________________
६९८
तृतीये काण्डेब्राह्मणत्वं न स्यात् । न च अदृश्ये वस्तुनि निर्णयो विधातुं शक्यः 'शूद्राद्युत्पाद्यत्वमस्य नास्ति' इति, अनादिगोत्रपद्धतौ च कामार्तत्वात् सर्वदा प्रमदानां कस्याश्चिद् व्यभिचारसंभवात् कुतो योनिनिबन्धनब्राह्मण्यनिश्चयात् संस्कारस्य अध्ययनादेश्च अविपर्ययस्तत्त्वनिश्चयः? आगमस्य च तन्निश्चयनिवन्धनत्वेन कल्पितस्य रागादियुक्तपुरुषप्रणीतत्वेन अप्रामाण्यात् न निश्चयहेतुता अपौरुषेयस्य च ५ प्रतिव्यक्ति एवंभूतार्थप्रतिपादनपरस्य अनुपलम्भान्न ततोऽपि तन्निश्चयः । न च अविगानतस्त्रै
वर्णिकप्रवादोऽत्र वस्तुनि प्रमाणम् तस्यापि व्यभिचारित्वोपलब्धेः-दृश्यन्ते च बहवस्त्रैवर्णिकरविगानेन ब्राह्मणत्वेन व्यवहियमाणा विपर्ययभाजः इत्यलमतिनिर्बन्धेन वचनमात्रगम्येऽर्थे । इति व्यवस्थितमेतत्-असत् सामान्यम्, तत्साधकप्रमाणाभावात् बाधकोपपत्तश्च ।
[निरूपणपुरस्सरं विशेषपदार्थस्य खण्डनम् ] १० नित्यद्रव्यवृत्तयः परमाण्वाकाश-काल-दिगात्ममनस्सु वृत्तेः अत्यन्तव्यावृत्तबुद्धिहेतवो वि
शेषाः ते च-परमाणूनां जगद्विनाशारम्भकोटिभूतत्वात् मुक्तात्मनाम् मुक्तमनसां च संसारपर्यन्तरूपत्वाद् अन्तत्वं तेषु भवा-अन्त्या इत्युच्यन्ते तेषु स्फुटतरमालक्ष्यमाणत्वात्, वृत्तिस्त्वेषां सर्वस्मिन्नेव परमाण्वादौ नित्ये द्रव्ये विद्यत एव अत एव 'नित्यद्रव्यवृत्तयः' 'अन्त्याः' इत्युभयपदोपादा
नम् । अपरे तु उत्पाद-विनाशलक्षणान्तरहितेषु द्रव्येषु भवा अन्त्या इत्यस्य व्याख्यानं 'नित्यद्रव्य. १५वृत्तयः' इति पदं वर्णयन्ति । व्यावृत्तबुद्धिहेतुत्वं च विशेषाणां सद्भावप्रतिपादकं प्रमाणम् । यथा हि
अस्मदादीनां गवादिषु आकृति-गुण-क्रियाऽवयव-संयोगनिमित्तोऽश्वादिभ्यो व्यावृत्तः प्रत्ययो दृष्टःतद्यथा-'गौः' 'शुक्लः' 'शीघ्रगतिः' 'पीनककुदः' 'महाघण्टः' इति यथाक्रमम् -तथास्मद्विशिष्टानां योगिनां नित्येषु तुल्याऽऽकृति-गुण-क्रियेषु परमाणुषु मुक्तात्म-मनस्सु च अन्यनिमित्ताभावे प्रत्या
धारं यद्बलाद् 'विलक्षणोऽयम्' 'विलक्षणोऽयम्' इति प्रत्ययवृत्तिः देश-कालविप्रकर्षापलब्धे च 'स २० एवायम्' इति प्रत्यभिज्ञानं च यतो भवति ते योगिनां विशेषप्रत्ययोनीतसत्त्वा अन्त्या विशेषाः सिद्धाः । योगिनां तु एते प्रत्यक्षत एव सिद्धाः। ____एते च लक्षणासंभवादेव असन्तः। तथाहि-यद् एषां नित्यद्रव्यवृत्तित्वादिकं लक्षणमभिहितम्, तत् असंभवदोषदुष्टत्वाद् अलक्षणमेव । यतः न किञ्चिन्नित्यं द्रव्यमस्ति, तस्य पूर्वमेव निरस्तत्वात् । तभावे च तद्वृत्तित्वं लक्षणमेषां दूरोत्सारितमेव । यच्च योगिप्रभवविशेषप्रत्ययबलाद् एषां सत्त्वं २५साध्यते, तद् असंगतमेव; हेतोरनैकान्तिकत्वात् । तथाहि-परमाण्वादीनां स्वस्वभावव्यवस्थितेः स्वरूपं परस्परासंकीर्णरूपं वा भवेत्, संकीर्णस्वभावं वेति कल्पनाद्वयम् । आद्यकल्पनायां स्वत एव असंकीर्णपरमाण्वादिरूपोपलम्भात् योगिनां तेषु वैलक्षण्यप्रत्ययोत्पत्तिर्भविष्यतीति व्यर्थमपरविशेषपदार्थकल्पनम् । द्वितीयायामपि विशेषाख्यपदार्थान्तरसन्निधानेऽपि परस्परव्यतिमिश्रेषु परमाण्वादिषु तद्बलाद् व्यावृत्तप्रत्ययो योगिनां प्रवर्तमानः कथमभ्रान्तो भवेत् स्वरूपतोऽव्यावृत्तखरूपेषु
१ "नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः। ते खल्वत्यन्तव्यावृत्तिहेतुत्वाद् विशेषा एवं"-प्रशस्त. कं० पृ. १३ पं०२०। "विशेषा एव केचित्तु व्यावृत्तेरेव हेतवः । नित्यद्रव्यस्थिता येऽन्त्या विशेषा इति वर्णिताः"॥
-तत्त्वसं० का० ७१२ पृ० २३६ । २“अन्तेषु भवा अन्त्याः खाश्रयविशेषकखाद विशेषाः। विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनस्सु प्रतिद्रव्यमेकैकशो वर्तमानाः अत्यन्तव्यावृत्तिबुद्धिहेतवः"-इत्यादि-प्रशस्त० के० पृ. ३२१ पं० १२-1 ३ यद्वर्णाद् बृ० आ० हा० वि० । “यद्वलात् परमाण्वादौ जायन्ते योगिनां धियः । विलक्षणोऽयमेतस्मादिति प्रत्येकमाश्रिताः" ॥
-तत्त्वसं० का० ७१३ पृ० २३७ । ४ "ये पुनः कल्पिता एते विशेषा अन्त्यभाविनः । नित्यद्रव्यव्यपोहेन तेऽप्यसंभविताः क्षणाः ॥
अण्वाकाशदिगादीनामसंकीर्ण यदा स्थितम् । वरूपं च तदैतस्माद् वैलक्षण्योपलक्षणम् ॥ मिश्रीभूतापरात्मानो भवेयुर्यदि ते पुनः । नान्यभावेऽप्यविभ्रान्तं वैलक्षण्योपलक्षणम् ॥ कथं तेषु विशेषेषु वैलक्षण्योपलक्षणम् । खत एवेति चेन्नैवमण्वादावपि किं मतम्"।
-तत्त्वसं० का०८१३-८१६ पृ. २६३॥