________________
तृतीये काण्डे
[प्रसङ्गात् चित्ररूपचर्चा ] अथ तदवयवानां शुक्लाद्यनेकरूपयोगिता अवयविनस्तु एकमेव रूपम्, न; तदवयवानामपि अवयवित्वेनानेकप्रकारैकरूपयोगित्वविरोधात । अथ प्रत्येकमवयवेषु शुक्लादिकमेकैकं रूपम् तर्हि तदव यवादिष्वपि एकैकमेव रूपं यावत् परमाणव इति विभिन्नघट-पटादिपदार्थेष्विव चित्रपटेऽपि नील५पीत-शुक्लरूपा एते भावाः' इति प्रतिपत्तिः स्यात् न पुनः 'चित्ररूपः पटः' इति, अवयवाऽवयविनोरन्यत्वात् अवयवानामनेकरूपा(प)संबन्धित्वेऽपि अवयविनस्तथाभावाभावात् । अथावयविनोऽपि विभिन्नानेकरूपसंबन्धित्वमभ्युपगम्यते तथापि चित्रैकरूपप्रतिभासानुपपत्तिः अनेकरूपसंबन्धित्वस्यैव तत्र सद्भावात् सूत्रव्याघातश्चैवं स्यात् "अविभुनि द्रव्ये समानेन्द्रियग्राह्याणां विशेषगुणानामसंभवात्”[ ] इति सूत्रेणाभिधानात् अव्यापके पटादिद्रव्ये एकेन्द्रियग्राह्याणां शुक्लादीनां विशेषगुणा१० नामसंभवोऽनेन सूत्रेण प्रतिपादितः स च व्याहन्येत । किञ्च, शुक्लादीनामेकत्र पटादावनेकखरूपाणां
सद्भावाभ्युपगमे व्याप्यवृत्तित्वम्, अव्याप्यवृत्तित्वं वा? अव्याप्यवृत्तित्वे "शेषाणामाश्रयव्यापित्वम् [प्रशस्त० कं० पृ० १०३ पं०८] इति विरुध्येत । आश्रयव्यापित्वेऽप्येकावयवसहितेऽपि अवयविनि उपलभ्यमाने अपरावयवाऽनुपलब्धावपि अनेकरूपप्रतिपत्तिः स्यात् सर्वरूपाणामाश्रयव्यापित्वात् ।
अथ शुक्लाद्यनेकाकारं चित्रमेकं तद्रूपं यथा शुक्लादिको रूपविशेषः कथं तर्हि अनेकाकारमेक रूपम१५ विरुद्धं भवेत् चित्रैकरूपाभ्युपगमस्य चित्रतरत्वात् । अथ चित्रैकरूपस्य तस्य प्रत्यक्षेण प्रतीतेन विरो
धस्तर्हि सदसद्रूपैकरूपतया कार्यकारणरूपस्य वस्तुनःप्रतिपत्तौ विरोधः कथं भवेत् ? न च चित्रपटादावपास्तशुक्लादिविशेष रूपमात्रं तदुपलम्भान्यथानुपपत्त्याऽस्तीति अभ्युपगन्तव्यम् 'चित्ररूपः पटः' इति प्रतिभासाभावप्रसक्तेः। अथ परस्परविरुद्धानां शुक्लादिरूपाणां चित्रैकरूपानारम्भकत्वात् शुक्ला
दीनां रूपाणां समानरूपारम्भकत्वोपलम्भान्न तत्र चित्रैकरूपोत्पत्तिः । नन्वयमपरो वैशेषिकस्येव २० दोषोऽस्तु असमानजातीयगुणानारम्भवादिनः । किञ्च, यदि समानजातीयगुणारम्भकत्वमेव कारण
