________________
६२४
द्वितीये काण्डे -
[ अनेकान्तात्मकैकरूपत्वेन साध्येन सच्चस्य हेतोर्व्याप्तिं प्रसाधयितुं दृष्टान्तोपन्यासः ]
तदेवाह
५
यथा कश्चित् पुरुषः षष्टिवर्षः सर्वायुष्कमाश्रित्य त्रिंशद्वर्षः सन्नराधिपो जात उभयत्र मनुष्ये राजनि च जातशब्दोऽयं प्रयुक्तो वर्षविभागमेवास्य दर्शयति । षष्टिवर्षायुष्कस्य पुरुषसामान्यस्य नराधिपंपर्यायोऽयं जातः अभेदाध्यासितभेदात्मकत्वात् पर्यायस्य नराधिपपर्यायात्मकत्वेन चायं पुरुषः पुनर्जातो भेदानुषक्ता भेदात्मकत्वात् सामान्यस्य एकान्त मेदेऽमेदे वा तयोरभावप्रसङ्गान्निराश्रयस्य पर्यायप्रादुर्भावस्य तद्विर्कलस्य वा सामान्यस्यासंभवात् संशयविरोधवै१० यधिकरण्याऽनवस्थोभयदोपादीनामनेकान्तवादे च प्रागेव निरस्तत्वात् ॥ ४० ॥
१५
जह कोइ सट्टिवरिसो तीसइवरिसो णराहिवो जाओ । उभयत्थ जीयसद्दो वरिसविभागं विसेसेइ ॥ ४० ॥
[ दृष्टान्तगृहीतव्याप्तेः सच्वहेतोर्दान्ति के केवले उपनयनम् ] टान्तं प्रसाध्य दान्तिकयोर्जनायाह
एवं जीवद्दव्वं अणाइणिहणमविसेसियं जम्हा । रायसरिस उ केवलिपज्जाओ तस्स सविसेसो ॥ ४१ ॥ एवमनन्तरोक्तदृष्टान्तवज्जीवद्रव्यमनादिनिधनमविशेषितभव्यजीवरूपं सामान्यं यतो राजत्वपर्यासदृशः केवलित्व पर्यायस्तस्य तथाभूतजीवद्रव्यस्य विशेषस्तस्मात् तेन रूपेण जीवद्रव्यसामान्यस्यापि कथंचिदुत्पत्तेः सामान्यमप्युत्पन्नं प्राक्तनरूपस्य विगमात् सामान्यमपि तदभिन्नं कथंचिद् विगतं पूर्वोत्तरपिण्डघटपर्यायपरित्यागोपादानप्रवृत्तैकमृद्रव्यवत् केवलरूपतया जीवरूपतया वा अनादिनिधनत्वान्नित्यं द्रव्यमभ्युपगन्तव्यम् प्रतिक्षणभाविपर्यायानुस्यूतस्य च २० मृद्रव्यस्याध्यक्षतोऽनुभूतेर्न दृष्टान्तासिद्धिस्तस्मात् केवलं कथंचित् सादि कथंचिदनादि कथंचित् सपर्यवसानं कथंचिदपर्यवसानं सत्वादात्मवदिति स्थितम् ॥ ४१ ॥
२५
[ जीव-तत्पर्यायगतं प्रामाणिकं व्यवहारमाश्रित्य द्रव्यपर्याययोरेकान्त भेदनिराकरणम् ] न द्रव्यं पर्यायेभ्यो भिन्नमेवेत्याह
जीवो अणाइनिहणो 'जीव' त्ति य नियमओ ण वक्तव्वो । जं पुरिसाउयजीवो देवाउयजीवियविसिट्ठी ॥ ४२ ॥ जीवोsनादिनिधनो जीव एव विशेषविकल इति नियमतो न वक्तव्यम् यतः पुरुषायुष्कजीवो देवायुष्कजीवाद विशिष्टो जीव एव इति त्वभेदे पुरुषजीव इत्यादिभेदो भवेत् केवलस्य सामान्यस्य विशेषप्रत्ययाभिधानानिबन्धनत्वान्निर्निमित्तस्यापि विशेषप्रत्ययाभिधानस्य संभवे सामान्यप्रत्ययाभिधानस्यापि निर्निमित्तस्यैव भावात् तन्निबन्धनसामान्याभ्युपग३० मोऽप्ययुक्तः स्यादिति सर्वाभावः । न च विशेषप्रत्ययस्य बाधारहितस्यापि मिथ्यात्वमितरत्रापि तत्प्रसक्तेरिति प्रतिपादनात् ॥ ४२ ॥
१ जाइस - बृ० । २-पशब्दोऽ- भ० मां० ।
३ - दाध्यवसि वा० बा० । ४-कल्पस्य वृ० आ० विना । ५ पृ० ४५१ पं० ३३ टि० ७ । ६- जनामाह भां०] मां० । ७ एव्वं वृ० वा० बा० विना । ८-ण्डद्रव्यघ - बृ० मा० वा० बिना । ९ सादिकं क - वा० वा० भ० मां० ।
१० - न्यस्यावि - वा० बा० बिना ।