________________
७१२
तृतीये काण्डे -
"कैः कण्टकानां प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां वा । स्वभावतः सर्वमिदं प्रवृत्तं न कामचारोऽस्ति कुतः प्रयत्नः ?” ॥ [
1
अथापि स्यात् भवतु बाह्यानां भावानां कारणानुपलब्धेरहेतुकत्वम् आध्यात्मिकानां तु कुतो निर्हेतुकत्वसिद्धिः ? असदेतत्; यतो यदि नाम दुःखादीनामध्यक्षतो निर्हेतुकत्वमसिद्धं तथापि अनुमान५ तस्तत् तेषां सिद्धमेव । तथाहि - यत् कादाचित्कं तद् निर्हेतुकम्, यथा कण्टकादेस्तैक्ष्ण्यम्, कादाचित्कं च सुखादिकमिति स्वभावहेतुः । न च यस्य भावाभावयोर्नियमेन यस्य भावाभावी तत् तस्य कारणम्, व्यभिचारात् । तथाहि - स्पर्शसद्भाव एव चक्षुर्विज्ञानम् तदभावे न तत् कदाचित्, न च स्पर्शः तत्कारणम् । तन्नैतत् कारणभावलक्षणम् व्यभिचारित्वात् । अतः सर्वहेतु निराशंसं जन्म भावानामिति सिद्धम्,
१० असदेतत् कैण्टकादितैक्ष्ण्यादेरपि निर्हेतुकत्वासिद्धेः । तथाहि - अध्यक्षाऽनुपलम्भाभ्यामन्वयव्यतिरेकतो बीजादिकं तत्कारणत्वेन निश्चितमेव । येस्य हि यस्मिन् सत्येव यस्य भावः यस्य च विकाराद् यस्य विकारः तत् तस्य कारणमुच्यते । उत्सूनादिविशिष्टावस्थाप्राप्तं च बीजं कण्टकादितैक्ष्ण्यादेरन्वयव्यतिरेकवत् अध्यक्षाऽनुपलम्भाभ्यां कारणतया निश्चितमिति 'अनुपलभ्यमानसत्ताक च कारणम्' इति असिद्धो हेतुः । यदपि 'कार्यकारणभावलक्षणं व्यभिचारि' इत्युक्तम्, तदपि असि१५द्धम् ; स्पर्शस्यापि रूपहेतुतया चक्षुर्विज्ञाने निमित्ततया इष्टत्वात् तमन्तरेण रूपेस्यैव विशिष्टावस्थस्यासंभवात् । न च व्यतिरेकमात्र कार्यकारणभावनिबन्धनत्वेन अभ्युपगम्यते तद्वादिभिः किन्तु तद्विशेष एव । तथाहि - समर्थेषु सत्सु येषु कार्य भवद् उपलब्धम् तेषां मध्ये अन्यतमस्यापि अभावे तद् अभवत् तत्कारणं तद् इति व्यवस्थाप्यते न तु यस्याभावे यन्न भवतीति व्यतिरेकमात्रतः; अन्यथा मातृविवाहोचितपारशीकदेशप्रभवस्य पिण्डखर्जूरस्य तद्विवाहाभावे अभावाद् अव्यभिचारः स्यात् । २० न चैवंभूतस्य व्यतिरेकस्य स्पर्शेन व्यभिचारः न हि रूपादिसंनिधानमुपदर्श्य स्पर्शस्य एकस्याभावात् चक्षुर्विज्ञानं न भवतीति शक्यं दर्शयितुमिति कुतो व्यभिचारः कार्यकारणभावलक्षणस्य ? न
१ अयं श्लोकः शास्त्रवा० स्याद्वादक० टीकायाम् षड्द० बृ० टीकायां च विद्यते - पृ० ८३ प्र० । पृ० १३ । माठरवृत्ती तु
"येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः । मयूराश्चित्रिता येन स नो वृत्तिं विधास्यति ॥ इति भावार्थकः श्लोको वर्तते पृ० ७५ । २ “यथैव कण्टकादीनां तैक्ष्ण्यादिकमहेतुकम् । कादाचित्कतया तद्वद् दुःखादीनामहेतुता” ॥ - तत्त्वसं० का० ११२ पृ० ६२ । बोधिचर्यावतारपत्रिकायां तत्त्वसंप्रहीयकारिकाभिरेव स्वभाववादः स्थापितः निरस्तव प्रकारान्तरेण परि० ९ पृ० ५४१ । धर्मसंग्रहण्यां तु केवलं स्वभाववादस्थापनं तनिरसनं चोभयमन्यया भन्या वर्णितं विद्यते । तथाहि तदाद्यान्त्यभागौ —
" किन्न सहावो त्ति मई भावो वा होज जं अभावो वा । जइ भावो किं चित्तो किंवा सो एगरूवो त्ति ॥ xxx एवं नियइ जइच्छा कालो दिव्वं पधाणमादी वि । सव्वे वि असव्वाया एगंतेणं मुणेयव्वा" ॥ - धर्मसं० गा० ५४९-५६६ पृ० २११-२१६ । ३ “सरोज केसरादीनामन्वयव्यतिरेकवत् । अवस्थातिशयाक्रान्तं बीजपङ्कजलादिकम् ॥ प्रत्यक्षानुपलम्भाभ्यां निश्चितं कारणं यदा । किमित्यन्यस्तदा हेतुरमीषां परिपृच्छयते ॥
- तत्त्वसं० का० ११३-११४ पृ० ६३ ।
४ अत्र वाक्ये द्वयोः 'यस्य' पदयोः निष्प्रयोजनकत्वेन 'यस्य हि यस्मिन् सत्येव भावः' इत्येव पाठः समीचीनः संभाव्यते । “तथाहि–यस्मिन् सत्येव यस्य जन्म भवति यस्य च विकाराद् यस्य विकारस्तत् तस्य कारणमुच्यते । तच्चैवंभूतं बीजादिकमुच्छूनादिविशिष्टावस्थाप्राप्तं राजीव केसरादीनामन्वयव्यतिरेकवत् " - तत्त्वसं० प० पृ० ६३ पं० १५ ।
५-पस्यैवं वि-बृ० । “स्पर्शस्यापि रूपहेतुतया चक्षुर्विज्ञानेऽपि निमित्तभावस्येष्टत्वात् । तथाहि - स्पर्श इति भूतान्युच्यन्ते । तानि चोपादायोपादाय रूपं वर्तते ततश्चक्षुर्विज्ञानं प्रति स्पर्शस्य निमित्तभावोऽस्त्येव केवलं साक्षात्पारंपर्यकृतो विशेषः " - तत्त्वसं० पक्षि० पृ० ६३ पं० १९ ।
६ “नियतौ देश - कालौ च भावानां भवतः कथम् । यदि तद्धेतुता नैषां स्युस्ते सर्वत्र सर्वदा ॥
कश्चित् कदाचित् कस्मिंश्चिद् भवन्तो नियताः पुनः । तत्सापेक्षा भवन्त्येते तदन्यपरिहारतः” ॥ - तत्त्वसं० का० ११५-११६ पृ० ६४ ।