________________
ज्ञेयमीमांसा।
७०९
रूपस्यब्दवाच्याच वस्तुना
उपल
तदनेकत्वेऽपि तस्यैकत्वे कथं न अनेकाकारमेकं स्यात् ? अथ तत्प्रतिपत्तौ नावयविप्रतिपत्तिस्तर्हि निराधारस्य रूपस्य प्रतिपत्तौ गुणरूपता विशीर्यंत द्रव्याश्रयादिलक्षणयोगित्वात् तस्य । न च तद्रूपता(ताऽ)प्रतिपत्तौ तल्लक्षणयोगिता तस्य अवगन्तुं शक्या प्रमेयव्यवस्थायाः प्रमाणाधीनत्वात् । अणुपरिमाणयोगित्वे च अल्पतरपटादिरूपस्य परमाणोरिव द्रव्यरूपताप्रसक्तिः तस्यैव तद्योगित्वात् अत एव 'एकावयवसहितस्य पटस्योपलम्भात् एकरूपोपलम्मेऽपि आश्रयाव्यापितया शेषरूपाणामनु-५ पलम्भाच्चित्रप्रतिभासाभावः' इति यदुक्तम् तदपि निरस्तम्, एकरूपोपाध्युपकाराङ्गशत्यभिन्नस्य पटद्रव्यस्य निश्चयात्मना अध्यक्षेण ग्रहणे अशेषरूपोपाध्युपकारकशक्त्यभिन्नात्मनस्तस्य एकरूपतया ग्रहणात् उपकार्यग्रहणमन्तरेण उपकारकत्वग्रहणस्यासंभवात् शक्तीनां ततो भेदे संबन्धासिद्धरपरोपकारकशक्तिप्रकल्पनायामनवस्थाप्रसक्तेः कथं नाशेषोपकार्यरूपप्रतिभासाच्चित्रप्रतिभासप्रसक्तिः? एतेन तन्तूनां नीलाद्यनेकरूपसंबन्धित्वात् पटेऽपि अनेकरूपारम्भकत्वे न किञ्चिद् बाधकं प्रमाण १० कारणगुणपूर्वक्रमेण तथाविधस्य रूपस्य उत्पादात्' इत्यपि प्रत्युक्तम् एकावयवप्रतिभासे चित्रप्रतिभासोत्पत्तिप्रसङ्गस्यैव बाधकत्वात् । यदपि भवतु वा एकं पटे चित्रं रूपम् नीलादिरूपैरेकरूपारम्भात् यथा हि शुक्लादिर्विशेषो रूपस्य तथा चित्रमपि रूपविशेष एव चित्रशब्दवाच्यः' इति, तदपि असंगतमेव; अनेकाकारस्य एकत्वे चित्रैकशब्दवाच्यत्वे वाभ्युपगम्यमाने सदसदनेकाकारानुगतस्य एकस्य कारणादिशब्दवाच्यत्वेनाभ्युपगमाविरोधात् । यथा च बहूनां तन्त्वादिगतनीलादिरूपाणां १५ पटगतैकचित्ररूपारम्भकत्वं दृष्टत्वादविरुद्धं तथानेकाकारस्य एकरूपत्वं वस्तुनो दृष्टत्वादेवाविरुद्धमभ्युपगन्तव्यम् अत एव एकानेकरूपत्वात् चित्ररूपस्य एकावयवसहितेऽवयविनि उपलभ्यमाने शेषावयवावरणे चित्रप्रतिभासाभाव उपपत्तिमान् । सर्वथा त्वेकरूपत्वे तत्रापि चित्रप्रतिभासः स्यात् अवयविव्याप्त्या तद्रूपस्य वृत्तेः । न चावयवनानारूपोपलम्भसहकारीन्द्रियमवयविनि चित्रप्रतिभासं जनयतीति तत्र सहकार्यभावात् चित्रप्रतिभासानुत्पत्तिरिति