________________
तृतीये काण्डेवर्तिद्रव्यपर्यायात्मकैकवस्तुतत्त्वविषयरुच्यात्मकाऽबाधिताऽवबोधस्वभावत्वात् । यदा तु अन्योन्यनिरपेक्षद्रव्य-पर्यायप्रतिपादनत्वेन उपनीतौ भवतो न तदा सम्यक्त्वं प्रतिपद्येते यस्मात् संसारमा. विजन्मादिदुःखविमोक्षमात्यन्तिकं विश्लेषं द्वावपि तौ प्रत्येकं न विधत्तः मिथ्याज्ञानात् सम्यकियानङ्गतया आत्यन्तिकभवोपद्रवानिवृत्त्यसिद्धेः तद्विपर्ययकारणत्वात् तच्चासकृत् प्राक् प्रति. ५पादितमिति न पुनः प्रतन्यते । ततः कारणात् कार्य कथंचिद् अन्यत् कथंचिदनन्यत् अत एव तदतद्रूपतया 'सच्च असच्च' इति ॥५१॥
[ कार्य-कारणयोर्भेदाभेदरूपत्वदर्शनेनानेकान्तरूपखोपपादनम् ] अमुमेव अर्थमुपसंहारद्वारेण उपदर्शयन्नाह
नत्थि पुढवीविसिट्ठो घडोत्ति जं तेण जुज्जइ अणण्णो।
जं पुण घडो'त्ति पुवं ण आसि पुढवी तओ अण्णो ॥५२॥ नास्ति सद्रव्यमृत्पृथिवीत्वादिभ्यो विश्लिष्टो भिन्नो घटः सदादिव्यतिरिक्तस्वभावतया तस्यानुपलम्भात् । किञ्च, यदि सत्त्वादयो धर्मा घटाद् एकान्ततो भिन्नाः सोऽपि वा तेभ्यो भिन्नः स्यात् तदा न घटस्य सदादित्वं स्यात् खतोऽसदादेरन्यधर्मयोगेऽपि शशशृङ्गादेरिव तत्तत्वा(तथात्वा)
योगात् सदादेरपि घटाद्याकाराद् अत्यन्तभेदे निराकारतया अत्यन्ताभावस्येव उपलम्भविषयत्वायो. १५ गाद् ज्ञेयत्व-प्रमेयत्वादिधर्माणामपि सदादिधर्मेभ्यो मेदे असत्त्वम् सदादेस्तु तेभ्यो भेदे अज्ञेयत्वाद् असत्त्वमेव "उपलम्भः सत्ता" [
] इति वचनात् । ततः सदादिरूपतया उपलभ्यमानत्वाद् घटस्य तेभ्योऽभिन्नरूपताऽभ्युपगन्तव्या प्रमेयव्यवस्थितेः प्रमाणनिबन्धनत्वात् । यत् पुन: पृथुबुधोदराद्याकारतया पूर्व सदादिर्न आसीत् ततोऽसौ अन्यस्तेभ्यो घटरूपतया प्राक् सदा
देरनुपलम्भात् प्रागपि तद्रूपस्य सदादौ सत्त्वे अनुपलम्भायोगात् दृश्याऽनुपलम्भस्य च अभावाव्य२० भिचारित्वात् तदतद्रूपतायां च विरोधाभावात् प्रतीयमानायां तदयोगात् अबाधितप्रत्ययस्य च मिथ्यात्वासंभवाद् बाधाविरहस्य च प्रागेव उपपादितत्वात् ॥५२॥
[सदायेकान्तवत् कालायेकान्तेऽपि मिथ्यात्वख्यापनम् ] सदायेकान्तवादवत् कालाकान्तवादेऽपि मिथ्यात्वमेव इत्याह
कालो सहाव णियई पुवकयं पुरिस कारणेगंता। २५ मिच्छत्तं ते चेवा(व) समासओ होंति सम्मत्तं ॥५३ ॥
कोल-खभाव-नियति-पूर्वकृत-पुरुषकारणरूपा एकान्ताः सर्वेऽपि एकका मिथ्यात्वम् त एव समुदिताः परस्पराऽजहहृत्तयः सम्यक्त्वरूपतां प्रतिपद्यन्ते इति तात्पर्यार्थः ।
१-तत्तथात्वयो-आ० हा० वि० । २-न्ताभावादस्यैव वोपल-बृ. आ० हा० वि०। ३-वादोऽपि वा. बा. भां० मा०। ४ चेव उ स-गु० मू. मु. मू०।
५ श्वेताश्वतरोपनिषदि ब्रह्मकारणताप्रश्नविचारे काल-खभावादीनामपि कारणता चर्चिता निरस्ता च विद्यते । तद्यथा"ॐ ब्रह्मवादिनो वदन्ति
किं कारणं ब्रह्म कुतः स्म जाता जीवाम केन क च संप्रतिष्ठाः । अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम् ॥ काल-खभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् ।
संयोग एषां न खात्मभावादात्माप्यनीशः सुख-दुःखहेतोः" ।-१-२ इत्यादि-1 अ० १॥ माठरेण सांख्यकारिकावृत्ती, क्रियाऽक्रियावादादिमतं विवेचयता शीलाङ्केन सूत्रकृताङ्गसूत्रटीकायाम् हरिभद्रेण शास्त्रवार्तासमुच्चये च काल-खभावादिवादा भड्यन्तरेण उपन्यस्ता निरस्ताश्च विद्यन्ते । तद्यथा
का० ६१ पृ० ७५-७६ । समवस० अ० १२ पृ० २१० प्र०-२११ प्र. शास्त्रवा० समु. स्तब० २ श्लो० ५२८१ पृ० ७९-८९।
क्रियाऽक्रियावादादिखरूपं निरूपयन् गुणरत्नः षड्दर्शनसमुच्चयबृहट्टीकायां काल-खभावादिवादानां खरूपमात्रं प्ररूपि. तवान् । तच्च-पृ० १० पं. १५-पृ. १६ पं०५।