________________
७०२
तृतीये काण्डेननुयायितयोत्पत्तेर्द्रव्यत्वादीनां भेद इति न पदार्थपञ्चकस्य संकीर्णताप्रसक्तिः, यथा हि दधि-कुण्डयोः संयोगैकत्वेऽपि आधार्याधारप्रतिनियम उपपत्तिमान तथा समवायैकत्वेऽपि द्रव्यत्वादीनां व्यङ्ग्यव्यः अकशक्तिभेदोधा(दादाधा)राधेयप्रतिनियमोपपत्तेः असंकीर्णपदार्थव्यवस्था संगतैव प्रमाणनिबन्धनत्वात् प्रमेयव्यवस्थायाः इति, असदेतत्; यतो नास्माकं रूपत्वादीनां रूपादिषु आधेयनियमः सिद्धः ५भवतां पुनः समवायमेकं सर्वत्राऽभ्युपगच्छतां प्रतिनियमो दुर्घटः प्रसज्येत । तथाहि-'द्रव्ये एव द्रव्यत्वम्' इत्येवं नियमः समवायनिबन्धनो भवद्भिरभ्युपगम्यते, द्रव्यत्वादेः समवायस्य च गुणादि. प्वपि एकस्यैव सद्भावात् कथं न पदार्थसंकरप्रसङ्गः द्रव्यत्वाद्याधेयत्वस्य अभिन्ननिमित्तत्वात् ? अथ द्रव्ये द्रव्यत्वस्य यः समवायः न स एव गुणादिषु गुणत्वादेस्तर्हि संयोगवत् समवायस्य प्रत्याधारं भेदः स्यात् । अथ स्वरूपेण अभिन्नस्यापि समवायस्य द्रव्यत्वादिविशेषणमेदाद् भेद इति न पदा१०र्थसंकरः; ननु द्रव्यत्वादेर्विशेषणस्य समवायाभेदे कुतो भेदः? यदि स्वत एव आधेयतानियमोऽपि
तेषां स्वत एच भविष्यतीति समवायप्रकल्पना व्यर्था । अथ प्रतिनियताधारसंबन्धवशात् तेषां प्रतिनियतरूपता तर्हि 'समवायस्य विशेषणभेदाद भिन्नता विशेषणानां च समवायात् सा' इत्यन्योन्यसंश्रयः । यदपि 'द्रव्यत्वादिनिमित्तानाम्' इत्याद्यभिहितम् तदपि असंबद्धम् न हि अविकले निमित्ते
सति कार्यस्य अनन्वयित्वं युक्तम् तस्य अतत्कार्यत्वप्रसक्तेः । एवं च बुद्धिव्यतिरेकासंभवात् तद्वशाद् १५ आधाराधेयभावनियमव्यवस्था न युक्तिसंगता। न च 'द्रव्य एव द्रव्यत्वमाश्रितम्' इति व्यपदेशात् तनियमः समवायवशादेव आश्रितत्वादिव्यवस्थोपवर्णनात्, तस्य च सर्वत्राऽविशिष्टत्वात् तथाव्यपदेशस्यापि भवदभ्युपगमेनायोगात् । न च व्यङ्ग्यव्यञ्जकशक्तिप्रतिनियमाद् आधाराधेयप्रतिनियमः, व्यङ्यादिप्रतिनियमस्यापि समवायनिमित्तत्वात् । तथाहि-द्रव्यादीनां द्रव्यत्वादिसामान्यव्यञ्जकत्वं तत्समवायवलादेव परैरभ्युपगम्यते यतः द्रव्य एव द्रव्यत्वं समवेतम् ततस्तेनैव तद् व्यज्यते न पुन२० झनोत्पादनयोग्यस्वभावोत्पादनात् नित्ये सत्तादौ तदयोगात् स च समवायः सर्वत्राऽविशिष्ट इति न तद्बलाद् व्यङ्ग्यव्यञ्जकशक्तिप्रतिनियम इति न ततोऽपि आधाराधेयप्रतिनियमः।
योऽपि दधि-कुण्डसंयोगो दृष्टान्तत्वेन उपात्तः सोऽपि अस्मान् प्रत्यसिद्धः पूर्वमेव संयोगस्य
१ "तद्यथा कुण्ड-दनोश्च संयोगैक्येऽपि दृश्यते । आधाराधेयनियमस्तथेह नियमो मतः ॥ व्यङ्ग्यव्यञ्जकसामर्थ्य भेदाद् द्रव्यादिजातिषु । समवायैकभावेऽपि नैव चेत् स विरुध्यते" ॥
-तत्त्वसं• का० ८४४-८४५ पृ. २६९ । २ "व्यङ्ग्यव्यञ्जकशक्तिमेदादाधाराधेयप्रतिनियम इति"-तत्त्वसं० पञ्जि० पृ. २६९ पं० २६ । ३ "आधाराधेयनियमो नन्वेकलेऽस्य दुर्घटः । द्रव्यत्वं द्रव्य एवेष्टं कथं तत्समवायतः॥ तस्यासौ समवायश्च गुणादिष्वपि विद्यते । गुणजात्यादिसंबन्धादेक एव ह्ययं तयोः" ॥
-तत्त्वसं. का.८४६-८४७ पृ. २७०। ४"अन्यथा गुणजात्यादिभिन्न एव भवेदयम् । योगिमेदात् प्रतिव्यक्ति यथा योगो विभिद्यते॥
-तत्त्वसं० का० ८४८ पृ० २७० । ५ पृ० ७.१ पं० २५ टि० ७ । ६ "द्रव्यलादिनिमित्तानां व्यतिरेको न युज्यते । धिया निमित्तसद्भावादतस्तनियमोऽपि न" ॥
-तत्त्वसं. का. ८४९ पृ. २७० । ७ “तदाश्रितत्वस्थानादि तस्मादेवाभिधीयते । रामवायादतश्चैतन्न युक्तं तन्नियामकम्" ।
-तत्त्वसं० का० ८५० पृ. २७० । ८ "व्यायव्यञ्जकसामर्थ्यभेदोऽपि समवायतः । नान्यतस्तु स नित्यानामुत्पादानुपपत्तितः॥ न हि दीपादिसद्भावाजायन्ते यादृशा इमे । विज्ञानजनने योग्या घटाद्या जातयस्तथा" ॥
-तत्त्वसं० का० ८५१-८५२ पृ. २७१। ९ "कुण्ड-दनोश्च संयोग एकः पूर्व निराकृतः । न चासौ नियतस्तस्माद् युज्यते (तिप्रसङ्गतः )" ॥
-तत्त्वसं० का०८५१ पृ. २७१।