________________
ज्ञेयमीमांसा ।
अभिव्यक्तिलक्षणा वा ? स्थितिरपि निःस्वभावताप्रच्युतिरभ्युपगम्यते, आहोस्विद् अधोगतिप्रतिबन्धस्वरूपा ? तत्र न तावद् आद्यः पक्षः, सामान्यस्य नित्यतया स्वभावाऽप्रच्युतेः स्वतः सिद्धत्वात् । नापि अधोगति प्रतिबन्धस्वरूपा स्थितिस्तत्र संभविनी, अमूर्त- सर्वगतत्वाभ्यां निष्क्रियत्वात् स्वत एव अधोगमनासंभवात् प्रतिबन्धकानां वैयर्थ्यात् । न च सामान्यस्य स्वव्यक्तिषु समवायः स्थितिरभ्युपगन्तव्या, तस्यैव विचार्यमाणत्वात् । तथाहि अयुतसिद्धानामाश्रयाश्रयिभावो यः संबन्धः 'इह' ५ इति प्रत्ययहेतुः स समवायः परैरभ्युपगतः । 'आश्रितत्वं च सामान्यस्य व्यक्तिप्रतिबद्धस्थितित्वेन वा, तदभिव्यङ्ग्यतया वा' इत्येतदेव पर्यालोचयितुं प्रक्रान्तम् परस्परासंकीर्णरूपाणां भावानामकिञ्चित्करार्थान्तरसमवायायोगात् योगे वा सर्वः सर्वस्य समवायः प्रसज्येत । तथाहि - व्यावृत्तस्वरूपान् भावान् संश्लेषयन् पदार्थः समवायः प्रकल्पितः । न च अर्थान्तरभावेऽपि स्वात्मव्यवस्थिता भावाः परस्परस्य स्वभावमात्मसात्कुर्वन्ति । न च अर्थान्तराश्लेषकारिणो भावान्तरस्य 'समवायः' १० इति नामकरणेऽपि काचित् क्षतिः । न च श्लेषकरणात् समवायरूपत्वं संश्लेषस्य, संश्लिष्यमाणपदार्थेभ्यो भिन्नस्य करणे तैस्तस्य संबन्धासिद्धेः; अभिन्नस्य करणे सामान्यादेः कार्यत्वेन अनित्यत्वप्रसक्तेः । तन्न सामान्यस्य व्यक्तिषु स्थितिर्वृत्तिः । नापि तद्भिव्यक्तिलक्षणाऽसौ युक्ता । तथाहितद्विषयविज्ञानोत्पादनलक्षणा वा तदभिव्यक्तिः, स्वरूपपरिपोषलक्षणा वा ? न तावत् स्वभावपरिपोपलक्षणा, नित्यस्य स्वभावान्यथाकरणासंभवात् । नापि तद्विषयविज्ञानोत्पादनस्वरूपा असौ युक्ता, १५ सामान्यस्य स्वत एव विज्ञानोत्पादनसामर्थ्य अभिव्यक्तिकारणापेक्षाऽयोगात् असामर्थ्येऽपि परैरनाधेयविशेषत्वात् सामान्यस्य तदपेक्षत्वानुपपत्तेः परैराधेयविशेषत्वाभ्युपगमेऽपि अनित्यत्वप्रसतितो व्यक्तिवद् असाधारणत्वात् सामान्यरूपताऽनुपपत्तेः तेन सामान्यस्य व्यक्तिषु वृत्तिनिबन्धनाभावाद् अवृत्तिः । तथा च प्रयोगः - यस्मिन् यस्य वृत्तिनिबन्धनं नास्ति न तत्र तद् वर्तते, विन्ध्ये इव हिमवान्, नास्ति च भेदेषु वृत्तिनिबन्धनं सामान्यस्य इति व्यापकानुपलब्धिः । सर्वेऽपि च पर- २० प्रकल्पिताः सामान्य साधनाय हेतवः अनया दिशा प्रतिषेद्धव्याः ।
कुमारिलप्रकल्पितास्तु-गोपिण्डभेदेषु गोबुद्धिः एकगोत्वनिबन्धना, गवाभासत्वात् एकाकारत्वाच्च, एकगोपिण्डविषयबुद्धिवत् । अथवा येयं गोबुद्धिः सा शाबलेयान्न भवति तद्व्यतिरिक्तार्थान्तलम्वना वा, तदभावेऽपि भावात्, घटे पार्थिवबुद्धिवत् । सर्वगतत्वं च सामान्यस्य प्रमाणान्तरात् सिद्धम् । तथाहि - येयं गोमतिः सा प्रत्येकसमवेतार्थविषया, प्रतिपिण्डं कृत्स्नस्वरूपपदार्थाकारत्वात्, २५ प्रत्येक व्यक्तिविषयबुद्धिवत् । एकत्वमपि सामान्यस्य प्रमाणोपपन्नमेव । तथाहि यद्यपि सामान्यं सर्वात्मना प्रतिव्यक्ति परिसमाप्तं तथापि एकमेव तत्, एकाकारबुद्धिग्राह्यत्वात्, यथा 'नञ्' - युक्तेषु वाक्येषु ब्राह्मणादिनिवर्तनम् । न चैतत् शक्यं वक्तुम्- 'भिन्नेषु अभिन्नाकारः प्रत्ययो भ्रान्त इति न तद्बलाद् वस्तुतत्त्वव्यवस्था' इति, यतो नास्य दुष्टकारणप्रभवत्वमस्ति, नापि बाधकप्रत्ययसद्भावः ततो मिथ्यात्वनिबन्धनाभावात् कथं भ्रान्तता ! तदुक्तम्
“पिण्डभेदेषु गोबुद्धिरेकगोत्वनिबन्धना । गवाभासैकरूपाभ्यामेकगोपिण्डबुद्धिवत् ॥
न शाबलेयाद् गोबुद्धिः ततोऽन्यालम्बनाऽपि वा । तद्भावेऽपि सद्भावादु घटे पार्थिवबुद्धिवत् ॥ प्रत्येकसमवेतार्थविषयैवाथ गोमतिः ।
प्रत्येकं कृत्स्नरूपत्वात् प्रत्येकव्यक्तिबुद्धिवत् ॥
१ " स्यादाधारो जलादीनां गमनप्रतिबन्धकः । अगतीनां किमाधारैः सामान्यानां प्रकल्पितैः ॥ स्वज्ञानोत्पत्तियोग्यत्वे किमभिव्यक्तिकारणैः । खज्ञानोत्पत्त्ययोग्यत्वे किमभिव्यक्तिकारणैः ॥ यः समर्थः समर्थात्मा व्यञ्जकैः क्रियते यदि । भावोऽस्थिरो भवेदेवं दीपव्यय घटादिवत् " ॥
- तत्त्वसं० का० ८०२-८०४ पृ० २६० ।
६९५
३०
२ " अनया च दिशाऽन्येऽपि सर्वे दूष्याः कुहेतवः” ।
“अन्येऽपि कुहेतव इति कुमारिलगदिताः तत्राभी तेन कुहेतव उक्ताः " -- तत्त्वसं० का० ७९७ तथा पञ्जि० पृ० २५७ पं० १६-१
३ " तस्मात् पिण्डेषु गोबुद्धि" - लो० वा० । खात्" - हो० वा० ।
३५
४ “गवाभासैकरूप्याभ्या" - लो० वा० । ५ " प्रत्येकं कृत्स्रबुद्धि