________________
क्षेयमीमांसा । लव्यापिनः क्वचित् कार्यव्यापारविरहिणः सामर्थ्यमवगन्तुं शक्यम् । अथ सर्वदेशाव्यापिनस्तस्य तत्र सामर्थ्य भविष्यति, तद् असत् ; यतः सर्वदेशाव्याप्तिस्तस्य तथाप्रतीतेर्यद्यवसीयते सर्वकालाव्याप्तिरपि तस्य तत एव अभ्युपगमनीया स्यात् । अभ्युपगम्यत एवेति चेत्, नन्वेवं कतिपयदेशकालव्यातिरप्यप्रतिपत्तेरेव अनुपपन्नेति निरंशैकक्षणरूपता भावानां समायाता । न च तदेकान्तपक्षेऽपि कार्यजनकता, प्राक प्रतिक्षिप्तत्वात् । न चैकान्तनित्यव्यापकत्वपक्षे प्रमाणप्रवृत्तिः इत्यसकृत प्रतिपा-५ दितम् । न चासति कार्य निर्विषयत्वात् कारणव्यापारासंभवात् सत्येव तत्र तेषां व्यापारः, यतो न दृष्टा श्रुत्वा ज्ञात्वा वा हेतूनां कार्य व्यापारः तेषां जडत्वेन तदसंभवात् । न चादृश्यमानाऽजडेश्वरादिहेतुकमकृष्टोत्पत्तिकं भूरुहादि संभवतीति प्रांक प्रतिपादितम् । न चाऽसतः कार्यस्य विज्ञानं न ग्राहकम असत्यप्यक्षादिबुद्धेः प्रवृत्तेः अन्यथा कथं कार्यार्थप्रतिपादिका चोदना भवेत? किच. यदि सत्येव कार्ये कारणव्यापारस्तदा उत्पन्नेऽपि घटादिकार्ये कारणव्यापारादनवरतं तदुत्पत्तिप्रसक्तिः१० तत्सत्त्वाविशेषात् । अथाभिव्यक्तत्वान्नोत्पन्ने पुनरुत्पत्तिः उत्पत्तेरभिव्यक्तिस्वरूपत्वात् तस्याश्च प्रथमकारणव्यापारादेव निर्वृत्तत्वात् ननु अभिव्यक्तिरपि यदि विद्यमानैव उत्पद्यते उत्पन्नाऽपि पुनः पुनरुत्पद्येत । अथ अविद्यमाना तदाऽसदुत्पत्तिप्रसक्तिः । न चाभिव्यक्तावप्यसत्यां कार्य इव कारणव्यापारोऽभ्युपगन्तुं युक्तः स्वसिद्धान्तप्रकोपप्रसङ्गात्।
[सत्कारणककार्यरूपस्य सद्वादस्य सदोषत्वप्रकटनम् ] अथ सतः कारणाद् कार्यमिति सत्कार्यवादः असतो हेतुत्वायोगात् तथाभ्युपगमे वा शशश. गादेरपि पदार्थोत्पत्तिप्रसक्तिः । अत्यन्ताभाव-प्रागभावयोः असत्त्वेनाविशेषात् न च प्रारभावी आसीदिति हेतु त्यन्ताभावीति वक्तव्यम् यतो यदा आसीत् तदा न हेतुः अन्यदा हेतुरिति प्रसक्तेः। ततश्च इदं प्रसक्तम्-असन् हेतुः संश्च अहेतुरिति । ततः सन्नेव हेतुः तस्य कार्ये व्यापारात् नासन् तत्र तदयोगात्, एतदप्यसत्; यतः सतोऽपि कारणस्य प्राक्तनरूपापरित्यागान्न कार्य प्रति हेतुता २० प्राक्तनावस्थावत् । अथ तदा व्यापारयोगाद् हेतुता, असदेतत् ; व्यापारेण कार्य प्रति तस्य हेतुत्वे 'सोऽपि व्यापारः कुतस्तस्य ?' इति पर्यनुयोगसंभवाद् व्यापारवत्पदार्थाच्चेत्, ननु तत्रापि व्यापारो यद्यपरव्यापारात् तदा व्यापारपरंपराव्यवहितत्वात् कारणस्य न कदाचित् कार्योत्पादने प्रवृत्तिः स्यात् अनन्तव्यापारपरंपरापर्यवसानं यावत् कस्यचिदनवस्थानादसतः कारणात् कार्योत्पत्तिश्च स्यात्। अथ कारणस्वरूपमेव व्यापारः तत्काल एव च कार्यम् तेन नानवस्था, नापि असतः कारणात् कार्यो-२५ त्पत्तिः, नन्वेवं कारणसमानकालं कार्य स्यात् तथा च सव्येतरगोविषाणवत् कुतः कार्यकारणभावः? अथ कार्यभावकाले कारणस्य न सद्भावस्तर्हि चिरतरनटादिव तत्कालध्वंसिनोऽपि कुतः कार्यसद्भावः ? कार्योत्पत्तिकाले तदनन्तरभाविनः सत्ता चेत्, तर्हि कार्योत्पत्तिः कार्यान्न भिन्नेति कार्यकारणयोः समानकालतैव स्यात् तथा च कुतः कार्यकारणभावः ? न च 'सतः कारणात् कार्योत्पत्तिः' इत्यभ्युपगमवादिनः कार्योत्पत्तिकाले कारणेस्यासत्त्वं बौद्धस्येव सिद्धम् । अविचलितरूपस्य च तस्य ३० सद्भावे तदापि न कार्यवत्ता विकलकारणत्वात् प्राग्वत्, तदा तद्वत्त्वे वा पूर्वमपि तद्वत्त्वं स्यात् अविकलकारणत्वात् तद्वस्थावत् । तन्नैकान्तसत्कार्यवादः असत्कार्यवादो वा युक्तः अनेकदोषदुष्टत्वात् ।
[कथंचित् सदसद्वादस्य निर्दोषखसमर्थनम् ] अथ एकान्तेन सदसतोरजन्यत्वात् अजनकत्वाच्च कार्यकारणभावाभावात् सर्वशून्यतैव । तदुतम् 'अशक्तं सर्वमिति चेत्' इत्यादि, न; कथंचित् सदसतोर्जन्यत्वात् जनकत्वाच्च । न चैकस्य सद-३५ सदूपत्वं विरुद्धम्, कथंचिद् भिन्ननिमित्तापेक्षस्य सदसत्त्वस्य एकदा एकत्र अबाधिताध्यक्षतः प्रतिपत्तेः । न च अध्यक्षप्रतिपन्ने वस्तुनि विरोधः अन्यथा एकचित्रपटाने चित्ररूपतायाः चित्रपटे च चित्रैकरूपस्य विरोधः स्यात् । तथा च 'शुक्लाद्यनेकप्रकारं पृथिव्या रूपम्' इति वैशेषिकस्य विरुद्धाभिधानं भवेत्।
१पृ. १०२। २-गादथा-बृ. आ. हा०वि०। ३ प्रागभा-वा. बा. भां० मा०। ४-नन्तरव्या-वा. बा. भां० मा० । 'नन्तरव्या-'इत्यत्र '२' इत्यस्य द्विखसंख्यासूचकाङ्कस्य रेफतया भ्रान्तेः पुस्तकलेखकैः-'नन्तरव्या'इति लिपिकरणेन-'नन्तरव्या'-इति पाठान्तरं जातमिति प्रतिभाति । ततश्च 'अनन्तानन्तव्यापार'-इत्येव पाठः सम्यक् स्यात् । ५-णस्य स-वा० बा।
१स०प्र०