वाच्यम्, अवयविनोऽप्यनुपलब्धि-२० प्रसङ्गात् न हि चाक्षुषप्रतिपत्त्याऽगृह्यमाणरूपस्यावयविनो वायोरिव ग्रहणं दृष्टम् । न च चित्ररूपव्यतिरेकेणापरं तत्र रूपमात्रमस्ति यतस्तत्प्रतिपत्त्या पटग्रहणं भवेत् । न चावयवरूपोपलम्भोऽवयविरूपप्रतिपत्तौ अक्षसहकारी, तद्भावे वा तदवयवरूपोपलम्भोऽपि स्वावयवरूपोपलम्भाक्षसहकारी इति तमन्तरेण स न स्यादिति पूर्वपूर्वावयवरूपोपलम्भापेक्षया परमाणुरूपोपलम्भाभावात् तजन्य व्यणुकाद्यवयविरूपोपलम्भासंभवान्न क्वचिदपि रूपोपलब्धिः स्यात् । तद्भावे च नावयव्युपलब्धि-२५ रिति तदाश्रितपदार्थानामप्युपलम्भाभावात् सर्वप्रतिभासाभावः स्यात् । तत एकानेकखभावं चित्रपटरूपवद्वस्तु अभ्युपगन्तव्यं वैशेषिकेण। ___ बौद्धनापि चित्रपटप्रतिभासस्य एकानेकरूपतामभ्युपगच्छता एकानेकरूपं वस्तु अभ्युपगतमेव । अथ प्रतिभासोऽपि एकानेकरूपो नाभ्युपगम्यते तर्हि सर्वथा प्रतिभासाभावः स्यात् इति असकृद् आवेदितम् । तत एकान्ततोऽसति कार्ये न कारणव्यापारस्तेनाभ्युपगन्तव्यः असति तत्र ३० तद्भावात् । नापि सति, मृत्पिण्डे तस्य तमन्तरेणापि ततः प्रागेव निष्पन्नत्वात् । न च मूत्पिण्डे कारकव्यापारः पृथुबुनोदराद्याकारस्तत्फलम् अन्यत्र व्यापारे अन्यत्र फलासंभवात् स एव मृत्पिण्डः कारकव्यापारात् पृथुबुध्नोदराद्याकारतां प्रतिपद्यते इति कारकव्यापार-फलयोरैक्यविषयत्वे अनेकान्तवादसिद्धिः । तस्माद् द्रव्यास्तिक-पर्यायास्तिकाभ्यां केवलाभ्यां सहिताभ्यामन्योन्यनिरपेक्षाभ्यां व्यवस्थापितं वस्तु असत्यमिति तत्प्रतिपादकं शास्त्रं सर्व मिथ्येति व्यवस्थितम् ॥ ५० ॥
[अन्वय-व्यतिरेकाभ्यां निरपेक्षनयद्वये मिथ्याज्ञानरूपत्वस्य दृढीकरणम् ] अमुमेवार्थमन्वय-व्यतिरेकाभ्यां दृढीकर्तुमाह
ते उ भयणोवणीया सम्मइंसणमणुत्तरं होति ।
जं भवदुक्खविमोक्खं दो वि न पूरेंति पाडिकं ॥५१॥ तौ द्रव्य-पर्यायास्तिकनयौ भजनया परस्परस्वभावाऽविनाभूततया उपनीतौ सदसद्रूपैका-४० न्तव्यवच्छेदेन तदात्मकैककार्यकारणादिवस्तुप्रतिपादकत्वेन उपयोजितौ यदा भवतस्तदा सम्यग्दर्शनमनुत्तरं-नास्ति अस्माद् अन्यद् उत्तरं प्रधानं यस्मिंस्तत् तथाभूतं-भवतः परस्पराविनिर्भाग
१अत्र कन्दलीगतं चित्ररूपसमर्थकं युक्तिकथनमवबोद्धव्यम्-प्रशस्त. क. पृ. ३०५०३