________________
ज्ञानमीमांसा ।
६२१ न त्वनन्तशेयज्ञानस्वभावस्थात्मन एतदेव खण्डशः प्रतिपत्तिलक्षणं पारमार्थिक रूपं सामान्यविशेषात्मकवस्तुविस्तरव्यापि युगपत्परिच्छेदस्वभावद्वयात्मकैककेवलावबोधतात्त्विकरूपत्वात् तस्य । तच्च तस्य खरूपं केवलज्ञानदर्शनावरणकर्मक्षयाविर्भूतं करणक्रमव्यवधानातिवर्तिसकललोकालोकविषयत्रिकालखभावपरिणामभेदानन्तपदार्थयुगपत्सामान्यविशेषसाक्षात्करणप्रवृत्तं केवलज्ञानं केवलदर्शनमिति च व्यपदिश्यते । तेन 'अवग्रहरूप आभिनिबोधो दर्शनम् स एव चेहादिरूपो विशेषग्राहको शानं ५ तद्व्यतिरिक्तस्यापरस्य ग्राहकस्याभावात् तस्यैवैकस्य तथाग्रहणात् तथाव्यपदेशादुत्फणविफणावस्थासर्पद्रव्यवत् ततस्तयोरवस्योरव्यतिरेकात् तस्य च तद्रूपत्वादेक एवाभिनिबोधो दर्शनं मतिज्ञानं चाभिधीयत इति सूत्रकृतोऽभिप्रायः' इति यत् कैश्चिद् व्याख्यातं तदसङ्गतं लक्ष्यते आगमविरोधात् युक्तिविरोधाच्च न ह्येकान्ततोऽभेदे पूर्वमवग्रहो दर्शनं पश्चाद् ईहादिकं ज्ञानं तयोश्च तत्रान्तर्भाव इति शक्यमभिधातुम् कथंचिद्भेदनिबन्धनत्वादस्य आत्मरूपतया तु तयोरभेदोऽभ्युपगम्यत एव ।१० न चैकस्यैव मतिज्ञानस्योभयमध्यपातादुभयव्यपदेशः अवग्रहस्य दर्शनत्वे 'अवग्रहादिधारणापर्यन्तं मतिज्ञानम्' इत्यस्य व्याहतेः तस्य वाऽदर्शनत्वे 'अवग्रहमानं दर्शनम्' इत्यस्य विरोधात् आगमविरोधश्च तद्व्यतिरेकेण दर्शनानभ्युपगमे तदभ्युपगमे वाऽष्टाविंशतिभेदमतिज्ञानव्यतिरिक्तदर्शनाभ्युपगमात् कुतो ज्ञानमेव दर्शनं छद्मस्थावस्थायाम् ? केवल्यवस्थायां तु क्षीणावरणस्याऽऽत्मनो नित्योपयुक्तत्वात् सदैव दर्शनावस्था वर्तमानपरिणतेर्वस्तुनोऽवगमरूपायाः प्राक् तथाभूतानवबोध-१५ रूपत्वासंभवात् तथाभूतज्ञानविकलावस्थासंभवे वा प्रागितरपुरुषाविशेषप्रसङ्गात् । ततो युगपज्ज्ञानदर्शनोपयोगद्वयात्मकैकोपयोगरूपः केवलावबोधोऽभ्युपगन्तव्य इति सूरेरभिप्रायः॥ ३०॥
[एक एव केवलोपयोगो यात्मक इति स्वसिद्धान्तः समयान्तरोत्पादवचनं तु परतीर्थि
कमतकथनमिति विभजनम् ] व्यात्मक एक एव केवलावबोध इति दर्शयन्नाह
साई अपज्जवसियं ति दो वि ते ससमयओ हवइ एवं ।
परतित्थियवत्तव्वं च एगसमयंतरुप्पाओ ॥ ३१॥ द्वे अपि ते शानदर्शने यदि युगपद् न नाना भवतस्तदा स्वसमयः स्वसिद्धान्तः ‘साद्यपर्यवसिते' इति घटते यस्त्वेकसमयान्तरोत्पादस्तयोः ‘यदा जानाति तदा न पश्यति' इत्येवमभिधीयते स परतीर्थिकशास्त्रं नार्हद्वचनम् नयाभिप्रायेण प्रवृत्तत्वादिति सूरेरभि-२५ प्रायः॥३१॥
[एवंभूततत्त्वश्रद्धानरूपस्य सम्यग्दर्शनस्य सम्यग्ज्ञानरूपत्वमेव इति वर्णनम् ] एवंभूतं वस्तुतत्त्वं श्रद्दधानः सम्यग्ज्ञानवानेव पुरुषः सम्यग्दृष्टिरित्याह
एवं जिणपण्णत्ते सद्दहमाणस्स भावओ भावे ।
पुरिसस्साभिणिबोहे दंसणसद्दो हवइ जुत्तो ॥ ३२॥ एवमनन्तरोक्तविधिना जिनप्रज्ञप्तान भावान् श्रद्दधानस्य पुरुषस्य यदाभिनिवोधिकं ज्ञानं तदेव सम्यग्दर्शनम् विशिष्टावबोधरूपाया रुचेः सम्यग्दर्शनशब्दवाच्यत्वादिति भावः॥ ३२॥
३०
१-र्थिकरू-हा०वि०। २-नानति-बृ० सं०। ३ एवेहा-भां. मांविना। ४-स्थयोर्व्यति-बृ० । ५दर्शनत्वेन अ-वा. बा० । दर्शने अ-वृ०। ६-पर्यन्त म-बृ० वा. बा. मा. विना। ७ पृ. ६१७ गा० २१ पं० २६। ८-गमे वाष्टा-बृ० ।