________________
तृतीये काण्डेसंतानापेक्षः कार्यकारणभाव इत्ययमदोषः, न; संतानस्य पूर्वापरक्षणव्यतिरेकेणाभावात् भावे वा तस्यैव कार्यकारणरूपस्य अर्थक्रियासामर्थ्यात् सत्त्वं स्यात् न क्षणानामर्थक्रियासामर्थ्य विकलतया भवेत् । अथ तत्संबन्धिनः संतानस्य कार्यकारणत्वे तेषामपि कार्यकारणभावः, न; भिन्नयोः कार्यकारणभावादपरस्य संबन्धस्य अभावात् संतानस्य च सर्वजगत्क्षणानन्तरभावित्वेन सर्वसंतान५ताप्रसक्तिः स्यात् । किञ्च, तस्यापि नित्यत्वे क्षणकार्यत्वे च सत्कार्यवादप्रसक्तिः, क्षणिकत्वे च अन्वयाऽप्रसिद्धस्तस्य तत्कार्यताऽप्रसिद्धिः, व्यतिरेकश्च कार्यतानिवन्धनं क्षणिकपक्षे न संभवतीति प्रतिपादितमेव । न च अत्रापि अपरसंतानप्रकल्पनया कार्यकारणभावप्रकल्पनं युक्तम् अनवस्थाप्रसक्तेः । तथाहि-संतानस्यापि कार्यताऽभ्युपगमे क्षणिकत्वान्न कार्यरूपता अतः संतानान्तरमत्रापि
कार्यतानिबन्धनमभ्युपगन्तव्यम् तत्रापि च क्षणिकत्वे कार्यताऽप्रसिद्धेस्तन्निबन्धनमपरं संतानान्तर१० मभ्युपगमनीयमित्यनवस्था परिस्फुटैव । किञ्च, क्षणिकभावाभ्युपगमवादिनो यदि भिन्नकार्योदया.
खेतोः सत्त्वमभिमतं तदा तत्कार्यस्यापि अपरकार्योदयात् सत्त्वसिद्धिरित्यनवस्थाप्रसक्तेर्न क्वचित् सत्त्वव्यवस्था स्यात् इति कुतस्तद्व्यवच्छेदेन 'असत् कार्यम्' इति व्यपदेशः । अथ ज्ञानलक्षणकार्यसद्भावाद्धेतोः सत्त्वव्यवस्थितिः, ननु ज्ञानस्यापि कथं शेयसत्ताव्यवस्थापकत्वम् ? ज्ञेयकार्यत्वात् इति
चेत्, ननु किं तेनैव ज्ञानेन शेयकार्यता स्वात्मनः प्रतीयते, उत ज्ञानान्तरेण ? न तावत् तेनैव, तस्य १५प्रागसत्त्वाभ्युपगमादप्रवृत्तेः प्रवृत्तौ वा तत्कार्यतावगतिः पुनः प्राक् प्रवर्तने संगच्छते तत्रापि पुनः प्राक् प्रवृत्ताविति अनवस्थाप्रसक्तेः कुतस्तस्य तत्कार्यतावगतिः ? अथ समानकालत्वेऽपि ज्ञानस्य शेयकार्यता, ननु एवमविशेषाद् शेयस्यापि ज्ञानकार्यतावगतिः स्यादिति तदपि तद्व्यवस्थापकं प्रसज्येत । न च समानकालयोः स्तम्भ-कुम्भयोः कार्यकारणतोपलब्धेति प्रकृतेऽपि सा न स्यात् ।
अथ केवलस्यापि कुम्भस्य दृष्टरकार्यता, ज्ञानस्यापि केवलस्य दृष्टरकार्यताप्रसक्तिः । तस्य ततोऽन्यः २० स्वान्न व्यभिचार इति चेत्, ननु कुम्भोऽपि कुतोऽन्यः स न भवेत् ? प्रत्यभिज्ञानान्नान्य इति चेत्, एतद् शानेऽपि समानम्, नित्यता च कुम्भस्यैवं भवेदिति कुतोऽसत्कार्यवादः ? न च प्रत्यभिज्ञानं भवतः प्रमाणम पूर्वापररूपाधिकरणस्यैकतयाऽप्रतीतेः न हि पूर्वापरप्रत्ययाभ्यामपरपूर्वरूपताग्रहः। नापि एकप्रत्ययेन पूर्वापररूपद्वयस्य क्रमेण ग्रहः एकस्य अक्रमस्य क्रमवद्रूपग्राहकतयाऽप्रवृत्तेः । न च
