________________
झयमीमांसा।
धमानत्वेन संवेद्यते । न च 'वृक्षे शाखा' इत्यादिकाऽपि मतिः समवायनि बन्धना किन्तु विवक्षितशाखाव्यतिरिक्तस्कन्धादिविशिष्टसमुदायनिबन्धनैव । एवम् 'इह घटे रूप-रस-गन्ध-स्पर्शाः' इत्यादिबुद्धेरपि घटस्वभावत्वं रूपादीनां निबन्धनत्वेन प्रतिपद्यते लोकः । तथाहि-घटे रूपादिकं घटखभावमेव एतद्रूपादिकं न पटादिखभावम् वहुषु रूपादिषु साधारणशक्तिविशेषप्रतिपादनाभिप्रायेण तदन्यरूपादिव्यवच्छेदेन घटादिश्रुतेः संकेतः रूपादिश्रुतेस्तु प्रत्येकमसाधारणचक्षुर्सानादिकार्योत्पा-५ दनशक्तिप्रकाशनाय समयकरणम् अत एव घटादिश्रुतिर्न रूपादीन् भेदान् आक्षिपति तत्सामाना धिकरण्याभावात् रूपादिशब्दाश्च घट-पटादिसर्वावस्थरूपादिवाचका इति रूपादिशब्देभ्यः केवलेभ्यो न तद्विशेषप्रतीतिस्तेन विशिष्टावस्थरूपादिप्रतिपादनाय 'घटे रूपादयः' इत्येवमुभयपदप्रयोगः क्रियते ततोऽपि घटात्मका रूपादयः पटात्मकरूपादिव्यवच्छेदेन प्रतीयन्ते घटशब्दस्तु सर्वावस्थं चलनादिस्वभावान्वितं घटं ब्रूत इति केवलान्न विशेषप्रतीतिः 'रूपम्' इत्यादिशब्दप्रयोगे तु तदन्य-१० व्यवच्छेदेन विशेषप्रतिपत्तिरुपजायते इति तत्प्रयोगः । तस्मात् संकेतवशात् 'इह घटे रूपादयः' इत्यादि ज्ञानं तथाभूतपदार्थनिबन्धनम् न समवायनिवन्धनम् यतो न घटरूपादिसमवायानां भेदः परस्परतः क्वचिदपि उपलब्धिगोचरः तत् कथमेतद् ज्ञानं समवायनिवन्धनं भवेत् ? तेन परोपन्यस्तहेतोरनैकान्तिकत्वात् उक्तन्यायेन प्रतिज्ञायाश्च अनुमानवाधितत्वान्न समवायसिद्धिः । यदपि 'इह बुद्ध्यविशेषात्' इत्याद्यभिधानम् तदपि असंगतम्, यतो यदि एकः समवायः स्यात् तदा तन्तुषु १५ घटः' इत्यादिबुद्धरपि उत्पत्तिः स्यात् । तथाहि-यत एव समवायात् 'कपालेषु घटः' इति प्रत्ययोत्पत्तिरभ्युपगता स एव समवायः तन्तुषु घटस्य इति किमिति तथाप्रत्ययोत्पत्तिन भवेत? अथ न तन्तुषु घट आश्रितः इति तत्र तथाप्रत्ययो नोत्पद्यते, असदेतत् यतः 'कपालेषु घट आश्रितः' इति समवायबलाद् भवद्भिरभिधीयते; स च समवायः किं तन्तुषु नास्ति येन 'इह तन्तुषु घटोऽस्ति' इति प्रत्ययो न भवेत समवायस्य एकत्वेन सर्वत्र अविशेषात् ? एवं च द्रव्य-गुण-कर्मणां द्रव्यत्व-गुणत्व-२० कर्मत्वादिविशेषणैः संबन्धस्य एकत्वात् पदार्थपञ्चकस्य विभागो न भवेत् । अथ समवायस्य एकत्वेऽपि न पदार्थसंकरः, आधाराधेयनियमात् । तथाहि-'द्रव्येष्वेव द्रव्यत्वम्' 'गुणेष्वेव गुणत्वम्' 'कर्मखेव कर्मत्वम्' इत्येवं द्रव्यत्वादीनां प्रतिनियताधारावच्छेदेन प्रतिपत्तेः सद्भावः, न; एवं समवायस्य प्रतिपदार्थ भिन्नत्वोपपत्तेः। अर्थं 'इह' इति समवायनिमित्ताया बुद्धरभिन्नाकारतया सर्वत्र अनुगमाद् एकः समवायः सर्वत्रावसीयते, तदेकत्वेऽपि द्रव्यत्वादिनिमित्तानां प्रत्ययानां प्रतिनियताधारावच्छेदेनाऽ २५ १ "अतो घटादिश्रुती रूपादिभेदानाक्षिपतीति सामानाधिकरण्याभावाद वेयधिकरण्यनैव तादात्म्यं प्रतिपाद्यते"
-तत्त्वसं० पञ्जि. पृ० २६७ पं० १९ । २-सर्वावस्तुरू-बृ. आ. हा. वि. । “रूपादिशब्दा हि सर्वावस्थस्य रूपादेर्वाचकाः"-तत्त्वसं. पञ्जि. पृ० २६७ पं० २१।।
३ पृ. ७०० ५० १० टि. ३ । ४ “ययेकः समवायः स्यात् सर्वेष्वेव च वस्तुषु । कपालादिष्वपि ज्ञानं पटादीति प्रसज्यते ॥ गजादिष्वपि गोखादि समस्तीत्यनुषज्यते । ततो गवादिरूपत्वममीषां शावलेयवत् ॥ पटस्तन्तुषु योऽस्तीति समवायात् प्रतीयते । अस्ति चासौ कपालेषु तस्येति न तथेति किम् ॥ नाश्रितः स कपाले चेन्ननु तन्तुष्वपीष्यते । आश्रितः समवायेन स कपालेऽपि नास्ति किम् ? ॥ तन्तोर्यः समवायो हि पटस्येत्यभिधीयते । स घटस्य कपालेषु तद्धीरनवधिर्भवेत् ॥ एवं यश्च गजलादिसमवायो गजादिषु । गोलादिजातिभेदानां स एव खाश्रयेष्वपि" ॥
-तत्त्वसं० का० ८३५-८४० पृ० २६८-२६१। ५ भवतु अ-वा. बा. भ. मां । "किमिति तथाप्रतीतिर्न भवेत्”-तत्त्वसं० पजि० पृ. २६८ पं० २० । ६ “ 'आधार' इत्यादिनाऽत्र प्रशस्तमतेरुत्तरमाशङ्कतेआधाराधेयनियमः स चैकत्वेऽपि विद्यते । द्रव्येष्विव हि तजातिकर्मखेव च कर्मता"॥
-तत्त्वसं० का० ८४१ पृ. २६९ । ७ "इहेति समवायोत्थविज्ञानान्वयदर्शनात् । सर्वत्र समवायोऽयमेक एवेति गम्यते ॥ द्रव्यलादिनिमित्तानां व्यतिरेकस्य दर्शनात् । धियां द्रव्यादिजातीनां नियमस्ववसीयते"॥
-तत्त्वसं० का० ८४२-८४३ पृ. २६९ । ८-वच्छेदेनानुया-वा. बा० । “प्रतिनियताधारावच्छेदेनोत्पत्तेर्व्यतिरेकस्यानन्वयलक्षणस्य दर्शनात्"
-तत्त्वसं० पजि० पृ. २६९ पं०१६।