________________
६१८
द्वितीये काण्डे -
[ पुनरप्येकदेशिना क्रमिकभेदं दूषयितुं शास्त्रीययुक्त्या ज्ञान-दर्शनयोः कथंचिदन्यत्वव्यवस्थापनम् ]
इतश्च कथञ्चिद् भेदः -
दर्शनपूर्वं ज्ञानम्, ज्ञाननिमित्तं तु दर्शनं नास्तीत्युक्तं यतः सामान्यमुपलभ्य पञ्चाद् विशेषमुपलभते न विपर्ययेणेत्येवं छद्मस्थावस्थायां हेतुहेतुमद्भावक्रमः । तेनाप्यवगच्छामः कथञ्चित् तयोर्भेद् इति । अयं च क्षयोपशमनिबन्धनः क्रमः केवलिनि च तद्भावादक्रम इत्युक्तम् ॥२२॥
दंसणपुव्वं णाणं णाणणिमित्तं तु दंसणं णत्थि । तेण सुविणिच्छियामो दंसणणाणाण अण्णत्तं ॥ २२ ॥
१०
[ एकदेशीये अवग्रहमात्रमतिज्ञानस्य दर्शनत्वाभ्युपगमे समापततो दोषस्याभिधानं तत्समर्थनं च ] यदुक्तम् 'अवग्रहमात्रं मतिज्ञानं दर्शनम्' इत्यादि तदयुक्तम् अतिव्याप्तेरित्याहजइ ओग्गहमेत्तं दंसणं ति मण्णसि विसेसिअं णाणं । मइणाणमेव दंसणमेवं सइ होइ निष्फण्णं ॥ २३ ॥ एवं सेसिंदियदंसणम्मि नियमेण होइ ण य जुत्तं । अह तत्थ णाणमेत्तं घेप्पइ चक्खुम्मि वि तहेव ॥ २४ ॥
२५
१५
यदि मत्यवबोधे अवग्रहमात्रं दर्शनं विशेषितं ज्ञानमिति मन्यसे मतिज्ञानमेव दर्शनमित्येवं सति प्राप्तम् न चैतद् युक्तम् । “स द्विविधोऽष्टचतुर्भेदः” [ तत्त्वार्थ० अ० २०९ ] इति सूत्रविरोधात् ॥ २३ ॥
एवं शेषेन्द्रियदर्शनेष्वप्यवग्रह एव दर्शनमित्यभ्युपगमेन मतिज्ञानमेव तदिति । न च तद् युक्तं पूर्वोक्तदोषानतिवृत्तेः । अथ तेषु श्रोत्रादिष्विन्द्रियेषु दर्शनमपि भवत् तद् ज्ञानमेव, २० मात्रशब्दस्य दर्शनव्यवच्छेदकत्वात् । अत एव तत्र 'श्रोत्रज्ञानम्' इत्यादिव्यपदेश उपलभ्यते 'श्रोत्रदर्शनम्' ' घ्राणदर्शनम्' इत्यादिव्यपदेशस्तु नागमे क्वचित् प्रसिद्धस्तर्हि चक्षुष्यपि तथैव गृह्यतां 'चक्षुर्ज्ञानम्' इति न तु 'चक्षुर्दर्शनम्' इति । अथ तत्र दर्शनम् इतरत्रापि तथैव गृह्यताम् । ज्ञानदर्शनयोरुपलम्भरूपत्वे अविशेषप्रसङ्गस्तयोरिति चेत् एवैमेतद्रूपतया स्वभावभेदात् तु भेद इति ॥२४॥
[ज्ञान एव चक्षुरचक्षुर्दर्शनप्रवादसमर्थनाय दर्शनपदस्य अर्थाभिधानम् ]
नन्ववग्रहस्य मतिभेदत्वाद् मतेश्च ज्ञानरूपत्वाद् अवग्रहरूपस्य दर्शनस्याभाव एव भवेत्
उच्यते
णा अपुट्ठे अविसए य अत्थम्मि दंसणं होइ ।
मोत्तूण लिंगओ जं अणागयाईयविसएस ॥ २५ ॥
अस्प (स्पृष्टेऽर्थरूपे चक्षुषा य उदेति प्रत्ययः स चक्षुर्दर्शनं ज्ञानमेव सत् इन्द्रियाणाम३० विषये च परमाण्वादौ अर्थे मनसा ज्ञानमेव सद् अचक्षुर्दर्शनम्, मुक्त्वा मेघोन्नतिरूपा
१ ० ६१२ पं० ३ । २ पृ० ६१७० २१ पं० २६ । ५- वमेतत्तरूप - वा० वा० । ६ "अस्पृष्टेऽर्थे " -- ज्ञानबिं० पृ० १६१
३ - णमित्तं वृ० । द्वि० पं० १३ ।
४ प्र० प्र० पं० १५ ।