________________
तृतीये काण्डे
[निरूपणपुरस्सरं समवायपदार्थस्य खण्डनम् ] समवायस्तु 'इह तन्तुषु पटः' इत्यादीहबुद्धिविशेषाद् द्रव्यादिभ्यो अर्थान्तरत्वेन अभ्युपगम्यते "अयुतसिद्ध"-[प्रशस्त० कं० पृ० १४ तथा ३२४ ] इत्यादिलक्षणोपेतः । यथा हि सत्ता-द्रव्यत्वादीनामात्मानुरूपप्रत्ययकर्तृत्वात् स्वाधारेषु तेभ्यः परस्परतश्च अर्थान्तरभावस्तथा समवायस्यापि ५पञ्चसु पदार्थेषु 'इह तन्तुषु पटः' 'इह पटद्रव्ये गुण-कर्मणी' 'इह द्रव्य-गुण-कर्मसु सत्ता' 'इह द्रव्ये द्रव्यत्वम्' 'इह गुणे गुणत्वम्' 'इह कर्मणि कर्मत्वम्' 'इह द्रव्येषु अन्त्या विशेषाः' इत्यादिविशेषप्रत्ययदर्शनात् पञ्चभ्यः पदार्थभ्य अन्तिरता तस्य अवसीयते । तथा च प्रयोग:-येपु यदाका विलक्षणो यः प्रत्ययः तद्व्यतिरिक्तार्थान्तरनिवन्धनः सोऽभ्युपगन्तव्यः, यथा 'पुरुषे दण्डी इति प्रत्ययः,
तथा चायं पञ्चसु पदार्थेषु 'इह' प्रत्यय इति स्वभावहेतुप्रतिरूपकः प्रयोगः । निवन्धनमन्तरेण अस्य १० सद्भावे नित्यं सत्त्वमसत्त्वं वा स्यादिति विपर्यये बाधकं प्रमाणम् । एवम् 'इह' वुद्धिलिङ्गावसेयः
समवायः। अध्यक्षबुद्ध्यवसेयत्वमपि तस्य केचन मन्यन्ते । तथाहि-अक्षव्यापारे सति 'इह तन्तुषु पटः' इत्यादिप्रत्ययोत्पत्तेर्विशेषा भूतस्य तस्य 'इह' बुझ्यध्यक्षावसेयता । समवायश्च न संयोगवद् भिन्नः किन्तु तल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाञ्च सत्तावत् सर्वत्र एक एव, अकारणत्वाच्च तद्वदेव नित्यः । अकारणत्वं च तत्कारणानुपलब्धेः सिद्धम् । १५ . अत्र प्रतिविधीयते-'इंह तन्तुषु पटः' इत्यादिका बुद्धिः स्खसमयाहितवासनाप्रकल्पितैव न तु
लोके तथोत्पद्यमानत्वेन सिद्धेति धर्म्यसिद्धराश्रयासिद्धो हेतुः । ताहि-यत्र नानात्वमुपलक्षित भवेत् तत्र आधाराधेयभावे सति 'इह' बुद्धिरुत्पद्यमाना लोके संवेद्यते, यथा 'इह कुण्डे दधि' इति । न च नानात्वं तन्तु-पटयोरुपलब्धिगोचरः इति कथं तत्र 'इह'बुद्धयुत्पादः ? न च खमतिप्रकल्पि
तस्य कार्यस्य कारणपर्यनुयोगः परं प्रति विधेयः। न चेच्छायाः पदार्थरूपानुरोधः तस्याः स्वातव्य२० वृत्तित्वात् ततोऽपि वस्तुव्यवस्थापने तेषामव्यवस्थाप्रसक्तेः भवत्परिकल्पितस्यापि वस्तुनोऽन्यथाऽ. न्यस्य प्रकल्पयितुं शक्यत्वात् न केवलम् 'इह तन्तुषु पटः' इत्यादिका बुद्धिर्लोके न संवेद्यते किन्तु विपर्ययेणैव तस्या उत्पादानुभवः । तथाहि-'वृक्षे शाखा' 'पर्वते शिला' इत्यादिका बुद्धिलॊके उत्प.
१"तन्तुष्वेव पटोऽमीषु वीरणेषु कटः पुनः । इत्यादीहमतेर्भावात् समवायोऽवगम्यते" ॥-तत्त्वसं. का. ८२३ पृ. २६५।
२"अयुतसिद्धानामाधार्याधारभूतानां यः संबन्ध इहप्रत्ययहेतुः स समवायः"-प्रशस्त० के० । ३ "तस्याभावे स चेत् किं हि मतेरस्या निबन्धनम् । न विशेषमतिदृष्टा निमित्तान्तरवर्जिता ॥ इहबुद्धय विशेषाच योगवन्न विभिद्यते । सर्वस्मिन् भाववत्त्वेष एक एव प्रतीयते ॥ कारणानुपलब्धेश्च नित्यो भाववदेव सः। न ह्यस्य कारणं किश्चित् प्रमाणेनोपलभ्यते"॥
-तत्त्वसं० का० ८२४-८२६ पृ. २६५ । "एवं तावद् वैशेषिकाणां मतेन इहबुद्धिलिङ्गानुमेयः समवायः । नैयायिकमतेन तु इहबुद्धिप्रत्यक्षगम्य एवं"
-तत्त्वसं० पजि० पृ. २६५ पं० २४-। ५ "तदेतदिहविज्ञानं परेषामेव वर्तते । खसिद्धान्तानुरागेण न दृष्टं लौकिकं तु तत्" ॥
-तत्त्वसं० का० ८२७ पृ. २६६। ६ "नानात्वलक्षणे हि स्यादाधाराधेयभूतयोः । इदमत्रेति विज्ञानं कुण्डादौ श्रीफलादिवत् ॥ नैव तन्तुपटादीनां नानात्वेनोपलक्षणम् । विद्यते येन तेषु स्युरिदमत्रेति बुद्धयः" ॥
-तत्त्वसं• का० ८२८-२९ पृ. २६६ । ७ "खेच्छया रचिते वाऽस्मिन् कल्पितेष्विव वस्तुषु । न कारणनियोगोऽयं परं प्रत्युपपद्यते"॥
-तत्त्वसं. का. ८३० पृ. २६६। ८ "वृक्षे शाखाः शिलाश्चाग इत्येषा लौकिकी मतिः। अगाख्यपरिशिष्टाङ्गनरन्तर्योपलम्भनात् ॥ तौ पुनस्ताखिति ज्ञानं लोकातिक्रान्तमुच्यते । घटे रूपं क्रियादीति तादात्म्यं ववगच्छति ॥ रूपकुम्भादिशब्दा हि सर्वावस्थाभिधायकाः । तद्विशेषाभिधानाय तथा ते विनिवेशिताः ॥ तानाश्रित्यैषु विज्ञानं तेनाकारेण वर्तते । समवायान्न भेदस्य सर्वेषामप्यनीक्षणात्"॥
-तत्त्वसं. का. ८३१-८३४ पृ. २६७ । उत्पाघ-बा.बा. भ. मा