________________
७०४
तृतीये काण्डे -
किं य एव घटादयो विनाशमनुभवन्ति स्वकारणादिसमवायिनः तद्वृत्यात्मक एवं समवायः अविनष्टे पटादिसंवन्ध्यन्तरेऽवतिष्ठते, आहोखित् अन्य एव असौ इति कल्पनाद्वयम् । यदि आद्यः पक्षस्तदा प्रागवस्थावद् अप्रच्युतवृत्तित्वाद् घटादयोऽवस्थिता एव स्युः तदनवस्थाने वा अनवस्थितवृत्तित्वात् समवायस्यापि विनाशः तस्य वृत्त्यात्मकत्वात् अन्यथा तस्य तद्रूपतानुपपत्तेः । स्वतन्त्रस्य च ५ तदनुपकारिणस्तद्वृत्तिः 'समवायः' इति नामकरणे संज्ञामात्रमेव भवेत् न वस्तुतथाभावः तथा च अविनष्टसंवन्ध्यवस्थायामपि घटाद्यो न स्वाश्रयवृत्ताः समवायसद्भावबलात् सिध्येयुः विनष्टसमवायिकारणावस्थायामिव परमार्थतो वृत्त्यभावात् एकरूपवृत्तिसद्भावेऽपि तेषां विनाशाभ्युपगमात् न तन्निमित्ता स्वकारणेषु तेषां स्थितिर्भवेत् तत्सद्भावेऽपि कथं तद्भावनिमित्तस्तद्भाव इति स्वयमेव चिन्त्यम् । अथं द्वितीयः पक्षस्तदा संयोगादिवत् समवायबहुत्वप्राप्तेः 'समवायोऽभेदवान्' इत्यभ्युप१० गमव्याहतिः नित्यत्वे च समवायस्य अभ्युपगम्यमाने स्वकारणसमवायस्य स्वसत्तासमवायस्य च जन्मशब्दवाच्यस्य सर्वदा सद्भावात् कार्यजन्मनि क्वचिदपि कारणानां साफल्यं न स्यात् तथा च अध्यक्षादिविरोधः तन्त्वादेः पटादिकार्यजनकत्वेन अध्यक्षादिना प्रतीतेः “अन्यतरकर्मजः उभयकैर्मजः संयोगजश्च संयोगः” [ वैशेषिकद० ७-२-९] “विभागोऽपि अन्यतरोभयकर्म - विभागजः” [ ] “इन्द्रियार्थसन्निकर्षोत्पन्न ज्ञानम्" [ न्यायद० १-१-४] इत्यादिजन्मप्रतिपादकसूत्रसमूहविरोधश्च । १५ समवायलक्षणस्य च जन्मनो नित्यतया क्रमासंभवाद् भावानां क्रमोत्पत्तिरुपलभ्यमाना विरुद्धा च स्यात् । समवाय लक्षणजन्मनित्यतया च 'जगद् अनुपकार्योपकारकभूतम्' इति शास्त्रप्रणयनमनर्थकं भवेत् । बुद्धिजन्मनोऽपि समवायस्वभावतया क्रमाभावात् “युगपद् ज्ञानानुत्पत्तिर्मनसो लिङ्गम्” [ न्यायद० १-१-१६] इत्यादि सर्वमपि विरुद्धं स्यात् इति नित्यसमवाय प्रकल्पनमसमञ्जसमिति स्थितम् । तदेवमुलूक प्रतिपादितशास्त्रस्य मिथ्यात्वम् तदभिहितपदार्थानामप्रमाणत्वात् प्रमाण२० बाधितत्वाच्च । आचार्यस्तु एतत् सर्व हृदि कृत्वा तन्मिथ्यात्वाऽविनाभूतं प्रतिपादितसकलन्यायव्यापकम् ‘जं सविसय-' इत्यादिना गौथापश्चार्धेन हेतुमाह यस्मात् स्वविषयप्रधानताव्यवस्थिताऽन्योन्यनिरपेक्षोभयन्याश्रितं तत् अन्योन्यनिरपेक्षनयाश्रितत्वस्य मिथ्यात्वादिनाविनाभूतत्वात् ॥ ४९ ॥
[ अन्योन्यनिरपेक्षनयाश्रितानां वादानां मिथ्यात्वराहित्याभावप्रतिपादनम् ] अन्योन्यनिरपेक्षनयाश्रितस्य मिथ्यात्वाऽविनाभूतत्वमेव दर्शयन्नाह - जे संतवायदो से सक्कोलूया भणति संखाणं ।
संखा य असव्वाए तेसिं सव्वे वि ते सच्चा ॥ ५० ॥ यान् एकान्तसद्वादपक्षे द्रव्यास्तिकाभ्युपगतपदार्थाभ्युपगमे शाक्यौलूक्या दोषान् वदन्ति साङ्ख्यानां क्रिया - गुणव्यपदेशोपलब्ध्यादिप्रसङ्गादिलक्षणान् ते सर्वेऽपि तेषां सत्या ३० इत्येवं संबन्धः कार्यः । ते च दोषाः एवं सत्याः स्युः यद्यन्यनिरपेक्षनयाभ्युपगतपदार्थप्रतिपादकं तत्
२५
१ - त् न तत्स - वा० बा० ।
२ “अथान्य एव संयोगविभाग बहुतादिवत् । संबन्ध्यन्तरसद्भावे समवायोऽवतिष्ठते ॥ संयोगादिवदेवं हि नन्वस्य बहुता भवेत् । एवमाद्यस्य सद्भावे बहु स्यादसमञ्जसम्” ॥
- तत्त्वसं ० का ० ८६५-८६६ पृ० २७३ - २७४ ।
३- कर्मसं - बृ० भ० मां० । “अप्राप्तयोः प्राप्तिः संयोगः स च त्रिविधः - अन्यतरकर्मजः उभयकर्मजः संयोगजश्च " - प्रशस्त० कं० पृ० १३९ पं० १८ ।तत्त्वसं० पञ्जि० पृ० २७४ पं० ९ ।
४ “एतेन विभागो व्याख्यातः” — वैशेषिकद० ७-२-१०।
“प्राप्तिपूर्विकाऽप्राप्तिर्विभागः स च त्रिविधः - अन्यतरकर्मजः उभयकर्मजः विभागजश्च " - प्रशस्त० कं० पृ०
१५१ पं० ५ ।
५ पृ० ६५६ गा० ४९ ।