________________
ज्ञानमीमांसा
६१५
तिसिद्धिः। तेन 'सूत्रभेदप्रक्लप्तिः कवलाहारपरिकल्पनायां केवलिनः' इति दोषाभावः यथोक्तन्यायात् तत्सिद्धः। यदपि केवली प्रकृतमाहारमश्नन्' इत्यादिपक्षत्रयमुत्थाप्य तत्र दोषाभिधानम् तदप्यसंगतम् यतःप्रथमपक्षे वुभुक्षयाऽश्नतो दुःखिताप्रसक्तिर्दोष उद्भावितः स चादोष एव असातानुभवस्य वेदनीयकर्मप्रभवस्यायोग्यवस्थाचरमक्षणं यावत् संभवात् तत्कारणस्यासातवेदनीयकर्मोदयस्याप्रतिबद्धत्वात् अविकलकारणस्य च कार्यस्योत्पत्त्यप्रतिषेधात् अन्यथा तस्य तन्कारणत्वायोगात्, न च दग्धरज्जुसं.५ स्थानीयत्वात् तस्य स्वकार्याजनकत्वम् तत एव सातवेदनीयस्यापि स्वकार्याजनकत्वप्रसक्तः सुखानुभवस्यापि भगवत्यभावप्रसङ्गात् । यथा च दग्धरज्जुसंस्थानीयायुष्ककर्मोदयकार्य प्राणादिधारणं भगवति तथा प्रकृतमप्यभ्युपगम्यतां विशेषाभावात् । न च वुभुक्षाया दुःखरूपत्वाद् भगवत्यसंभवः प्रतिपादयितुं शक्यः "एकादश जिने" [ तत्त्वार्थ० अ० ९, सू० ११] इति सूत्रात् क्षुदादिपरिपहैकादशकस्य केवलिनि सिद्धेः । यदपि 'अनन्तवीर्यत्वं प्रकृताहारमन्तरेणापि शरीरस्थितिकारणमभिधीयते' तदपि १० छद्मस्थावस्थायां भगवत्यपरिमितबलश्रवणात् समस्त्येव न च प्रकृताहारमन्तरेण तत् तस्यामवस्थायां शरीरस्थितिकारणम् अन्यथा कर्मक्षयार्थमनशनादितपस्युद्यमवतः प्राणवृत्तिप्रय॑यं तस्यामवस्थायामशनाद्यभ्यवहरणमसङ्गतं स्यात् । न च प्राक् क्षायोपशमिकं तस्य वीर्य कैवल्यावस्थायां तु क्षायिकं तदिति विशिष्टाहारमन्तरेणापि शरीरस्थितिनिबन्धनम् तत्सद्भावेऽपि शरीरस्थितिनिमित्तशयनोपवेशादिवत् प्रकृताहारस्याप्यविरोधात् । न चोपवेशादिकमपि शरीरस्थित्यर्थ तत्रासिद्धम् समुद्धाता-१५ वस्थानन्तरकालं पीठफलकादिप्रत्यर्पणश्रुतेस्तद्ब्रहणमन्तरेण तत्प्रत्यर्पणस्यासंभवात् तद्हणस्य च यथोक्तप्रयोजनमन्तरेणाभावात् अन्यथाऽप्रेक्षापूर्वकारितापत्तेः । यदपि 'बुभुक्षया देहं तिष्ठापयिपोः क्लेशवत्त्वे न कश्चिद् विशेषः' तदप्यसारम् क्लेशस्य भगवत्यद्याप्यामुक्तिगमनात् सर्वथा अनिवृत्तेः । तत्स्वभावपरिकल्पनया दोषप्रसञ्जनमभ्युपगमादेव निरस्तम् । तदेवं बाधकप्रमाणाभावात् साधकस्य च सद्भावात् सिद्धा केवलिभुक्तिरित्यलं प्रसक्तानुप्रसक्त्या।॥ १५ ॥
२०
[मत्यादिज्ञानचतुष्करूपे दृष्टान्ते यत्र यत्रोपयोगे विषयभेदस्तत्र तत्रासर्वार्थत्वमिति
व्याप्तेर्भावनम् ] क्रमेण युगपद्वा परस्परनिरपेक्षस्वविषयपर्यवसितज्ञानदर्शनोपयोगी केवलिन्यसर्वार्थत्वान्मत्यादि शानचतुष्टयवन्न स्त इति दृष्टान्तभावनायाह
पण्णवणिजा भावा समत्तसुयणाणदंसणाविसओ।
ओहिमणपजवाण उ अण्णोण्णविलक्खणा विसओ ॥१६॥ मतिश्रुतयोरसर्वपर्यायसर्वद्रव्यविषयतयाऽभिन्नार्थत्वे श्रुतस्यासर्वार्थग्रहणात्मकन्वभावनया मतिरपि तथा भावितैवेति श्रुतज्ञानस्यैव गाथायामसर्वार्थत्वभावना प्रदर्शिता । प्रज्ञापनीयाः शब्दाभिलाप्या भावा द्रव्यादयः समस्तश्रुतज्ञानस्य द्वादशाङ्गवाक्यात्मकस्य दर्शनाया दर्शनप्रयोजिकायास्तद्वाक्योपजाताया बुद्धेविषय आलम्बनम् मतेरपि त एव शब्दानभिधेया विषयः शब्दपरि-३० कर्मणांनपेक्षस्य शानस्य यथोक्तभावविषयस्य मतित्वात् । अवधिमनःपर्याययोः पुनरन्योन्यविलक्षणा भावा विषयः अवधेः पुद्गलाः मनःपर्यायज्ञानस्य मन्यमानानि द्रव्यमनांसि विषयः इति असर्वार्थान्येतानि मत्यादिज्ञानानि परस्परविलक्षणविषयाणि च अत एव भिन्नोपयोगरूपाणि ॥ १६ ॥
१पृ.६११५०१०। २ पृ. ६११५०२७-३९। ३“कार्यस्य"-वृ० ल.टि.। ४ "असातावेदनीयस्य"-बृ० ल. टि.। ५ पृ. ६११ पं०३१। ६"प्राणवृत्ती प्रत्ययं कारणभूतम्"-बृ० ल. टि० । ७“छद्मस्थावस्थायाम्"-बृ० ल.टि.। ८ पृ. ६११ पं०३२। ९पृ. ६११५० ३३। १०-णानापेआ० हा.वि.