________________
ज्ञेयमीमांसा ।
[ कालै कारणवादमुपन्यस्य तस्यैकान्तिकत्वनिरासः ]
तत्र काल एव एकान्तेन जगतः कारणमिति कालवादिनः प्राहुः । तथाहि - सर्वस्य शीतोष्णवर्ष-वनस्पति- पुरुषादेर्जगतः प्रभव-स्थिति- विनाशेषु ग्रहोपरागयुतियुद्धोदयास्तमयगतिगमनागमनादौ च कालः कारणम् तमन्तरेण सर्वस्यास्याऽन्यकारणत्वाभिमतभावसद्भावेऽप्यभावात् तत्सद्भावे च भावात् । तदुक्तम्
"कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुतेषु जागर्ति कालो हि दुरतिक्रमः” ॥
७११
५
[ महाभा० आदिप० अ० १ श्लो० २७३, २७५ ], असदेतत्; तत्कालसद्भावेऽपि वृष्ट्यादेः कदाचिददर्शनात् । न च तदभवनमपि तद्विशेषकृतमेव, नित्यैकरूपतया तस्य विशेषाभावात् । विशेषे वा तज्जननाऽजननस्वभावतया तस्य नित्यत्वव्य- १० तिक्रमात् स्वभावभेदाद् भेदसिद्धेः । न च ग्रहमण्डलादिकृतो वर्षादेर्विशेषः तस्यापि अहेतुकतयाऽभावात् । न च काल एव तस्य हेतुः इतरेतराश्रयदोषप्रसक्तेः - सति कालभेदे वर्षादिभेद हेतोर्ग्रहमण्डलादेर्भेदः तद्भेदाच्च कालभेद इति परिस्फुटमितरेतराश्रयत्वम् । अन्यतः कारणाद् वर्षादिभेदे न 'काल एव एकः कारणं भवेत्' इत्यभ्युपगमविरोधः । कालस्य च कुतश्चिद् भेदाभ्युपगमे अनित्यत्वमित्युक्तम् । तत्र च प्रभव- स्थिति - विनाशेषु यद्यपुरः कालः कारणम्, तदा तत्रापि स एव पर्यनुयोग १५ इत्यनवस्थानान्न वर्षादिकार्योत्पत्तिः स्यात् । न चैकस्य कारणत्वं युक्तम् क्रम- यौगपद्याभ्यां तद्विरोधात् । तन्न काल एव एकः कारणं जगतः ।
[ स्वभावैककारणवादमुपन्यस्य तस्यैकान्तिकत्वनिरास: ]
अपरे तु 'स्वभावत एव भावा जायन्ते' इति वर्णयन्ति । अत्र यदि 'स्वभावकारणा भावाः' इति तेषामभ्युपगमस्तदा स्वात्मनि क्रियाविरोधो दोषः न हि अनुत्पन्नानां तेषां स्वभावः समस्ति उत्पन्नानां २० तु स्वभावसंगतावपि प्राक् स्वभावाभावेऽपि उत्पत्तेर्निर्वृत्तत्वान्न स्वभावस्तत्र कारणं भवेत् । अथ कारणमन्तरेण भावा भवन्ति स्व-परकारणनिमित्तजन्मनिरपेक्षतया सर्वहेतुनिराशंसस्वभावा भावाः । तथा चात्र स्वभाववादिभिर्युक्तिः प्रदर्श्यते यद् अनुपलभ्यमानसत्ताकं तत् प्रेक्षावतामसद्व्यवहारविषयः, यथा शशशृङ्गम्, अनुपलभ्यमानसत्ताकं च भावानां कारणमिति स्वभावानुपलब्धिः । न च अयमसिद्धो हेतुः कण्टकादितैक्ष्ण्यादेर्निमित्तभूतस्य कस्यचिद् अध्यक्षादिना असंवेदनात् । तदुक्तम् - २५
१ अत्र प्रहीयविविधदशायाः प्रस्तुतत्वेन उपराग - युति - युद्धादयः सर्वेऽपि शब्दा प्रहेण योज्याः तदर्थंच सूर्यसिद्धान्तादिज्योतिषग्रन्थेभ्योऽवसेयः ।
२- मयगमन - बृ० आ० हा० वि० । ३- त् न तत्स - बु० आ० हा० वि० । मित्थं वर्णितं विद्यते
४ महाभारते कालमाहात्म्य
“विधातृविहितं मार्ग न कश्चिदतिवर्तते । कालमूलमिदं सर्वं भावाभावौ सुखासुखे ॥ कालः सृजति भूतानि कालः संहरते प्रजाः । संहरन्तं प्रजाः कालं कालः शमयते पुनः ॥ कालो विकुरुते भावान् सर्वालोके शुभाशुभान् । कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः ॥ कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः । कालः सर्वेषु भूतेषु चरत्यविधृतः समः ॥ अतीतानागता भावा ये च वर्तन्ति साम्प्रतम् । तान् कालनिर्मितान् बुद्धा न संज्ञां हातुमर्हसि " ॥ - महाभा० आदिप० अ० १० २७२-२७६ । ५ सांख्यकारिकावृत्तौ, शास्त्रवार्तासमुच्चये षड्दर्शनसमुच्चयबृहट्टीकायां च अयमीदृश एव श्लोको वर्तते पृ० ७६ । पु० ८० लो० ५४ । पृ० ११ पं० १२-१३ ।
६ स्वभाववादनिरूपण-तन्निरसनपरा प्रस्तुता टीका तत्त्व संग्रहीय खाभावि कवादपरीक्षयाऽक्षरशः साम्यं भजते । तथाहि"सर्वहेतुनिराशंसं भावानां जन्म वर्ण्यते । स्वभाववादिभिस्ते हि नाहुः खमपि कारणम्" ॥
-तत्त्वसं० का० ११० पृ० ६२ । ७- दा स्यादात्म-भां० मां० । “ ते खक्रियाया विरोधत इत्यादिना निरस्ताः " - तत्त्वसं० पञ्जि० पृ० ६२ पं० ९ । ८ " राजीव केसरादीनां वैचित्र्यं कः करोति हि । मयूरचन्द्र कादिर्वा विचित्रः केन निर्मितः " ॥
-तत्त्वसं० का० १११ पृ० ६२ ।