स्मरणस्य द्वयोवृत्तिः संभवति । न चास्य प्रमाणता । न च पूर्वापरप्रत्यययोः परस्परपरिहारेण वृत्तौ २५ तत उत्पद्यमानं स्मरणमेकत्वस्य वेदकं युक्तम् अगृहीतग्राहितया अस्मरणरूपताप्रसक्तेः। न च आत्मापि एकत्वमवैति प्रत्यक्षादिप्रमाणवशेन अर्थावेदकत्वात् तस्य चैकत्वे अप्रवृत्तेः । न च प्रमाणनिरपेक्ष एव आत्मा एकत्वग्राहकः स्वाप-मद-मूच्छोद्यवस्थायामपि तस्य तदाहकत्वोपपत्तेः । न च तस्यापि एकत्वं कुतश्चित् प्रमाणात् प्रसिद्धम् तदाहकत्वेन तस्याऽप्रतीतेः । न च बौद्धस्य आत्मा अन्यद् वा घस्तु नित्यमस्ति "क्षणिकाः सर्वसंस्काराः" [
] इति वचनात् । तन्न तेनैव आत्मनः ३० प्रमेयकार्यताऽवगतिः । नापि अन्येन तस्यापि स्वप्रमेयकार्यावगतौ प्रागवृत्तितयाऽसामर्थ्यात् । तन्न
शानलक्षणमपि कार्य हेतोः सत्तां व्यवस्थापयितुं समर्थ क्षणिकैकान्तवादे । अध्यक्षस्य यथोक्तंन्यायेन पौर्वापर्येऽप्रवृत्तेः, अत एव नानुमानस्यापि पौर्वापर्ये प्रवृत्तिः तस्य तत्पूर्वकत्वात् प्रत्यक्षाऽप्रतिपन्नेऽर्थे परलोकादाविवार्थविकल्पनमात्रत्वेन सर्वज्ञानस्य अभ्युपगमात् । तन्न असत्कार्यवादः प्रमाणसंगतः।
[सांख्यसम्मतस्य सत्कार्यरूपस्य सद्वादस्य सदोषत्वख्यापनम् ] ३५ सत्कार्यवादस्तु प्रागेव निरस्तत्वाद् अयुक्त एव । तथाहि--नित्यस्य कार्यकारित्वं तत्र स्यात्, तञ्च अयुक्तम् ; नित्यस्य व्यतिरेकाप्रसिद्धितः कार्यकरणे सामर्थ्याप्रसिद्धः, न हि नित्यस्य सर्वदेशका.
१-वर्तते सं-बृ० हा०। २-कत्ववेद-बृ० ।-कत्वेवेद-आ०। ३ पृ० ४२४ पं० १ । ४ "यदि सत् सर्वथा कार्य पुंवन्नोत्पत्तुमर्हति।परिणामप्रक्लप्तिश्च नित्यत्वैकान्तबाधिनी"॥-आप्तमी० का.३९ पृ. २३॥
एषाप्यत्र सविषरणाऽवगन्तव्या । सत्कार्यवादनिरसनं प्रमेयकमलमार्तण्डतोऽप्यवधारणीयम्-पृ० ८२ प्र०पं०११। ५पृ. २९७ पं. ३१ तथा पृ. ४२३ पं०५।
"इदं लिह निरूप्यते किं सत् क्रियते असदेव वा" इत्यादिना सत्कार्यवादः प्रतिक्षिप्तः श्रीधरेण न्यायकन्दल्याम्पृ. १४३ ५.५-1
"सत्कार्यवादश्च विचार्यमाणो न समस्त्येवेति कुतस्त्या हेतु सिद्धिः" इत्यादिना सत्कार्यवादो निरस्तो जयन्तमहेन म्यायमञ्जर्याम्-पृ० ४९२ पं० २२ ।