________________
६२०
द्वितीये काण्डे[अवधिज्ञान एवं प्रवृत्तिनिमित्तवशेन दर्शनशब्दस्यापि लब्धावकाशत्वसमर्थनम् ] नन्वेवमवधिदर्शनस्याप्यभावः स्यादित्याह
जं अप्पुट्ठा भावा ओहिण्णाणस्स होंति पञ्चक्खा ।
तम्हा ओहिण्णाणे दंसणसदो वि उवउत्तो ॥२९॥ ५ यस्मादस्पृष्टा भावा अण्वादयोऽवधिज्ञानस्य प्रत्यक्षा भवन्ति चक्षुर्दर्शनस्येव रूप. सामान्यम् ततस्तत्रैव दर्शनशब्दोऽप्युपयुक्तः ॥ २९ ॥
[सिद्धान्तिना एकस्यैव केवलोपयोगस्य ज्ञानदर्शनोपयोगद्वयरूपत्वव्यावर्णनम् ] केवलावबोधस्तु शानदर्शनोपयोगद्वयात्मको शानमेव सन् दर्शनमप्युच्यत इत्याह
जं अप्पुढे भावे जाणइ पासइ य केवली णियमा ।
तम्हा तं गाणं दंसणं च अविसेसओ सिद्धं ॥ ३०॥ यतोऽस्पृष्टान् भावानियमेनावश्यंतया केवली चक्षुष्मानिव पुरःस्थितं चक्षुषा पश्यति जानाति चोभयप्राधान्येन । तस्मात् नत् केवलावयोधस्वरूपं ज्ञानमप्युच्यते दर्शनमप्यविशेषत उभयाभिधाननिमित्तस्याविशेषात् न पुननिमेव सदविशेषतोऽमेदतो दर्शनमिति सिद्धम् । यतो न ज्ञानमात्रमेव तत् नापि दर्शनमात्र केवलम् नाप्युभयाक्रमरूपं परस्पर१५ विविक्तम् नापि क्रमस्वभावम् अपि तु ज्ञानदर्शनात्मकमेकं प्रमाणमन्यथोक्तवत् तदभावप्रसङ्गात् ।
[सूर्यभिप्रायेण ज्ञानपश्चक-दर्शनचतुष्कयोः स्वरूपविभजनम् ] छद्मस्थावस्थायां तु प्रमाणप्रमेययोः सामान्यविशेषात्मकत्वेऽप्यनपगतावरणस्यात्मनो दर्शनोपयोगसमये ज्ञानोपयोगस्यासम्भवाद् अप्राप्यकारिनयन-मनःप्रभवार्थावग्रहादिमतिज्ञानोपयोगप्राक्तनी अवस्था अस्प(स्पृ)टावभासिग्राह्यग्राहकत्वपरिणत्यवस्था व्यवस्थितात्मप्रबोधरूपा चारचक्षुर्दर्शनव्यपदे२० शमासादयति । द्रव्यभावेन्द्रियालोकमतिज्ञानावरणकर्मक्षयोपशमादिसामग्रीप्रभवरूपादिविषयग्रह
णपरिणतिश्चात्मनोऽवग्रहादिरूपा मतिज्ञानशब्दवाच्यतामथते । श्रुतज्ञानावरणकर्मक्षयोपशमवाक्यश्रवणादिसामग्रीविशेषनिमित्तप्रादुर्भूतो वाक्यार्थग्रहणपरिणतिस्वभावो वाक्यश्रवणानिमित्तो वा आत्मनःश्रुतज्ञानमिति शब्दाभिधेयतामाप्नोति। रूपिद्रव्यग्रहणपरिणतिविशेषस्तु जीवस्य भवगुणप्रत्यया
वधिज्ञानावरणकर्मक्षयोपशमप्रादुर्भूतो लोचनादिवाह्यनिमित्तनिरपेक्षः अवधिज्ञानमिति व्यपदिश्यते २५ तज्ज्ञैः अवधिदर्शनावरणकर्मक्षयोपशमप्रादुर्भूतस्तु स एव तद्रव्यसामान्यपर्यालोचनस्वभावोऽवधिदर्शनत्यपदेशभाग भवति । अर्धतृतीयद्वीपसमुद्रान्तर्वतिसकलमनोविकल्पग्रहणपरिणतिर्मनःपर्यायज्ञानावरणकर्मक्षयोपशमादिविशिष्टसामग्रीसमुत्पादिता चक्षुरादिकरणनिरपेक्षस्यात्मनः मनःपर्यायज्ञानमिति वदन्ति विद्वांसः । छाद्मस्थिकोपयोगं चात्मा स्वप्रदेशावरणक्षयोपशमद्वारेण प्रतिपद्यते
१ प्रस्तुतगाथासंवादकमेकं पद्यं मलधारिहेमचन्द्रसूरिणा स्वकीयायां विशेषावश्यकभाष्यवृत्तौ स्तुतिकारकर्तृकलेन समुदृतं वर्तते । तद्यथा“यदपि केवलज्ञानं केवलदर्शनं च तस्योच्यते तत्रापि तयोर्न विशेष इत्यभिप्रायवता प्रोकं स्तुतिकारेण
एवं कल्पितभेदमप्रतिहतं सर्वज्ञतालाञ्छनं सर्वेषां तमसां निहन्तु जगतामालोकनं शाश्वतम् । नित्यं पश्यति बुध्यते च युगपद् नानाविधानि प्रभो ! स्थित्युत्पत्तिविनाशवन्ति विमलद्रव्याणि ते केवलम्" ॥
-पृ. ११९८५०१०। यद्यपि इदं पद्यं लभ्यासु एकविंशतो सिद्धसेनीयद्वात्रिंशिकासु न दृश्यते तथापि तत् सिद्धसेनप्रणीतमेवाऽवसीयते समन्तभद्रवत् तस्यैव स्तुतिकारलेन प्रसिद्धत्वात् तस्यैव अभिन्नकेवलज्ञानदर्शनोपयोगद्वयमतप्रस्थापकलेन विश्रुतलाच ।
२-मात्र के-भां० मां० हा०। ३-पाच्चक्षु-बृ• हा० वि०।
सबलाद तस्सव अभिजलेवलशानद