________________
द्वितीये काण्डेच । यथा प्रथमतीर्थकृत एव चतुर्दशभक्तनिषेधेनाष्टापदनगे दशसहस्रकेवलिसहितस्य निर्वाणगतिप्रतिपादकानि सूत्राणि । यदपि 'अतिशयदर्शनान्निरवशेषदोषावरणहानेः' इत्याद्याशङ्कय विकल्पद्वैयमुत्थाप्य परिहृतम् तत्रापि नास्माभिः सर्वज्ञत्वादेरभावः साध्यते येन धर्मिणोऽभावात् प्रकृतसाध्यसिद्धिर्न भवेत् किन्तु यद्यतिशयदर्शनान्नैर्मल्यप्रतिपत्तिवद् आत्यन्तिकी शरीरस्थितिस्तस्य ५साध्येत तदा मुक्तेरभावः प्रसज्यते एवेति प्रसङ्गसाधनं भवदभिप्रेतव्याप्तिबलात् क्रियत इति न प्रामुक्तदोषावकाशः । द्वितीयपक्षेऽपि 'न केवलिभुक्तिः सिध्यति नाप्यनाहारौदारिकशरीरस्य चिरतरकालस्थायित्वं विरुध्यते' इति यद्दूषणमुक्तंम् तदनुक्तोपालम्भरूपम् न ह्येवं केवलिभुत्यादिकमस्माभिः साध्यते किन्तु प्रदर्शितप्रमाणात् सर्वज्ञप्रणीतागमाच्च । 'न च यदतिशय॑वत्' इत्याद्यप्य
सङ्गतम् संवत्सरमात्रशरीरस्थितिसिद्धावपि केवलिनामतोऽतिशयात् प्रभूततरकालस्थित्यसिद्धेः। १० न च तावत्कालप्रकृताहारविरहप्रतिपादकमपि केवलिनां सूत्रमुपलभ्यते । यच्चं 'संयोगस्यावस्थान
मात्यन्तिकं न भवति' इत्यादि तत् सिद्धमेव साधितम् । यच्च 'सुनिश्चितासंभवद्वाधकप्रमाणत्वं प्रकृताहारविरहेऽपि चिरतरमौदारिकशरीरस्थितेः प्रतिपादकस्य सूत्रस्यास्त्येव' इत्युक्तम् तदपि प्रकृताहारविरहे केवलिप्रकृतशरीरस्थितेः प्रतिपादकस्य सूत्रस्यैवाभावादयुक्तम् । यदपि 'आहारविरहातिशयप्रतिपादकं सूत्रं प्रथमतीर्थकृदादेः' तदपि तच्छद्मस्थावस्थायां न पुनः केवल्यवस्थायाम् १५असंभवद्वाधकप्रमाणत्वं चासिद्धमनुमानस्य तदाहारप्रतिपादकस्य बाधकस्य प्रदर्शितत्वात् सूत्रसमूहस्य च व्याख्याप्रज्ञप्त्याद्यङ्गेषु तद्वाधकस्योपलम्भात् ।
किञ्च, सुनिश्चितासंभवद्बाधकप्रमाणत्वं न प्रमाणलक्षणं तस्य ज्ञातुमशक्यत्वात् । तथाहि-बाधकप्रमाणाभावो यद्यन्यतः प्रमाणादवसीयते तर्हि तत्रापि बाधकप्रमाणाभावनिश्चयात् प्रामाण्यनिश्चयस्तदभावनिश्चयश्चान्यतोऽबाधितप्रमाणादित्यनवस्थाप्रसक्तिः। अथ बाधानुपलम्भाद् बाधकामाव२० निश्चयः, न; उत्पत्स्यमानबाधकेऽपि बाधकोत्पत्तेः प्राग बाधानुपलब्धिसंभान्न बाधकानुपलम्भाद् बाधाभावनिश्चयः । न चानिश्चितलक्षणं प्रमाण प्रमेयव्यवस्थानिबन्धनम् अतिप्रसङ्गात्। अथ संवादादसंभवद्वाधकप्रमाणत्वनिश्चयस्तर्हि संवादित्वमेव प्रमाणलक्षणमभ्युपगमार्ह किमबाधितत्वलक्षणप्रतिज्ञानेन तच्च संवादित्वमतीन्द्रियार्थविषयस्यागमस्याप्तप्रणीतत्वान्निश्चीयते तत्प्रणीतत्वनिश्चयश्चागमैकवाक्यतया व्यवस्थितस्य केवलिभुक्तिप्रतिपादकसूत्रसमूहस्य सिद्ध एवेति भवत्यागमादपि केवलिभु
१-दनादिसूत्राणि ल० भां० मां० विना। २ तचेत्थम्
"ते णं काले णं ते णं समए णं उसमे अरहा कोसलिए वीस पुव्वसयसहस्साई कुमारवासमझे वसित्ता णं तेवढेि पुष्वसयसहस्साई रजवासमझे वसित्ता णं तेसीई पुव्वसयसहस्साई अगारवासमझे वसित्ता णं एगं वाससहस्सं छउमत्थपरिआयं पाउणित्ता एगं पुव्वसयसहस्सं वाससहस्सूणं केवलिपरिआय पाउणित्ता पडिपुण्णं पुव्वसयसहस्सं सामण्णपरियागं पाउणित्ता चउरासीई पुवसयसहस्साई सव्वाउयं पालइत्ता खीणे वेयणिजाउयनामगुत्ते इमीसे ओसप्पिणीए सुसमदुसमाए समाए बहुविइकंताए तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं जे से हेमंताणं तचे मासे पञ्चमे पक्खे माहबहुले तस्स णं माहबहुलस्स तेरसीपक्खे णं उप्पिं अट्ठावयसेलसिहरंसि दसहिं अणगारसहस्सेहिं सद्धिं चोद्दसमेणं भत्तेणं अपाणएणं अभीइणा नक्खत्तेणं जोगमुवागएणं पुव्वण्हकालसमयंसि संपलियंकनिसणे कालगए विइकते जाव सव्वदुक्खप्पहीणे"मू० कल्पसू० सू० २२७ पृ. ४९ द्वि०। ।
३ पृ०६११ पं० ११। ४ पृ. ६११५० १४-१६। ५-त इति ल. वा. बा. भां० मा. विना । ६ पृ. ६११५० १३। पृ. ६११ पं० १६। ८पृ०६११५० १७। ९पृ. ६११ पं० १९। १० पृ० ६११ पं० २१। ११ पृ. ६११ पं०९। १२ पृ. ६१३ पं० ३४ तथा टि. १५।।
१३ भगवतीतिनाम्ना प्रसिद्ध व्याख्याप्रज्ञप्तिसूत्रे द्वितीयशतकीयप्रथमोद्देशके स्कन्दकतापसाधिकारे सर्वज्ञस्य भगवतो महावीरस्य शरीरं वर्णयता सूत्रकारेण तस्य नित्यभोजिलमपि 'वियडभोती' इति विशेषणेन सूचितम् । तच्चेत्थम्
"तेणं कालेणं तेणं समयेणं समणे भगवं महावीरे वियडभोती या वि होत्था । तए णं समणस्स भगवओ महावीरस्स वियभोगियस्स सरीर ओरालं सिंगार कल्लाणं सिवं धनं मंगलं सस्सिरीयं अणलंकियविभूसियं xxx सिरीए अतीव अतीव उवसोभमाणे चिट्ठई"-पृ० ११७ प्र० तथा पृ० ६१३ टि. १५। १४ “यावद् भाविन्या बाधाया अभावः”-बृ. ल. टि.। १५ “अनिश्चित एव बाधकामावो मानलक्षणं भविष्यतीत्याहन चेति"-बृ. ल.टि.।