नाशः" ॥[ ] इत्यादि। असदेतत् शास्त्रोपदेशवैयर्थ्यप्रसक्तेः तदुपदेशमन्तरेणापि अर्थेषु नियतिकृतत्वबुद्धेर्नियत्यैव भावाद् दृष्टादृष्टफलशास्त्रप्रतिपादितशुभाशुभक्रियाफलनियमाभावश्च । अथ तथैव नियतिः कारणमिति २० नायं दोषः, न; नियतेरेकखभावत्वाभ्युपगमे विसंवादाऽविसंवादादिमेदाभावप्रसक्तेः अनियमेन नियतेः कारणत्वाद अयमदोष इति चेत, नः अनियमे कारणाभावान्न नियतिरेव कारणम नियतेनित्यत्वे कारकत्वायोगात् अनित्यत्वेऽपि तद्योग एव । किञ्च, नियतेरनित्यत्वे कार्यत्वम् कार्य च कारणादुत्पत्तिमदिति तदुत्पत्तौ कारणं वाच्यम् । न च नियतिरेव कारणम् तत्रापि पूर्ववत्
पर्यनुयोगानिवृत्तेः । न च नियतिरात्मानमुत्पादयितुं समर्था स्वात्मनि क्रियाविरोधात् । न च काला२५ दिकं नियतेः कारणम् तस्य निषिद्धत्वात् । न च अहेतुका सा युक्ता नियतरूपताऽनुपपत्तेः । न च
खतोऽनियता अन्यभावनियतत्वकारणम् शशशृङ्गादेस्तद्रूपतानुपलम्भात् । तन्न नियतिरपि प्रतिनियतभावोत्पत्तिहेतुः।
[कर्मैककारणवादमुपन्यस्य तस्यैकान्तिकखनिरासः] जन्मान्तरोपात्तमिष्टाऽनिष्टफलदं कर्म सर्वजगद्वैचित्र्यकारणमिति कर्मवादिनः। तथा चाहुः३०
"यथा यथा पूर्वकृतस्य कर्मणः फलं निधानस्थमिवाऽवतिष्ठते ।
तथा तथा तत्प्रतिपादनोद्यता प्रदीपहस्तेव मतिः प्रवर्तते ॥" [ १ “तथाहि ज्ञापको हेतुर्वचो वा तत्प्रकाशकम् । सिद्धेनिमित्ततां गच्छन् साध्यज्ञापकमुच्यते" ॥
-तत्त्वसं० का० १२५ पृ. ६६। २१"अतः कारक एवायं ज्ञापको हेतुरुच्यते । साध्यानुत्पादकत्वात् तु कारको न प्रकाश्यते"॥
-तत्त्वसं० का० १२६ पृ०६६। ३ "तस्मात् सहेतवोऽन्येऽपि भावा नियतजन्मतः। साध्यार्थविषयं यदज्ज्ञानं साधनमावि ते"॥
-तत्त्वसं० का. १२७ पृ० ६७ ॥ ४-नस्तथानि-बृ. आ० हा० वि०। ५नियतिवादस्य प्ररूपको मस्करी गोशालक इति जैनागमानामभिप्रायः। गोशालकचरितं च भगवतीसूत्रीयपञ्चदशशतकादवसेयमत्र ।
६-दा तत्र तथा आ० भां०। ७ अयं श्लोकः शास्त्रवा० स्याद्वादक. टीकायामुद्धृतो वर्तते-पृ० ८३ द्वि०। ८ शास्त्रवा० स्याद्वादक० पृ.८५प्र.पं. ५।