________________
६२२
द्वितीये काण्डे
[सम्यग्ज्ञाने दर्शनवस्य नियततया दर्शने सम्यग्ज्ञानवस्य विकल्पनीयतया सम्यग्दर्शनं
विशिष्टज्ञानरूपमेव इति फलिताभिधानम् ] ननु यदि सम्यग्ज्ञाने सम्यग्दर्शनं नियमेन दर्शनेऽपि रुचिलक्षणे सम्यग्ज्ञानं किमिति न स्यात् ? न, एकान्तरुचावपि सम्यग्ज्ञानप्रसक्तेरित्याह
सम्मण्णाणे णियमेण दंसणं दसणे उ भयणिज्जं ।
सम्मण्णाणं च इमं ति अत्थओ होइ उववण्णं ॥ ३३ ॥ सम्यगज्ञाने नियमेन सम्यगदर्शनं दर्शने पुनर्भजनीयं विकल्पनीयं सम्यग्नानम् एकान्तरुचौ न संभवति अनेकान्तरुचौ तु सम्यग्दर्शने समस्ति । यतश्चैवमतः सम्यग्ज्ञानं चेदं सम्यग्दर्शनं च विशिष्टरुचिस्वभावमवबोधरूपमर्थतः सामर्थ्यादुपपन्नं भवति ॥ ३३॥
१० [सूत्रोक्तं साद्यपर्यवसितत्वं शब्दशः स्पृशता केपांचिदाचार्याणां गर्विष्ठतया सम्यग्वादि
खाभावप्रतिपादनम् ] _ अत्र साद्यपर्यवसितं केवलज्ञानं सूत्रे प्रदर्शितम् अनुमानं च तथाभूतस्य तस्य प्रतिपादकं संभवति । तथाहि-घातिकर्मचतुष्टयप्रक्षयाविर्भतत्वात् केवलं सादि न च तथोत्पन्नस्य पश्चात्तस्यावरणमस्ति अतोऽनन्तमिति न पुनरुत्पद्यते विनाशपूर्वकत्वादुत्पादस्य न हि घटस्याविनाशे कपालानामु. १५त्पादो दृष्ट इत्यनुत्पाव्ययात्मकं केवलमित्यभ्युपगमवतो निराकर्तुमाह
केवलणाणं साई अपज्जवसियं ति दाइयं सुत्ते ।
तेत्तियमित्तोत्तूणा केइ विसेसं ण इच्छंति ॥ ३४ ॥ केवलज्ञानं साद्यपर्यवसितमिति दर्शितं सूत्रे इत्येतावन्मात्रेण गर्विताः केचन विशेषं पर्यायं पर्यवसितत्वस्वभावं विद्यमानमपि नेच्छंति ते न च सम्यग्वादिनः ॥ ३४ ॥
[सिद्धान्तिना केवलस्य पर्यवसितत्वप्रदर्शनम् ]
यतः
जे संघयणाईया भवत्थकेवलिविसेसपज्जाया।
ते सिज्झमाणसमये ण होति विगयं तओ होइ ॥ ३५ ॥ ये वज्रऋषभनाराचसंहननादयो भवस्थस्य केवलिनः आत्मपुद्गलप्रदेशयोरन्योन्यानुवे२५धाद् व्यवस्थितेः-विशेषपर्यायास्ते सिध्यत्समयेऽपगच्छन्ति तदपगमे तदव्यतिरिक्तस्य केवलज्ञानस्याप्यात्मद्रव्यद्वारेण विगमात् अन्यथाऽवस्थातुरवस्थानामात्यन्तिकभेदप्रसक्तेः केवलज्ञानं ततो विगतं भवतीति सूत्रकृतोऽभिप्रायः ॥ ३५ ॥
१-स्य प्रति-बृ० आ० हा० वि०। २-यमेत्तो-बृ० आ० हा० वि०। ३-मित्तोत्तणा आ०।-मित्तो. मूणा वि०।-मित्तोपूणा हा० । 'उत्तूण' शब्दो दृप्तवाची देश्यः । “दरिए उत्तुण-उम्मुह-उच्चुचु-च्छुच्छु-उत्तुरिद्धीओ"देशीना• प्रथ. व. गा० ९९ पृ० ४१।