________________
ज्ञेयमीमांसा।
६९९ अण्वादिषु व्यावृत्ताकारतया प्रवर्तमानस्य तस्य अतस्मिंस्तब्रहणरूपतया भ्रान्तत्वाऽनतिक्रमात् ? एवमेतत्प्रत्यययोगिनस्तेऽयोगिन एव स्युः। किञ्च, यदि विशेषाख्यपदार्थान्तरव्यतिरेकेण विलक्षणप्रत्ययोत्पत्तिर्न भवेत् कथं विशेषेषु तस्योत्पत्तिर्भवेत् तेषु अपरविशेषाभावात् ? भावे वा अनवस्थाप्रसक्तेः 'नित्यद्रव्यवृत्तयः' इति च अभ्युपगमक्षतिः स्यात् विशेषेषु अपि विशेषाणां वृत्तेः । अथ खत एव तेषु परस्परवैलक्षण्यमिति अपरविशेषमन्तरेणापि वैलक्षण्यबुद्धिविषयता तर्हि परमाण्वादी-५ नामपि तत एव तद्बुद्धिप्रवृत्तिर्भविष्यतीति व्यर्थ विशेषाख्यपदार्थपरिकल्पनम् । अथ विशेषेषु अपरविशेषयोगाद् व्यावृत्तबुद्धिपरिकल्पनायामनवस्थादिबाधकोपपत्तेः उपचारात् तेषु तद्बुद्धिः, न; तथाभूतविज्ञानाधाराणां योगिनामयोगित्वप्रसक्तेः-तबुद्धेः 'विशेषा इव' इति स्खलद्रूपतया प्रवृत्ती अनिर्णयबुद्ध्यधिकरणत्वात् तेषां 'विशेषा एव' इत्यस्खलद्रूपबुझ्यधिकरणत्वे अपरविशेषविकलानां विशेषाणां परमाण्वादीनामिव अविशेषरूपतया तद्बुद्धेर्विपर्यस्तरूपत्वेन तदाधाराणां कथं न अयोगि-१० त्वम् ? यदि च वाधकोपपत्तेर्विशेषेषु व्यावृत्तबुद्धिर्न अपरविशेषनिबन्धना तर्हि परमाण्वादिष्वपि भिन्नविशेषनिबन्धना नासावभ्युपगन्तव्या, तेषां तत्र भिन्नाभिन्नव्यावृत्तरूपकरणानुपपत्तेर्बाधकस्य सद्भावात् । येदप्यत्र अध्ययनायुक्तं प्रतिसमाधानम् –“यथा श्वमांसाशुच्यादीनां स्वत एव अशुचित्वम् अन्येषां च भावानां तद्योगात् तत् तथेहापि तादात्म्यात् विशेषेषु स्वत एव व्यावृत्तप्रत्ययहेतुत्वम् परमाण्वादिषु तु तद्योगात् । किञ्च, अतदात्मकेष्वपि अन्यनिमित्तः प्रत्ययो भवत्येव यथा प्रदीपात् १५ पटादिषु न पुनः पटादिभ्यः प्रदीपे एवं विशेषेभ्य एव अण्वादौ विशिष्टप्रत्ययः न अण्वादिभ्य इत्यादिकम्" [
], तदपि असंगतम्; यतोऽशुचित्वं भावानां कल्पनासमारोपितम् न पारमार्थिकम् अव्यवस्थितेस्तस्य । तथाहि-यदेव कस्यचित् श्रोत्रियादेव्यमशुचित्वेन प्रतिभाति तदेव कापालिकादेः शुचित्वेन । न च एकस्य परस्परविरुद्धानेकरूपसमावेशो युक्तः एकत्वहानिप्रसक्तेः । भवतु वा पारमार्थिकं पदार्थानामशुचित्वं तथापि न दृष्टान्त-दार्टान्तिकयोः साम्यम् यतः २० खे(श्व)मांसाद्यशुचिद्रव्यसंसर्गाद् मोदकादयो भावाः प्रच्युतप्राक्तनशुचिस्वभावा अपर एव अशुचि. रूपा उत्पद्यन्ते इति युक्तमेषामन्यसंसर्गजमशुचित्वम् न तु परमाण्वादिषु एतत् संभवति तेषां नित्यत्वादेव प्राक्तनाऽविविक्तस्वरूपपरित्यागेन अपरविविक्तस्वरूपतयाऽनुपपत्तेः अत एव प्रदीपपटदृष्टान्तोऽपि असंगतः पटादीनां प्रदीपादिपदार्थान्तरोपाधिकस्य रूपान्तरस्य उत्पत्तः प्रकृते च तदसंभवात् इति । अनुमानबाधितश्च विशेषसद्भावाभ्युपगमः । तथाहि-विवादाधिकरणेषु भावेषु २५ विलक्षणप्रत्ययः तद्व्यतिरिक्तविशेषनिबन्धनोन भवति, व्यावृत्तप्रत्ययत्वात् , विशेषेषु व्यावृत्तप्रत्ययवत् इति । पूर्ववद् अस्य हेतोः प्रतिबन्धादिकं वाच्यम् । तन्न विशेषपदार्थसद्भावः तत्साधकप्रमाणाभावात् बाधकोपपत्तेश्चेति स्थितम् ।
१ "नित्यद्रव्यवृत्तयोऽन्त्या इति चाभ्युपगमहानिप्रसङ्गाच"-तत्त्वसं० पजि. पृ० २६३ पं० २२ ।
२“यथा गवाश्वमांसादीनां खत एवाशुचित्वं तद्योगादन्येषां तथेहापि तादात्म्यादन्त्यविशेषेषु खत एव प्रत्ययव्यावृत्तिः तद्योगात् परमाण्वादिष्विति"-प्रशस्त. कं. पृ. ३२२ पं० १३ । “'खत एव' इत्यादिना प्रशस्तमतेरत्रोत्तरमाशङ्कते
खत एवाशुचित्वं हि श्वांसादेर्यथा स्थितम् । तद्योगादपरेषां तु तथेहापि यदीष्यते ॥ यथा प्रकाशको दीपो घटादेश्च खतः स्थितः । तत्प्रकाशात्मतायां च नियतोऽयमिदं तथा ॥"
-तत्त्वसं० का० ८१५-८१८ पृ. २६४ । ३ यथा स्वमांसा-वा. बा. भा. मा० । “स वाह यथा श्वमांसा"-तत्त्वसं० पजि. पृ. २६४५.६। ४ "मनु चाशुचिभावोऽयं सांवृतो न तु तात्त्विकः । तत् स्वयं परतो वाऽयं कथं नाम भविष्यति ॥
अथवा भाविकत्वेऽपि श्वांसादिवशादिमे । जायन्तेऽशुचयो भावा नैव नित्या अजन्मतः ॥ प्रदीपादिप्रभावाच्च ज्ञानोत्पादखरूपताम् । लभन्ते क्षणिका ह्यर्थाः कलशाभरणादयः॥ न विवादास्पदीभूतविशेषबलभाविनी । वैलक्षण्यमतिस्तेषु क्रमोत्पत्तेः सुखादिवत्" ॥
-तत्त्वसं० का० ८१९-८२२ पृ. २६४ । ५ "तथाहि-श्वमांसादिकाशुचिद्रव्यसंपर्कादनादयो भावाः"-तत्त्वसं० पञ्जि. पृ० २६४ पं० २५ ।
९.स.प्र.