________________
६१६
द्वितीये काण्डे[मत्यादिवैधर्येण कैवलोपयोगस्य असर्वार्थत्वाभावेन विषयभेदाभावादक्रमोपयोगद्वया
मकैकरूपत्वसाधनम् ] एवमसकलार्थत्वं भिन्नोपयोगपक्षे दृष्टान्तसमर्थनद्वारेण प्रदोपसंहारद्वारेणाक्रमोपयोगद्वयात्मकमेकं केवलमन्यथा सकलार्थता तस्यानुपपन्नेति दर्शयितुमाह
तम्हा चउविभागो जुज्जइ ण उ णाणदंसणजिणाणं ।
सयलमणावरणमणंतमक्खयं केवलं जम्हा ॥ १७॥ यस्मात् केवलं सकलं सकलविषयं तस्मान्न तु नैव ज्ञानदर्शनप्रधानानां निर्मूलिताशेषघातिकर्मणां जिनानां छद्मस्थावस्थोपलब्धतत्तदावरणक्षयोपशमकारणभेदप्रभवमत्यादिचतुर्मानेविव ज्ञानदर्शनयोः पृथक् क्रमाक्रमविभागो युज्यते । कुतः पुनः सकलविषयत्वं भगवति केव१० लस्यानावरणत्वात् न ह्यनावृतमसकलविषयं भवति । न च प्रदीपादिना व्यभिचारोऽनन्तत्वात्
अनन्तत्वं च द्रव्यपर्यायात्मकानन्तार्थग्रहणप्रवृत्तोत्पादव्ययध्रौव्यात्मकोपयोगवृत्तत्वेनाक्षयत्वात् । यथा च सकलपदार्थविषयं सर्वज्ञज्ञान तथा प्राक् प्रदर्शितम् । ततोऽक्रमोपयोगद्वयात्मकमेकमिति स्थितम् न चाक्रमोपयोगद्वयात्मकत्वे कथं तस्य केवलव्यपदेश इति क्रमाक्रमभिन्नोपयोगवादिना
प्रेर्यम् इन्द्रियालोकमनोव्यापारनिरपेक्षनिरावरणात्मसत्तामात्रनिबन्धनतथाविधार्थविषयप्रतिभासस्य १५ तथाविधव्यपदेशविषयत्वात् । अद्वैतैकान्तात्मकं तु तेन्न भवति सामान्यविशेषोभयानुभयविकल्पचतुष्टयेऽपि दोषानतिक्रमात् । तथाहि-न तावत् सामान्यरूपतया तदद्वयं सामान्यस्य विशेषनिबन्धनत्वात् तदभावे तस्याप्यभावात् नापि विशेषमात्रत्वात् तदद्वयम् अवयवावयविविकल्पद्वयानतिक्रमात् न तावत् तदवयवरूपम् अवयव्यभावे तदपेक्षावयवरूपताऽसंभवात् । न चावयविरूपम् अवयवाभावे तद्रूपस्यासंभवात् न च तद्वयातिरिक्तविशेषरूपम् असदविशेषप्रसङ्गात् न चैकान्तव्यावृत्तोभयरूपम् २० उभयदोषानतिक्रमात् । न चानुभयस्वभावम् असत्त्वप्रसक्तेः । न च ग्राह्यग्राहकविनिर्मुक्ताऽद्वर्यस्वरूपम् तथाभूतस्यात्मनः कदाचिदप्यननुभवात् सुषुप्तावस्थायामपि न ग्राह्यग्राहकवरूपविकलमद्वयं ज्ञानमनुभूयते ॥ १७॥ [अभिन्नोपयोगवादिना स्वपक्षे समापतत आगमविरोधस्यार्थगत्या व्याख्यान्तरमाश्रित्य
परिहरणम् ] २५ ज्ञानदर्शनोपयोगद्वयात्मकैककेवलोपयोगवादी स्वपक्षे आगमविरोधं परिहरन्नाह
परवत्तव्वयपक्खाअविसिट्ठा तेसु तेसु सुत्तेसु ।
अत्थगईअ उ तेसिं वियंजणं जाणओ कुणइ ॥१८॥ परैवैशेषिकादिभिर्यानि वक्तव्यानि प्रतिपाद्यानि तेषां पक्षा अभ्युपगमाः “युगपद् शानानुत्पत्तिः” [ ] "नागृहीतविशेषणा विशेष्ये बुद्धिः" [ ] इत्यादयः तैरविशिष्टा अभिन्ना ३० भगवन्मुखाम्भोजनिर्गतेषु तेषु तेषु सूत्रेषु “जं समयं पासइ णो तं समयं जाणइ” [ ] इत्यादिषु अभ्युपगमाः प्रतिभासन्ते । न च ते तथैव व्याख्येयाः प्रमाणबाधनात् । तस्मात् अर्थगत्यैव सामर्थ्येनैव तेषां व्यक्तिं सकलवस्तुव्याप्यनेकान्तात्मकैककेवलावबोधप्रभवद्वादशाजैकश्रुतस्कन्धाविरोधेन व्यायां ज्ञको शाता करोति । श्रुतावधिमनःपर्यायकेवली त्रिविधो "जं समयं पासह नो तं समयं जाण"।[
] न त्वेवं केवलकेवली तस्यासर्वक्षता३५प्राप्तेरिति सूरेरभिप्रायः॥१८॥
१-दश्योपसंहारिणामो-वा० बा० ।-दश्योपयोगद्वारेणाक्रमो-बृ• आ० हा० वि० । २ तन्त्र सा-आ. हा• वि० । ३-पक्रममा-भा. मां०। ४-यरू-आ. हा० वि०। ५-लख-वा. बा०। ६-वलं के-आ• वि.।