________________
७१३
आयमीमांसा। केवलं बीजादिः कारणत्वेन भावानां निश्चितः किन्तु देश-कालादिरपि । तथाहि-यदि प्रतिनियतदेश-कालहेतुता कण्टकादेस्तैण्यादेन स्यात् तदा येयमतद्देश-कालपरिहारेण प्रतिनियतदेश-कालता तेषामुपलम्भगोचरचारिणी सा न स्यात् तन्निरपेक्षत्वात् तद्वद् अन्यदेशकाला अपि ते भवेयुः न चैवम् अतः प्रतिनियतदेशादौ वर्तमानास्तदपेक्षास्त इति सिद्धम् तथा च तत्कार्या अपेक्षालक्षणत्वात् तत्कार्यत्वस्य नियतदेशतया च तेषां वृत्तिरध्यक्षत एव सिद्धेति कथं न तत्कार्यतावगतिः ? यदपि ५ 'कादाचित्कत्वात्' इति साधनम् , तदपि विरुद्धम् ; साध्यविपर्ययसाधनाद् अहेतोः कादाचित्कत्वानुपपत्तेः । साध्यविकलश्च दृष्टान्तः अहेतुकत्वस्य तत्राप्यभावात् । एवमनुपलभ्यमानसत्ताकं भावानां कारणमिति हेतोरसिद्धता प्रतिज्ञायाश्च प्रत्यक्षविरोधो व्यवस्थितः । सिद्धत्वेऽपि चास्य हेतोरनैकान्तिकत्वम् । तथाहि-यदि अनुपलम्भमात्रं हेतुत्वेन उपादीयते तदा प्रमाणाभावात् कारणसत्ताभावासिद्धः कथं नानैकान्तिकता ? तथाहि-कारणम् व्यापकं वा निवर्तमान कार्यम् व्याप्यं वा १० आदाय निवर्तते । न च प्रमाणमर्थसत्ताया व्यापकं वृक्षत्ववत् शिंशपायाः अभिन्नस्यैव व्यापकत्वात् । न च प्रमाण-प्रमेययोरमेदः भिन्नप्रतिभासविषयत्वात् । नापि प्रमाणं कारणमर्थस्य व्यभिचारात् देश-कालादिविप्रकृष्टानां भावानां प्रमाणाविषयीकरणेऽपि सत्ताऽविरोधात् । न च यदन्तरेणापि यद् भवति तत् तस्य कारणम् अतिप्रसङ्गात् कारणत्वाभ्युपगमे स्वाभ्युपगमव्याघातात् । न च प्रमा. णात् प्रमेयप्रभवः अपि तु प्रमेयात् प्रमाणस्य अन्यथा तेन तद्हणाऽयोगात् । न च प्रमाणमप्रतिबद्धमपि १५ अर्थसत्तानिवर्तकम् अतिप्रसङ्गात्-गोनिवृत्तौ अश्वनिवृत्तिप्रसक्तेः। किञ्च, अनुपलब्धिर्हेतुत्वेन उपादीयमाना खोपलम्भनिवृत्तिरूपा वा उपादीयेत, सर्वपुरुषोपलम्भनिवृत्तिस्वभावा वा? तत्र न तावद् आद्यः पक्षः खल-बिलाद्यन्तर्गतस्य बीजादेः स्वोपलम्भनिवृत्तावपि सत्ताअनिवृत्तेर्हेतोरनैकान्तिकत्वात् । अथ द्वितीयः पक्षः सोऽपि न युक्तः; हेतोरसिद्धेः न हि मयूरचन्द्रकादेः सर्वपुरुषैरदृष्टं कारणं नोपलभ्यते इत्यर्वाग्दशा निश्चेतुं शक्यम् । किञ्च, 'निर्हेतुका भावाः' इत्यत्र हेतुरुपादीयते, आहो-२० खित् नेति ? यदि नोपादीयते तदा न स्वपक्षसिद्धिः प्रमाणमन्तरेण तस्या अयोगात् । अथ हेतुरुपादीयते तदा स्वाभ्युपगमविरोधः प्रमाणजन्यतया स्वपक्षसिद्धेरभ्युपगमात् । तदुक्तम्
_ "न हेतुरस्तीति वदन् सहेतुकं ननु प्रतिज्ञां स्वयमेव बाधते । १ "तदपेक्षा तथावृत्तिरपेक्षा कार्यतोच्यते । प्रत्यक्षा च तथा वृत्तिः सिद्धास्तेनेह हेतवः" ॥
-तत्त्वसं० का० ११७ पृ. ६४ । -कार्यापे-बृ० आ. हा. वि.। "तदन्यदेशादिपरिहारेण नियते देशादौ या वृत्तिरियमेवापेक्षेत्युच्यते न खभिप्रायात्मिका । स्यादेतद् यदि नाम तदपेक्षा तेषाम् तथापि तत्कार्यता कथमवसितेत्याह-अपेक्षा कार्यतोच्यत इति"
-तत्त्वसं० पजि. पृ. ६४ पं. १७॥ २-षामवृ-भा. मा. विना। ३ "तत्वाभाविकवादोऽयं प्रत्यक्षेण प्रबाध्यते । प्रत्यक्षानुपलम्भाभ्यां हेतुरूपस्य निश्चयात्"।
-तत्त्वसं० का० ११८ पृ. ६४। ४ "मा वा प्रमाणसत्ता भूद्धेतुसद्भावसिद्धये । तथापि मानाभावेन नैवार्थासत्त्वनिश्चयः" ॥
-तत्त्वसं० का० ११९ पृ. ६५ । ५ “यस्मादर्थस्य सत्ताया व्यापकं न च कारणम् । प्रमाणं भेदसद्भावाझ्यभिचारात् तदुद्भवात्" ॥
-तत्त्वसं० का० १२० पृ० ६५। ६यमन्त-बृ. आ. हा.वि.। "कारणलाभ्युपगमे वा"-तत्त्वसं० पजि. पृ. ६५५० १५॥ ८ "यश्च नैवंविधो भावस्तस्य नैव निवृत्तितः । ऐकान्तिकमसंबन्धाद् गम्यतेऽन्यनिवर्तनम्" ॥
-तत्त्वसं० का० १२१ पृ. ६५॥ ९ "सर्वा दृष्टिश्च संदिग्धा खा दृष्टिर्व्यभिचारिणी। विन्ध्यादिरन्ध्रदूर्वादेरदृष्टावपि सत्त्वतः" ।
-तत्त्वसं. का० १२२ पृ०६५। १० धुस्तूरे तमाले च खलशब्दः बिलस्त वेतसवृक्षे-वैद्यक. सिं०। ११ “अहेतुकबसिद्धयर्थ न चेद्धेतुः प्रयुज्यते । न चाप्रमाणिकी सिद्धिरतः पक्षो न सिद्धयति ॥ तत्सिद्धये च हेतुश्चेत् प्रयुज्येत तथापि न । सिद्धेस्तद्धेतुजन्यत्वात् पक्षस्ते संप्रसिद्धयति" ॥
-तत्त्वसं० का० १२३-१२४ पृ.६६। १२ तत्त्वसं० पत्रिकायाम् "तथा चोकमाचार्यसरिपादैः" इति निर्दिश्य पद्यमिदमुपनिबद्धम् तत्र च "खयमेव सादयेत्" इति पाठो मुद्रितः-पृ.६६५० १४ ।