________________
ज्ञेयमीमांसा।
शास्त्रं मिथ्या स्यात् नान्यथा प्रागपि कार्यावस्थात एकान्तेन तत्सत्त्वनिबन्धनत्वात् तेषाम् अन्यथा कथंचित् सत्त्वे अनेकान्तवादापत्तेर्दोषाभाव एव स्यात् । साङ्या अपि असत्कार्यवाददोषान् असदकरणादीन् यान् वदन्ति ते सर्वे तेषां सत्या एव एकान्ताऽसति कारणव्यापारासंभवात् अन्यथा शशशृङ्गादेरपि कारणव्यापारादुत्पत्तिः स्यात् ।।
[न्याय-वैशेषिकसम्मतस्यासत्कार्यरूपस्यासद्वादस्य सदोषत्वप्रदर्शनम्] ५ अथ शशशृङ्गस्य न कारणावस्थायामसत्त्वादनुत्पत्तिः किन्तु कारणाभावात् घटादेस्तु मृत्पि. ण्डावस्थायामसतोऽपि कारणसद्भावादुत्पत्तिः । ननु कुतः शशशृङ्गस्य कारणाभावः ? अत्यन्ताभाव. रूपत्वात् तस्येति चेत् तदेव कुतः? कारणाभावात् इति चेत् सोऽयमितरेतराश्रयदोषः । घटादी. नामपि च मृत्पिण्डावस्थायामसत्त्वे कुतः कारणसद्भावः ? प्रागसत्त्वादेव तत्र कारणसद्भावः सति कारणव्यापारासंभवादिति चेत्, असदेतत् घटस्य मृत्पिण्डावस्थायां सत्त्वे प्रागनवस्थायोगाद-१० सत्त्वेऽपि शशशृङ्गस्येव तदनुपपत्तेः । अथास्य उत्पत्तिदर्शनात् प्रागभावः न शशशृङ्गस्य, न; इतरेतराश्रयदोषप्रसक्तेः । तथाहि-यावदस्य प्रागभावित्वं न तावदुत्पत्तिसिद्धिः यावच्च नोत्पत्तिसिद्धिर्न तावत् प्रागभावित्वसिद्धिरिति व्यक्तमितरेतराश्रयत्वम् । अथ कारणस्य कार्यशून्यता प्रागभावः प्रागेव सिद्धः, असदेतत्; अकारणस्यापि कार्यशून्यतोपलम्भात् तत्संबन्धाद् घटस्य तत्कार्यताप्रसक्तेः। तथाहि-यस्य प्रागभावित्वं तस्य कार्यता तच्च कार्यशून्यं पदार्थान्तरं कारकाभिमताद् अन्यदपि च १५ तत्प्रागभावखभावं प्राप्तम् तत्संवन्धेन च घटादेः शशशङ्गादिव्यवच्छेदेन कार्यता अभ्युपगतेति सुत्रपिण्डकार्यताऽपि घटस्यैवं भवेत् । न च तदन्वय-व्यतिरेकाभावान्न तत्कार्यता, अन्वय-व्यतिरेकाभावस्य तत्राऽसत्त्वनिबन्धनत्वात् । न च प्रागभावो नाम प्रत्यक्षादिप्रमाणग्राह्यः, मृत्पिण्डस्वरूप मात्रस्यैव तत्र प्रतिभासनात् । न च कारणस्वरूपमेव प्रागभावः, निर्विशेषणस्य स्वरूपमात्रस्य कार्येऽपि सद्भावात् तस्यापि प्रागभावरूपताप्रसक्तेः । अथ कार्यान्तरापेक्षया तस्यापि प्रागभावरूपता कारण-२० खभावाऽभ्युपगम्यत एव, न; कारणाभिमतापेक्षयाऽपि तद्रूपताप्रसक्तेः । तथाप्रतीत्यभावान्न तद्रूपतेति चेत्, न; प्रतीतिमात्रादनपेक्षितवस्तुस्वरूपाद् वस्तुव्यवस्थाऽयोगात् । ततो मृत्पिण्डादिरूपतया वस्तु गृह्यतेऽध्यक्षादिना न पुनस्तद्व्यतिरिक्तकारणादिरूपतया तस्यास्तत्राऽप्रतिभासनात्, प्रतिभासनेऽपि विशिष्टकार्यापेक्षया कारणत्वस्य प्रतिपत्ती कार्यप्रतिभासमन्तरेण तत्कारणत्वस्याऽप्रतीतेरसतस्तदानीं कार्यस्याप्रतिभासनात् प्रत्यक्षस्य असदर्थग्राहकत्वेन भ्रान्तताप्रसक्तेः तदा २५ तत्कार्यस्य सत्त्वप्रसक्तिः स्यादिति कथमसति कारणव्यापारः प्रतीयेत? तन्न असतः कार्यत्वं युक्तम् ॥
[बौद्धसम्मतस्यासत्कारणरूपस्यासद्वादस्य सदोषत्वदर्शनम् ] नापि असत्कारणं कार्यम् तदानीमसति कारणे तस्य तत्कृतत्वायोगात् क्षणमात्रावस्थायिनः कारणस्य खभावमात्रव्यवस्थितेरन्यत्र व्यापारायोगात् । अथ तदनन्तरं कार्यस्य भावात् प्रोग्भावित्वमात्रमेव कारणस्य व्यापारः, असदेतत् समस्तभावक्षणानन्तरं विवक्षितकार्यस्य सद्भावात् सर्वेषां ३० तत्पूर्वकालभावित्वस्य भावात् तत्कारणताप्रसक्तेः । अथ सर्वभावक्षणाभावेऽपि तद्भाव इति न तस्य तत्कार्यता, न; क्षणिकेषु भावेषु विवक्षितक्षणाभाव एव सर्वत्र विवादाध्यासितकार्यसद्भावान तदपेक्षयाऽपि तस्य कार्यता भवेत् । न च क्षणिकस्य कार्यस्य तदभावेऽपि पुनर्भवनसंभवः तस्य तदैव भावाद् अन्यदा कदाचिदप्यभावात् । न च विशिष्टभावक्षणधर्मानुविधानात् तस्य तत्कार्यताव्यवस्था, सर्वथा तद्धर्मानुविधाने तस्य कारणरूपतापत्तेस्तत्प्राक्कालभावितया तत्कार्यताव्यतिक्रमात्, कथं-३५ चित् तद्धर्मानुविधाने अनेकान्तवादापत्तः 'असत्कारणं कार्यम्' इत्यभ्युपगमव्याघातात् । अथ
१पृ. २८२ पं० १८। २ उत्पत्तिस्थितिज्ञप्तीनां मध्याद् ज्ञप्तिसापेक्षस्यैव इतरेतराश्रयस्यात्र सुघटत्वेन 'यावदस्य न प्रागभावित्वम्' इत्येव पाठो ज्यायान् भाति । ३-पि तत्प्रा-आ० ।
४ "यद्यसत् सर्वथा कार्य तन्मा जनि खपुष्पवत् । मोपादाननियामो भून्माऽऽश्वासः कार्यजन्मनि" ॥-आप्तमी० का. ४२ पृ. २४ । कारिकेषाऽत्र साष्टशतिका सवृत्तिका चावबोद्धव्या ।
५प्रागभा-वा. बा. विना।