________________
६९४
तृतीये काण्डेमादाय एकत्रापि अनेकविरुद्धधर्माध्यवसायिविकल्पसूतेरविरोधात् । यदि च अनुगतनिमित्त मन्तरेण अनुगतप्रत्ययो न भवेत् इच्छाविरचितरूपेषु 'चन्द्रापीडादि'भावेषु नष्टाऽजातेषु च महासम्मत-शङ्खचक्रवर्तिप्रभृतिषु कथं भवेत् ? न हि तत्रापि सामान्यसद्भावः तस्य व्यक्त्याश्रितत्वात् तदभावे तस्याप्यभावात् न हि आश्रितानामयं धर्म:-यदत आश्रयाभावेऽपि केवलानामव५स्थानम् अनाधितत्वप्रसङ्गात् केवलस्य वा अवस्थाने ग्रहणप्रसक्तिरेव इति न नष्टाऽजातेषु अनुगताकारः प्रत्ययः सामान्यनिबन्धनः स्यात् इति अनेकान्त एव हेतोः । न च परेणापि केवलस्य सामान्यस्य ग्रहणमभ्युपगम्यते । तथा चोक्तम्-"स्वाश्रयेन्द्रियसंनिकर्षापेक्षप्रतिपत्तिकं सामान्यम्" [
] इति । केवलस्यापि च सामान्यस्य ग्रहणाभ्युपगमे सामान्यप्रत्ययस्य व्यक्त्यध्यवसायो न प्राप्नोति व्यक्तेस्तदानीमभावाद् 'व्यक्तीनामिदं सामान्यम्' इति संबन्धश्च न १० स्यात् निमित्ताभावात् । तथाहि-संबन्धस्य निमित्तं भवत् तद्यङ्गयत्वं वा सामान्यस्य भवेत्, तजन्यता वा, तहणापेक्षग्रहणता वा? तत्र न तावद् व्यक्ति भिर्व्यङ्गयत्वात् सामान्य ताभिः संबद्धम् परैरनुपकार्यस्य नित्यत्वात् सामान्यस्य अविशेषतो व्यङ्ग्यत्वानुपपत्तेः यो हि यस्य अनुपकार्यः स तस्य अभिव्यङ्गयो न भवति, यथा हिमवान् विन्ध्यस्य, अनुपकार्य च सामान्य व्यक्तिभिः इत्यनुपकार्यस्यापि व्यङ्ग्यत्वे सर्वः सर्वस्य व्यङ्ग्यः स्यात् इत्यतिप्रसङ्गः । नापि तजन्यता १५ तन्निबन्धनम् नित्यतया अभ्युपगतस्य तजन्यत्वायोगात् केवलस्यापि ग्रहणाभ्युपगमाच्च । नापि
तज्ज्ञानपारतन्यमपि तस्य संभवति तेन “स्वाश्रयेन्द्रियसन्निकर्षापेक्षप्रतिपत्तिकं सामान्यम्” इति अयुक्तमभिधानम् आश्रयस्यायोगात् तद्गतेन्द्रियसन्निकर्षाद्यपेक्षाया दूरोत्सारितत्वात् न चास्य नित्यतया परैरनाधेयविशेषत्वात् क्वचिदपि अपेक्षा अतो यदि तत्स्वविषयज्ञानोत्पादनसमर्थं तदा
सर्वदैव तद् जनयेत् अथ असमर्थम् न कदाचिदपि जनयेत् न हि समर्थम् असमर्थ वा तस्य तद्रूपं २०तत् केनचिद् अन्यथा कर्तुं शक्यम् नित्यत्वहानिप्रसङ्गात् । यदुक्तम्
"तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता। नित्यत्वादचिकित्स्यस्य कस्तां क्षपयितुं क्षमः ?” ॥ [
] इति । अत एव अस्य व्यक्तिषु वृत्तिरपि अनुपपन्ना । तथाहि-वृतिरस्य भवन्ती स्थितिलक्षणा वा भवेत्,
१-प्रसृते-बृ० आ० हा०वि०।। २ “इच्छारचितरूपेषु नष्टाजातेषु वा ततः । अनैकान्तिकता हेतोः सर्वैरेभिर्यथोदितैः"॥
-तत्त्वसं० का० ७४९ पृ. २४६ । ३ महाव्युत्पत्तिनामके बौद्धग्रन्थे चक्रवर्तिनां षष्टिर्नामानि परिगणितानि विद्यन्ते, तेषु 'महासंमत' इत्याचं नाम वर्तते-पृ. ५२ अं० १८० ।
४-चक्रप्र-बृ. आ. हा. वि.। "इच्छारचितरूपेषु चन्द्रापीडादिषु नभस्तलोपकल्पितधवलगृहादिषु नष्टाजातेषु च महासम्मत-शङ्खप्रभृतिषु"-तत्त्वसं० पजि. पृ. २४६ पं० २१। ५प्र० पृ. पं० ७॥
न हि समर्थमसमर्थ वा तस्य तत्स्वविषयज्ञानोत्पादरूपं तत् केनचिदन्यथा कर्तुं शक्यं नित्यत्व-आ० हा०वि० । अस्मिन् पाठान्तरे 'खविषयज्ञानोत्पाद' इत्यंशोऽधिको भाति स च यदि 'तत्' इत्यस्य टिप्प. णात्मकलेन अन्तःप्रविष्टो न स्यात् तर्हि पाठान्तरलेन समर्थनीयः । वस्तुतः 'तद्रूपम्' इत्यस्य स्थाने 'यद्रूपम्' इति सम्यग् भाति परामर्शकस्य 'तत्'-पदस्याग्रे सत्त्वेन तत्संबन्धितया 'यत्' पदस्यैवापेक्षणात् । अत्रार्थे संवादो यथा"तस्य योग्यमयोग्यं वा रूपं यत् प्रकृतिस्थितम् । तद् ध्रौव्यादप्रकम्प्यं हि को नाम चलयिष्यति ॥
-तत्त्वसं० का० ७९५ पृ० २५६ । अस्याः कारिकायाः पन्जिका तु इत्थं वर्तते-"न हि तस्य तद्रूपं समर्थमसमर्थ वा तत् क्वचिद् अन्यथाकर्तुमीशते नित्यबहानिप्रसङ्गात्"-तत्त्वसं० पजि. पृ० २५७ पं०४।
७ पृ० ४८२ पं० २२ टि०६। ८"अपि चानेकवृत्तिवं सामान्यस्य यदुच्यते । तत्र केयं मता वृत्तिः स्थितिः किं व्यक्तिरेव वा ॥
खरूपाप्रच्युतिस्तावत् स्थितिरस्य खभावतः । नाधारस्तस्कृतौ शक्तो येन स्थापकता भवेत् ॥ गमनप्रतिबन्धोऽपि न तस्य बदरादिवत् । विद्यते निष्क्रियखेन नाधारोऽतः प्रकल्प्यते ॥ स्थितिस्तत्समवायश्चेन तथैव विचार्यते । सोऽभीष्टोऽयुतसिद्धानामाश्रयाश्रयितात्मकः"॥
-तत्त्वसं० का० ७९८-८०१पृ० २५९ ।