________________
ज्ञेयमीमांसा।
७०३ प्रतिषिद्धत्वात् , तत्सद्भावेऽपि चायं पर्यनुयोगस्तत्रापि तुल्यः । तथाहि-यदि 'इह कुण्डे दधि' इति बुद्धिः संयोगनिमित्ता तस्य च एकत्वम् तदा निमित्तत्वाविशेषात् यथा 'कुण्डे दधि' इति प्रत्ययः तथा 'दनि कुण्डम्' इत्यपि स्यात् दधि-कुण्डसंयोगस्याविशेषे तजन्यप्रत्ययस्यापि अविशेषप्रसक्तेः अन्यथा तस्य तन्निमित्तत्वायोगात् अतिप्रसङ्गात् । किञ्च, यदि 'इह तन्तुषु पटः' इति प्रत्ययः तन्तु. पटव्यतिरिक्तनिमित्तमन्तरेण न स्यात् 'इह समवायिषु समवायः' इत्यपि प्रत्ययः अपरसमवाय-५ निमित्तमन्तरेण न स्यात् । अथापरसमवायप्रकल्पनायामनवस्थाप्रसक्तेस्तमन्तरेणापि अस्य प्रत्ययस्योत्पत्तिस्तर्हि अनेनैव हेतुरनैकान्तिकः स्यात् इति न 'इह' प्रत्ययात् समवायसिद्धिः । यच्च 'कारणानुपलब्धेर्नित्यः समवायः' इत्यभिधानम् , तदप्यसंगतम्, यतो यद्यसौ नित्यः स्यात् तदा घटादीनामपि नित्यत्वं प्रसज्येत स्वाधारेषु तेषां सर्वदाऽवस्थानात् । तथाहि-एषां समवायवशात् स्वाधारेषु अवस्थानमिष्यते स च नित्य इति किमिति सदैते न संतिष्ठेरन् ? अथ स्वारम्भकावयवविनाशाद् १० विभागाद् वा घटादीनां विनाशः सत्यपि समवायेऽवस्थितिहेतौ सहकारिकारणान्तराभावाद विरोधि प्रत्ययोपनिपाताच्च ततो न घटादीनां नित्यत्वप्रसङ्ग इति, असदेतत् । यतः कपालादीनां घटाद्यारम्भकावयवानामपि स्वारम्भकावयवेषु समवायोऽभ्युपगम्यते तेषामपि स्वारम्भकावयवेषु यावत् परमाणुः तस्य च नित्यत्वाद नान्यथात्वसद्भाव इति सर्वेषां सर्वदा स्वारम्भकावयवेषु समवायसद्भावात् कुतो विभागो विनाशोवा-येन कारणविभागादिसद्भावात् घटादेविनाशोत्पत्तिर्भवेत्-विरोधि.१५ समवायसद्भावे विभागादेरनुत्पत्ते (?) यदि च स्वारम्भकावयवानां विनाशोऽभ्युपगम्येत तदा समवायस्यापि विनाशाभ्युपगमोऽवश्यंभावी संबन्धिनिवृत्तौ संबन्धनिवृत्तेरवश्यंभावित्वात् कुण्ड-बदरसंयोगिविनाशे तत्संयोगवत् , संबन्धिनां वा अविनाशप्रसङ्गः अविनष्टसंबन्धत्वात् अनुपरतसंयोगद्रव्यद्वयवत् अन्यथा उभयेषामपि तत्संबद्धस्वभावहानिप्रसक्तिः स्यात् । अर्थं यदि निवृत्ताशेषसंबन्धित्वात् समवायविनाश इति प्रथमप्रयोगार्थस्तदा हेतोः पौकदेशासिद्धताप्रसक्तिः न हि अशेषाणां २० संवन्धिनां प्रलयेऽपि विनाशः परमाण्वादीनां तत्रापि अवस्थानात् । अथ 'विनष्टकतिपयसंबन्धित्वात् इति हेतुर्विवक्षितस्तदा अनैकान्तिकः यतः यदि नाम कश्चित् संबन्धी विनष्टस्तथापि अपरसंबन्धिनिबन्धना संबन्धस्य अवस्थितिर्यक्तैव । न च संयोगस्यापि कतिपयसंयोगिविनाशेऽपि अपरसंयोग्यः वस्थानात् अनेनैव न्यायेन अवस्थानप्रसक्तिः, संयोगस्य प्रतिसंयोगि भिन्नत्वात् तद्विनाशे विनाशोपपत्तेः समवायस्य तु सर्वत्र एकत्वात् नैकसंबन्धिविनाशे विनाशः 'इह' प्रत्ययस्य अन्यत्रापि अविशे-२५ पात् तन्निबन्धनस्य समवायस्यापि अभेद इति नान्यसंवन्धिसद्भावेतद्विनाशप्रसक्तिः, असदेतत् ; यतः
१ पृ० ६७९ पं० ९ तथा पृ० ११३ ६ ४२-1 २ पृ. ७०० ५० १४ । ३ “नित्यत्वेनास्य सर्वेऽपि नित्याः प्राप्ताः (घटादयः)। आधारेषु सदा तेषां समवायेन संस्थितेः" ॥
-तत्त्वसं० का० ८५४ पृ. २७१। ४ "स्वारम्भकविभागाद्वा यदि वा तद्विनाशतः । ते नश्यन्ति क्रियाद्या (दीव) योगादेरिति चेन्न तत् ॥ खाधारैस्समवायो हि तेषामपि सदा मतः । तेषां विनाशभावे तु नियताऽस्यापि नाशिता" ॥
-तत्त्वसं० का०८५५-८५६ पृ. २७१ । ५ “संबन्धिनो निवृत्तौ हि संबन्धोऽस्तीति दुर्घटम् । न हि संयुक्तनाशेऽपि संयोगो नोपतिष्ठते ॥ यथा संयोगभावे तु संयुक्तानामवस्थितिः । समवायस्य सद्भावे तथा स्यात् समवायिनाम्" ॥
-तत्त्वसं० का० ८५६-८५८ पृ. २७२ । ६ तत्संबन्धख-आ० । “अन्यथा तत्संबन्धखभावहानिरुभयेषामपि प्रसज्येत"-तत्त्वसं० पञ्जि. पृ०२७२ पं०१८॥ ७ "एकसंबन्धिनाशेऽपि समवायोऽवतिष्ठते । अन्यसंबन्धिसद्भावाद् योगो नो चेन्न भेदतः" ॥
-तत्त्वसं० का० ८५९ पृ. २७२ । ८ "यद्येवं ये विनश्यन्ति घटाद्याः समवायिनः । तेषां वृत्त्यात्मको योऽसौ समवायः प्रकल्पितः॥
स एव व्यवतिष्ठेत किं संबन्ध्यन्तरस्थितेः । अथान्य एव संयोगविभागबहुतादिवत् ॥ नाद्यस्तल्लक्षणस्यैव समवायस्य संस्थितौ । पूर्ववत् ते स्थिता एव प्राप्नुवन्ति घटादयः॥ न तेषामनवस्थाने तेषां (वृत्त्यात्मकः क्वचित् )। सम( वायो )वतिष्ठत संज्ञामात्रेण वा तथा । अतः प्रागपि सद्भावान ते वृत्ताः स्युराश्रये । पश्चादिव तथा ह्येषा वृत्तिस्तेषामवस्तुतः" ॥
-तस्वस० का०८६०-८६४ पृ.१७