________________
६९६
तृतीये काण्डे-- प्रत्यकसमवेताऽपि जातिरेकैव बुद्धितः। 'नयुक्तेष्विव वाक्येषु ब्राह्मणादिनिवर्तनम् ॥ नैकरूपा मतिर्गोत्वे मिथ्या वक्तुं च शक्यते । नात्र कारणदोषोऽस्ति बाधकः प्रत्ययोऽपि वा" ॥
[श्लो० वा० वन० श्लो० ४४-४७-४९] इति । अत्र प्रथमसाधने साध्यविकलमुदाहरणम् गोत्वस्य एकस्य तत्रासिद्धेस्तैन्निबन्धनत्वस्यैकगोपिण्डविषयबुद्धेरप्यसिद्धत्वात् । अथ सामान्येन एकनिबन्धनत्वमात्रं साध्यते तदा सिद्धसाध्यता विजातीयव्यवच्छेदेन कल्पितैकाऽगोव्यावृत्तिनिबन्धनत्वस्य इष्टत्वात् । न 'शाबलेयाद् गोबुद्धि'
इत्यत्रापि साक्षात् तदुत्पत्तिनिषेधे साध्ये सिद्धसाध्यता तत्स्वलक्षणानुभवाहितसंस्कारसंकेतादि १० व्यवहितत्वात् तस्याः । अथ परंपरयाऽपि 'ततो न भवति' इति साध्यते तदा अनुमानबाधः प्रतिज्ञायाः साध्यविकलता च दृष्टान्तस्य । अन्यालम्बनत्वेऽपि साध्ये सन्निहितशाबलेय-गोबुद्धर्यदि ततोऽर्थान्तरालम्बनत्वं साध्यते तदा अनुभवविरोधः सन्निहितशाबलेयादिपिण्डाध्यवसायित्वेन तस्याः संवेदनात दृष्टान्तस्य च साध्यविकलता पूर्ववत् । अथ शाबलेयाऽसन्निधौ बाहलेयादिसन्नि
धानप्रवृत्ता या बुद्धिः सा ततोऽन्यालम्बनेति पक्षः तदा सिद्धसाध्यता । अथ साक्षात् वस्तुसदा१५ लम्बनेति साध्यते तदा अनैकान्तिकता हेतोः न हि परमार्थतोऽस्या वस्तुसदालम्बनमस्तीति प्रसाधितत्वात् । यदपि 'प्रत्येकपरिसमाप्तार्थविषयत्वसाधनम्' तत्रापि सामान्येन साध्ये सिद्धसाध्यता प्रतिपदार्थमतद्रूपपरावृत्तवस्तुरूपाध्यवसायेन अस्याः प्रवृत्तेः । अथ वस्तुभूत-प्रत्येकपरिसमाप्त-नित्यैकसामान्याख्यपदार्थविषयत्वं साध्यते तदा दृष्टान्तस्य साध्यविकलता अनैकान्तिकता चहेतोः तथाविधेन साध्येन हेतोः क्वचिदपि अन्वयासिद्धेः। एकस्य च क्रमवत्सु बहुषु सर्वात्मना २० परिसमाप्तत्वे सर्वव्यक्ति मेदानामन्योन्यमेकरूपताप्रसक्तिः एकव्यक्तिपरिनिष्ठितस्वभावसामान्यसंस
टत्वात् एकव्यक्तिरूपवत्, सामान्यस्य वा अनेकरूपतापत्तिः युगपदनेकवस्तुपरिसमाप्तात्मरूपत्वात् अतिदूरदेशावस्थितानेकभाजनव्यवस्थितानेकाम्रादिफलवत् इत्यनुमानबाधः । अत एव 'न चात्र बाधकः प्रत्ययोऽस्ति' इति यदुक्तम् तदपास्तम् बाधकस्य प्रदर्शितत्वात् । यदपि 'एकत्वसाधनं सामान्यस्य,' तत्रापि तस्य प्रत्येकसमवेतत्वासिद्धेः आश्रयासिद्धो हेतुः । स्वरूपा२५ सिद्धश्च-एकबुद्धिग्राह्यत्वस्य परमार्थतस्तत्रासिद्धेः शाबलेयादिषु 'समानाः' इति बुद्धयुत्पत्तेः । ब्राह्मणादिनिवर्तनं च परमार्थतो नैकमस्ति, तस्याऽवस्तुत्वात् अतः साध्यविकलमुदाहरणम् । कल्पनाशिल्पिघटिते चैकत्वे साध्ये सिद्धसाध्यता अपोहस्य कल्पनानिमित्तस्य एकत्वेन इष्टेः । 'न चात्र कारणदोषोऽस्ति' इत्येतदपि असिद्धम्, अनाद्यविद्यावासनास्वरूपस्य कारणदोषस्य
सद्भावात् । बाधकसद्भावश्च 'न च याति' इत्यादिना प्रदर्शितः । तथाहि-ये यत्र नोत्पन्नाः ३० नापि प्रागवस्थायिनः नापि पश्चात् अन्यतो देशादागतिमन्तस्ते तत्र न वर्तन्ते नापि उपलभ्यन्ते,
यथा रासभशिरसि तद्विषाणादयः, तथा च सामान्यं तच्छून्यदेशोत्पादवति शाबलेयादिके वस्तुनि इति व्यापकानुपलब्धिः। न चायमनैकान्तिको हेतुः तत्र वृत्युपलम्भयोः प्रकारान्तरासंभवात् तञ्च खाश्रयमात्रव्यापित्वाऽभ्युपगमे गोत्वादिजातेर्बाधकं प्रमाणं प्रदर्शितम् । सर्वसर्वगतत्वाऽभ्युप
गमे तु तस्या एकस्मिन् व्यक्तिभेदे ग्रहणे विजातीयव्यक्तिभेदे व्यक्त्यन्तराले चोपलम्भः स्यात् अनुप३५लम्भात् तु तदभाव इति दृश्यानुपलम्भो बाधकं प्रमाणम् । तथाहि-उपलब्धव्यक्तिसमवेतसामान्यस्वरूपाद उपलब्धाद् अव्यतिरिक्तंचेद् व्यक्त्यन्तरालवति सामान्यरूपम् तदा तस्यापि ग्रहणं भवेत गृहीतादभिन्नत्वात् गृहीतस्वरूपवत् । अथ न तस्य उपलम्भस्तथासति अनुपलब्धरूपाव्यतिरेकात् तद्वद् उपलब्धव्यक्तिसमवायिनोऽपि रूपस्योपलम्भो न स्यात् । अथ उभयरूपताऽभ्युपगम्यते तदा रूपमेदात् तद्वस्तुभेदः परस्परविरुद्धधर्माध्यासात् न हि अन्योन्यविरुद्धरूपग्रहणाग्रहणधर्माध्यासि. १.तमपि वस्तु एकं युक्तम् अतिप्रसङ्गात्-विश्वस्यैवमेकद्रव्यताप्रसक्तेः सहोत्पाद-विनाशाद्यपपत्ति स्यात् अन्यथा 'एकम्' इति नाममात्रमेव भवेत् न च तत्र विवादः । नित्यत्वैकत्वरूपाभ्युपगमे च
"-स्तनिबन्धनलमेकगोबुद्धेरप्यसिद्धमेव"-तत्त्वसं. पजि. पृ. २५८ पं०५२ पृ. ६९५ पं० २५- ३ पृ. ६९५ पं० २९। ४ पृ. ६९५ पं० २६। ५ पृ. ६९५५० २९ । पृ.६९१५० २६।