गुणानामित्यभ्युपगमः 'शुक्लात् शुक्लम्' इत्यादिप्रतीतेः कथं तर्हि कारणगतशुक्लादिरूपविशेषेभ्यः कार्य रूपमात्रस्य अपास्ततद्विशेषस्य उत्पत्तिर्भवेत् तेभ्यस्तस्यासमानत्वात् । अथ तद्गतरूपमात्रेभ्यस्तद्रूपमात्रस्य उत्पत्तेर्न दोषः, असदेतत् शुक्लादिरूपविशेषव्यतिरेकेण रूपत्वादिसामान्यमपहाय रूपमात्रस्याभावात् सामान्यस्य च नित्यत्वेन अजन्यत्वात् । न च रूपमात्रनिबन्धनः 'चित्ररूपः २५ पटः' इति प्रतिभासो युक्तः, शुक्लादिप्रत्ययस्यापि तन्निबन्धनत्वेन शुक्लादिरूपविशेषस्याऽप्यभावप्रसक्तेः । न चावयवगतचित्ररूपात् पटे चित्रप्रतिभासः अवयवेष्वपि तद्रूपासंभवात् । न च अन्यरूपस्यान्यत्र विशिष्टप्रतिपत्तिजनकत्वम् पृथिवीगतचित्ररूपाद् वायौ चित्ररूपप्रतिपत्तिप्रसक्तेः भेदश्चावयवावयविनोर्भवद्भिप्रायेणे यदि च रूपमात्रमेव तत्र स्यात् 'क्षितौ रूपमनेकप्रकारम्' इति विरुध्यते-अनेकप्रकारं हि शुक्लत्वादि मेदभिन्नमुच्यते रूपमात्रं च शुक्लादि विशेषरहितम् तस्य ३० शुक्लादिविशेषेष्वनन्तर्भावात् कथं न विरोधः ? यदपि शुक्लाद्यनेकप्रकाररूपाभ्युपगमे क्षितौ सूत्रवि
रोधपरिहाराभिधानं किल अविभुनि द्रव्ये समानेन्द्रियग्राह्याणां विशेषगुणानामेकाकाराणामसंभवः न तु अनेकाकाराणाम् क्षितौ 'शुक्लाद्यनेकाकाराणां तेषामुपलम्भात् एकाकाराणामेकत्र बहूनां सद्भावे एकेनैव शुक्लादिप्रतिपत्तेजेनितत्वाद् अपरतद्भेदकल्पनायथ्येप्रसङ्गान्न तद्भ्युपगमः न चैवमनेकाकाराणाम्' इति, तदपि असंगतम्: व्याप्याऽव्याप्यवृत्तित्वविकल्पद्वयेऽपि दोषप्रतिपादनात् अथ ३५ अव्याप्यवृत्तित्वे न विरोधदोषः शेषाणामाश्रयव्यापित्वमेव इत्यवधारणानभ्युपगमात् नन्वेवं सूक्ष्मविवरप्रविष्टालोकोद्योतिताल्पतरपटविभागवृत्तिरूपदेशस्य प्रतिपत्तौ यदि तदाधारस्य पटावयविनः प्रतिपत्तिस्तदा तदाधेयाशेषशुक्लादिरूपप्रतिपत्तिरपि भवेत् आधेयप्रतिपत्तिमन्तरेण तदाधारत्वस्य प्रतिपत्तुमशक्तेः । न चाल्पतरौल्पतमरूपाधारत्वव्यतिरिक्तं तस्य तदन्यरूपाधारत्वैमनेकम् अनेकखभावयोगिनः पटस्य अनेकत्वप्रसक्तेः स्वभावमेदलक्षणत्वाद् वस्तुमेदस्य अन्यथा तदयोगात्
१-वे विशेषाणा-बृ. आ. हा० वि० । “शेषास्त्वेकैकद्रव्यवृत्तयः"-प्रशस्त. के. पृ. ९५ पं० २११ २-मेकर-वा. बा. भा. मां०। ३-ण यदि चित्ररूप-भां० ।-ण च यदि चित्ररूप-मां० । -ण चित्ररूप-वा. बा. आ०। ४-रान्यतम-वा० बा. भां० मा०। ५-त्वमनेकख-वा० बा० विना।