________________
ज्ञेयमीमांसा ।
६९७ सामान्यस्य अनेकशो बाधकं प्रतिपादितमेवानुमानम्-ये ऋमित्वाऽनुगामित्व-वस्तुत्वोत्पत्तिमत्वादिधर्मोपेतास्ते परपरिकल्पितनित्यैकसर्वगतसामान्यतो नात्मलाभमासादयन्ति, यथा पाचकादिप्रत्ययाः, तथा चामी गवादिप्रत्यया इति विरुद्धव्याप्तोपलब्धिः नित्यभावविरुद्धाऽनित्यताभावेन ऋमित्वादेर्व्याप्तत्वात् नित्यस्य च क्रमाऽक्रमाभ्यामर्थक्रियाविरोधाद् नानैकान्तिकता हेतोः दृष्टान्तस्य च साध्यान्वितत्वेन पूर्व प्रसाधितत्वान्नासिद्धो दृष्टान्तः। तदेवं बाधकप्रत्ययस्य अभावोऽसिद्धः अनेक-५ प्रकारस्य बाधकस्य प्रदर्शितत्वात्।।
भवतु वा गोत्वादि सामान्यम् कर्कादिविलक्षणत्वेन शाबलेयादीनां प्रतिपत्तेः, ब्राह्मणत्वादि सामान्यं तु उपदेशमात्रव्यङ्ग्यम् गवाश्वादिवद् ब्राह्मणेतरविशेषप्रतिपत्त्यभावात् । न च उपदेशसहायाध्यक्षगम्यं तत् अध्यक्षविषये उपदेशापेक्षाऽयोगात् , तद्योगे वा उपदेशस्यैव केवलस्य व्यापार इति उपदेशमात्रव्यङ्ग्यतैव । अथ 'वर्णविशेषाऽध्ययनाऽऽचार-यज्ञोपवीतादिव्यतिरिक्तनिमित्तनिबन्धनं १० 'ब्राह्मणः' इति ज्ञानम्, तन्निमित्तबुद्धिविलक्षणत्वात्, गवाश्वादिज्ञानवत्' इति लिङ्गात् प्रतिपत्तेः ब्राह्मणत्वादिसामान्यस्य नागममात्रव्यङ्गयत्वमिति, असदेतत् ; नगरादिज्ञानवद् व्यतिरिक्तनिबन्धनाभावेऽपि तथाभूतज्ञानस्य कथंचिद् उपपत्तेः । न हि नगरादिज्ञानेऽपि व्यतिरिक्तं द्रव्यान्तरमस्ति यद् एकाकारज्ञाननिबन्धनं भवेत् काष्ठादीनामेव प्रत्यासत्या कयाचित् प्रासादादिव्यवहारनिबन्धनानां नगरादिव्यवहारनिबन्धनत्वोपपत्तेः अन्यथा 'पण्णगरी' इत्यादिष्वपि वस्त्वन्तरकल्पनाप्रसक्तेः । न १५ च तत्रापि तथाऽस्तु इति वक्तव्यम् , वस्त्वन्तरस्य तन्निवन्धनस्य तत्र निषिद्धत्वात् । अतोऽनैकान्तिको हेतुः सिद्धसाध्यता च समुदायिभ्योऽन्यत्वाङ्गीकरणे समुदायस्य तन्निवन्धनत्वाद् ब्राह्मणबुद्धेः तदग्रहे तद्रुद्ध्यभावात् पानकवत् इति न वर्णादिभ्यो व्यतिरिक्तम् । तस्मात् शरीरोत्पत्तिकारणं श्रुतं तपो वा ब्राह्मणत्वं परिकल्पनीयं स्यात् । तत्र व्राह्मणशुक्रशोणितसंभूते शरीरविशेषे यदि ब्राह्मणत्वजातिः समवेता भवेत ततः संस्कारभ्रंशेऽपि न ततो व्यावर्तत तेन संस्काराभावात् व्रात्यो नाऽब्राह्मणो २० भवेत् । अथ संस्काररहितोऽपि व्रात्यो ब्राह्मण एव केवलं ब्राह्मणक्रियामकुर्वाणस्य भवति अब्राह्मणव्यपदेशस्तत्र पुत्रस्येव पुत्रक्रियामकुर्वतः। तथाहि-'अयमगौः' 'अयमनश्वः' 'अयममनुष्यः' इत्यादिव्यवहारो लोके सुप्रसिद्ध एव । न चैतावता तक्रियावैकल्येऽपि परमार्थतस्तस्य तथाभावः, प्रत्यक्षादिविरोधात । एतस्यां च वस्तुव्यवस्थायां ब्राह्मणमातापित्रुत्पाद्यत्वस्य प्राधान्यात् गजादीनां शिक्षेव केवलमध्ययनादिका क्रिया संपद्यते, तथाऽभ्युपगमे च ब्रह्म-व्यास-मतङ्ग-विश्वामित्रप्रभृतीनां२५
१ प्रमेयकमलमार्तण्डे स्याद्वादरत्नाकरे च ब्राह्मणवस्य नित्यजातिरूपत्वनिषेधपरा विस्तृता रुच्या च चर्चा वर्तते-पृ. १४१ प्र.-पृ. १४३ प्र० । पृ० ९५८ पं० ९-पृ० ९६३ पं० १० । तत्त्वसंग्रहे तु जातिमदनिषेधव्याजेन ब्राह्मणवस्य नित्यप्रतिष्ठानता निरस्ता । सा चेत्थम्
"शतशः प्रतिषिद्धायां जाती जातिमदश्च किम् । तदन्यातिशयासिद्धौ विशिष्टा सा च किं मता ॥ वशिलादिगुणाधाराः प्रक्षीणाशेषकल्मषाः । सर्वेऽप्यत्राविशेषेण तद्योगे च विजातयः॥ भवेयुर्यदि सियन्ति विशिष्टास्तत्समाश्रयाः । वैशिष्ट्यमन्यथा नैव लुब्धकद्विजजातिवत् ॥ जातकर्मादयो ये च प्रसिद्धास्ते तदन्यवत् । आचाराः सांवृतास्ते हि कृत्रिमेष्वपि भाविनः ॥ अतीतश्च महान् कालो योषितां चातिचापलम् । तद् भवत्यपि निश्चेतुं ब्राह्मणत्वं न शक्यते ॥ अतीन्द्रियपदार्थज्ञो न हि कश्चित् समस्ति वः । खदन्वयविशुद्धिं च नित्यो वेदोऽपि नोक्तवान्" ॥
-तत्त्वसं० का० ३५७५-३५८० पृ. ९२०-२१ । अयं भावो हर्षेणापि दर्शितः"शुद्धिर्वशद्वयीशुद्धौ पित्रोः पित्रोर्यदेकशः । तदानन्तकुलादोषाददोषा जातिरस्ति का ॥
कामिनीवर्गसंसगैर्न कः संक्रान्तपातकः"। नैषध. स. १७ श्लो. ४०-४१ पृ. ३६९ । तट्टीकायां च “यदाहुः" इत्यादिना "अप्येकपङ्कयां नाश्नीयात्संयतैः खजनैरपि । को हि जानाति किं कस्य प्रच्छन्नं पातकं भवेत्" । इति । तथा"अनादाविह संसारे दुर्वारे मकरध्वजे । कुले च कामिनीमूले का जातिपरिकल्पना"। इति पद्यद्वयं उद्धृतं दृश्यते तत्रत्यं प्रथमं पद्यं पराशरमाधवे बृहस्पत्युक्तत्वेन समुद्धृतम्
अ. १ आचारका०पृ०३७६।