________________
ज्ञानमीमांसा |
६१९
लिङ्गाद् भविष्यदृष्टौ नदीपूराद् वोपर्यतीतवृष्टौ वा लिङ्गिविषयं यद् ज्ञानं तस्यारूप (स्पू) ष्टाविपयार्थस्याप्यदर्शनत्वात् ॥ २५ ॥
[ अस्पृष्टाविषयावगाहित्वेऽपि न मनःपर्यायबोधस्य दर्शनत्वप्रसङ्ग इति सयुक्तिकं प्रतिपादनम् ] यद्यस्पृष्टाऽविषयार्थज्ञानं दर्शनमभिधीयते ततः
मणपज्जवणाणं दंसणं ति तेणेह होइ ण य जुत्तं ।
भण्णइ णाणं णोइंदियम्मि ण घडादओ जम्हा ॥ २६ ॥
एतेन लक्षणेन मनःपर्यायज्ञानमपि दर्शनं प्राप्तं परकीयमनोगतानां घटादीनामालम्व्यानां तत्रासत्त्वेनास्पृष्टेऽविषये च घटादावर्थे तस्य भावात् न चैतद् युक्तम् आगमे तस्य दर्शनत्वेनापाठात्। भण्यते अत्रोत्तरम (म्) णो इंद्रियम्मि मनोवर्गणाख्ये मनोविशेषे प्रवर्तमानं मनःपर्यायबोधरूपं ज्ञानमेव न दर्शनं यस्मादस्पृश घटादयो नास्य विषयो लिङ्गानुमेयत्वात् तेषाम् । १० तथा चागमः " जाणइ वज्झेऽणुमाणओ" [ विशेषा० भा० गा० ८१४ ] । ननु च परकीयमनोगतार्थाकारविकल्पस्योभयरूपत्वात् किमिति तद्राहिणो मनः पर्यायाववोधस्य न दर्शनरूपता ? न, मनोविकल्पस्य बाह्यार्थचिन्तनरूपस्य विकल्पात्मकत्वेन ज्ञानरूपत्वात् तद्राहिणो मनःपर्यायज्ञानस्यापि तद्रूपतैव घटादेस्तु तत्र परोक्षतैवेति दर्शनस्याभाव एव मनोविकल्पाकारस्योभयरूपत्वेऽपि छानस्थिकोपयोगस्य परिपूर्णवस्तुग्राहकत्वासंभवाञ्च न मनःपर्यायज्ञाने दर्शनोपयोगसंभवः ॥ २६ ॥
१५
[ अस्पृष्टाविपयावगाहिज्ञानमेव दर्शनम् न ततः पृथगिति प्रतिपादनम् ]
किञ्च,
महसुयणाणणिमित्तो छउमत्थे होइ अत्थउवलंभो । एयरम्मि वि तेसिं ण दंसणं दंसणं कत्तो ? ॥ २७ ॥ मतिश्रुतज्ञाननिमित्तश्छद्मस्थानामर्थोपलम्भ उक्त आगमे । तयोरेकतरस्मिन्नपि २० न दर्शनं संभवति न तावदवग्रहो दर्शनं तस्य ज्ञानात्मकत्वात् ततः कुतो दर्शनम् ? नास्तीत्यर्थः । अस्पृष्टेऽविषये चार्थे ज्ञानमेव दर्शनं नान्यदिति प्रसक्तम् ॥ २७ ॥
[ अस्पृष्टार्थावगाहित्वेऽपि श्रुतज्ञानस्य दर्शनत्वाभावप्रतिपादनम् ] ननु श्रुतमस्पृष्ठे विषये किमिति दर्शनं न भवेत् ? इत्याह
जं पञ्चवग्गणं ण इन्ति सुग्रणाणसम्मिया अत्था । तम्हा दंसणसद्दो ण होइ सयले वि सुयणाणे ॥ २८ ॥ यस्मात् श्रुतज्ञानप्रमिताः पदार्था उपयुक्ताध्ययनविपयास्तथाभूतार्थवाचकस्यात् श्रुतशब्दस्य प्रत्यक्षं न गृह्यन्ते अतो न श्रुतं चक्षुर्दर्शनसंज्ञम् मानसमचक्षुर्दर्शनं श्रुतं भविष्यतीत्येतदपि नास्ति अवग्रहस्य मतित्वेन पूर्वमेव दर्शनतया निरस्तत्वात् ॥ २८ ॥
१ " तस्यास्पृष्टाविषयार्थस्यापि दर्शनत्वेनाव्यवहारात् " - ज्ञानबिं० पृ० १६२ प्र० पं० ३ । २-त्तरं मनो-भां० मां० । ३ - इंद्रियम्मि भ० मां० विना ।
४ " दव्वमणोपजाए जाणइ पासइ य तग्गएऽणंते । तेणावभासिए उण जाणइ बज्झेऽणुमाणेणं" ॥— विशेषा० भा० पृ० ८१४ द्वि० । ५- गस्यो परिपू - हा० बि० । ६ न चाव-बृ० आ० हा ० वि० । ७-दार्थ उ-भां० मां० विना । ८ - थते अ-पृ० वा० वा० विना । ९० पृ० पं० २०
२५