________________
६२३
ज्ञानमीमांसा। [सिध्यत्समये केवलस्य विनाशवद् उत्पादस्यापि प्रदर्शनम् अपर्यवसितत्वविषयक
सूत्रोक्तेरपेक्षाविशेषेण समर्थनं च] विनाशवत् केवलज्ञानस्योत्पादोऽपि सिध्यत्समय इत्याह
सिद्धत्तणेण य पुणो उप्पण्णो एस अत्थपजाओ। । केवलभावं तु पडुच्च केवलं दाइयं सुत्ते ॥ ३६॥ सिद्धत्वेनाशेषकर्मविगमस्वरूपेण पुनः पूर्ववदुत्पन्न एष केवलज्ञानाख्योऽर्थपर्याय उत्पादविगमनौव्यात्मकत्वाद् वस्तुनः अन्यथा वस्तुत्वहानेः । यत् त्वपर्यवसितत्वं सूत्रे केवलस्य दर्शितं तत् तस्य केवलभावं सत्तामात्रमाश्रित्य कथंचिदात्माव्यतिरिक्तत्वात् तस्य आत्मनश्च द्रव्यरूपतया नित्यत्वात् ॥ ३६॥ [स्वरूप-लक्षणाभ्यां जीव-केवलयोर्भेदे सत्यपि कथं तयोरेकत्वमित्यस्याः केषां- १०
चिदाशङ्काया उल्लेखः] ननु केवलज्ञानस्यात्मरूपतामाश्रित्य तस्योत्पादविनाशाभ्यां केवलस्य तौ भवतः न चात्मनः केवलरूपतेति कुतस्तद्वारेण तस्य ताविल्याह
जीवो अणाइणिहणो केवलणाणं तु साइयमणंतं । इअ थोरम्मि विसेसे कह जीवो केवलं होइ ॥ ३७॥ तम्हा अण्णो जीवो अण्णे णाणाइपजवा तस्स ।
उवसमियाईलक्खणविसेसओ केइ इच्छन्ति ॥ ३८॥ जीवोऽनादिनिधनः केवलज्ञानं तु साद्यपर्यवसितमिति स्थूरे विरुद्धधर्माध्यासलक्षणे विशेषे छायातपवदत्यन्तभेदात् कथं जीवः केवलं भवेत् ? जीवस्यैव तावत् केवलरूपता असंगता दूरतः संहननादेरिति भावः ॥ ३७॥
तस्माद् विरुद्धधर्माध्यासतोऽन्यो जीवो ज्ञानादिपर्यायेभ्यः अन्ये च ततो ज्ञानादिपर्याया लक्षणमेदाच्च तयोर्भेदः। तथाहि-ज्ञान-दर्शनयोः क्षायिकः क्षायोपशमिको वा भावो लक्षणम् जीवस्य तु पारिणामिकादि वो लक्षणमिति केचित् व्याख्यातारः प्रतिपन्नाः ॥ ३८ ॥
२०
[प्रागुक्तामाशङ्का निरसितुमुपक्रमः ] एतनिषेधायाह
अह पुण पुवपयुत्तो अत्थो एगंतपक्वपडिसेहे ।
तह वि उयाहरणमिणं ति हेउपडिजोअणं वोच्छं ॥ ३९॥ यद्यप्ययं पूर्वमेव द्रव्यपर्याययोर्भेदाभेदैकान्तपक्षप्रतिषेधलक्षणोऽर्थः प्रयुक्तो योजितः 'उप्पाय-टिइ-भंगा' [प्र० का० गा० १२] इत्यादिना अनेकान्तव्यवस्थापनात् तथापि केवलशाने अनेकान्तात्मकैकरूपप्रसाधकस्य हेतोः साध्येनानुगमप्रदर्शकप्रमाणविषयमुदाहरणमिवमुत्त-३० रगाथया वक्ष्ये ॥ ३९॥
१इअ घोर-भां• मां० । एत्थोर-बृ. आ. हा० वि.। ३पृ. ४१०५०५।
२-पर्याय ल-बृ० वा. बा. विना ।