________________
ज्ञानमीमांसा |
[ अक्रमोपयोगद्वयात्मकमेकं चेत् केवलं किमिति मनःपर्यायवदागमे तस्य ज्ञानमात्रतया न कथनम् किमिति च ज्ञान-दर्शनरूपतया द्वैविध्येन वर्णनमिति चोद्ये मर्मोद्घाटनम् ] यद्यक्रमोपयोगद्वयात्मकमेकं केवलं किमिति मनःपर्यायज्ञानवत् तद् ज्ञानत्वेनैव न निर्दिष्टम् ? तस्मात् "केवलनाणे केवलदंसणे" ] इति भेदेन सूत्रनिर्देशात् क्रमेण युगपद्वा भिन्नमुपयोगद्वयं केवलावबोधरूपमित्याशङ्कयाह
५
जेण मणोविसयगयाण दंसणं णत्थि दव्वजायाण । तो मणपज्जवणाणं णियमा णाणं तु णिद्दिहं ॥ १९ ॥
यतो मन:पर्ययज्ञानविषयगतानां परमनोद्रव्यविशेषाणां विशेषरूपतया बाह्यस्य चिन्त्य - मानस्य घटादेर्लिङ्गिनो गमकतोपपत्तेः दर्शनं सामान्यरूपं नास्ति द्रव्यरूपाणां चिन्त्यमानालम्बनपरमनोद्रव्यगतानां चिन्त्याविशेषाणां विशेषरूपतया वाह्यार्थगमकत्वात् तद्राहि मनःपर्याय- १० ज्ञानं विशेषाकारत्वाद् ज्ञानमेव ग्राह्यदर्शनाभावाद् ग्राहकेऽपि तदभावः ततो मनःपर्यायाख्यो बोधो नियमाद् ज्ञानमेवागमे निर्दिष्टो न तु दर्शनम् । केवलं तु सामान्यविशेषोपयोगैकरूपत्वात् केवलं ज्ञानं केवलं दर्शनं चेत्यागमे निर्दिष्टम् ॥ १९ ॥
६१७
[ एकत्वेऽपि केवलस्य ज्ञान-दर्शनोभयरूपतया शास्त्रे पाठात् तस्य कथंचिदनेकरूपत्वाभ्युपगमनम् ] तथा पुनरप्येक रूपानुविद्धामनेकरूपतां दर्शयन्नाह -
१५
चक्खु अचक्खुअवाहिकेवलाण समयम्मि दंसणविअप्पा । परिपढिया केवलणाणदंसणा तेण ते अण्णा ॥ २० ॥ चक्षुरचक्षुरवधिकेवलानां स्वसमये दर्शनविकल्पा भेदाः परिपठितास्तेन दर्शनमध्ये पाठाद् दर्शनमपि केवलम् ज्ञानमध्ये पाठाद् ज्ञानमपि अतो भिन्ने एव केवलज्ञानदर्शने न चात्यन्तं तयोर्भेद एव केवलान्तर्भूतत्वेन तयोरभेदात् न चैवमभेदाद्वैतमेव सूत्रयुक्तिविरोधात् २० तत्परिच्छेदकस्वभावतया कथंचिदेकत्वेऽपि तथा तद्व्यपदेशात् ॥ २० ॥
[ एकदेशिना मत्युपयोगं दृष्टान्तीकृत्य एकस्यापि केवलोपयोगस्य द्विरूपत्वसमर्थनम् ] एतदेव दृष्टान्तद्वारेणाह -
दंसणमोग्गहमेत्तं 'घडो' ति णिव्वण्णणा हवइ णाणं । जह एत्थ केवलाण वि विसेसणं एत्तियं चैव ॥ २१ ॥
अवग्रहमात्रं मतिरूपे बोधे दर्शनम् 'इदम्' 'तत्' इत्यव्यपदेश्यम् 'घट:' इति निश्चयेन वर्णना निश्चयात्मिका मंतिज्ञानं यथेह तथेहापीति दान्तिकं योजयति जह एत्थ इत्यादिना केवलयोरप्येतन्मात्रेणैव विशेषः एकान्तभेदाभेदपक्षे तत्स्वभावयोः पूर्वोक्तदोषप्रसङ्गाद् अजहृद्वृत्त्यैकरूपयोरेवाभिनिबोधिकरूपयोस्तत्तद्रूपतया तथाव्यपदेशसमासादनात् कथंचिदेकानेकात्मकत्वोपपत्तेर्भेदैकान्ते तयोरप्यभावापत्तेः ॥ २१ ॥
२५
३०
१ चिन्त्यतावि - भ० मां० । चितितावि - वा० बा० । चित्यावि - हा० वि० । २ मतिर्ज्ञा-आ० । “घट इति निश्चयेन वर्णना तदाकाराभिलाप इति यावत् । कारणे कार्योपचाराच्च घटाकाराभिलापजनकं घटे मतिज्ञानमित्यर्थः यथाऽत्रैवं तथा केवलयोरप्येतावन्मात्रेण विशेषः " - ज्ञानबिं० पृ० १६० द्वि० पं० १३ । ३ प्र० पृ० पं० २० ॥
७९ स० त०