________________
ज्ञानमीमांसा।
[ आत्मद्रव्यस्य स्वाभाविकैर्वैभाविकैश्च पर्यायैः कथंचिदेकानेकखप्रदर्शनम् ] केवलज्ञानस्य कथंचिदात्माऽव्यतिरेकादात्मनो वा केवलशानाव्यतिरेकात् कथञ्चिदेकत्वं तयोरित्याह
संखेज्जमसंखेज्जं अणंतकप्पं च केवलं णाणं ।
तह रागदोसमोहा अण्णे वि य जीवपज्जाया ॥४३॥ आत्मन एकत्वात् कथञ्चित् तदव्यतिरिक्तं केवलमप्येकम् केवलस्य वा ज्ञानदर्शनरूपतया द्विरूपत्वात् तदव्यतिरिक्त आत्माऽपि द्विरूपः असंख्येयप्रदेशात्मकत्वादात्मनः केवलमप्यसंख्येयम् अनन्तार्थविषयतया केवलस्यानन्तत्वादात्माऽप्यनन्तः । एवं रागद्वेषमोहा अन्येऽपि जीवपर्यायाश्छद्मस्थावस्थाभाविनः संख्येयाऽसंख्येयानन्तप्रकारा आलम्ब्यभेदात् तदात्मकत्वात् संसार्यात्माऽपि तद्वत् तथैव स्यात् । सोमिलव्राह्मणप्रश्नप्रतिवचने चागमे एतदर्थप्रतिपादकं च सूत्रम्-"एंगे १० भवं दुवे भवं" इत्यादि "जाव अणेगभूयभावभविए भवं" इति प्रश्ने उत्तरं-"सोमिला! एगे वि अहं जाव अणेगभूयभावभविए य अहं । से केणटेणं भंते! एवं वुच्चइ ? एगे वि अहं" इत्याद्युत्तरहेतुप्रश्ने हेतुप्रतिपादनम् । “सोमिला ! दव्वट्ठयाए एगे अहं, णाणदसणट्ठयाए दुवे अहं” [भगवती० श० १८ उ० १० सू० ६४७ ] इत्यादि प्रकृतार्थसंवादि सिद्धम् । रागादीनां चैकाद्यनन्तभेदत्वमात्मपर्यायत्वात् यो ह्यात्मपर्यायः स एकाद्यनन्तभेदो यथा केवलावबोधस्तथा च रागादय इति स्थित्युत्पत्तिनिरोधा-१५ त्मकत्वमहत्यपि सिद्धमिति यत् परेणोक्तम् -"अनेकान्तात्मकत्वाभावेऽपि केवलिनि सत्त्वात् यत् सत् तत् सर्वमनेकान्तात्मकमिति प्रतिपादकस्य शासनस्याव्यापकत्वात् कुसमयविशासित्वं तस्यासिद्धम्” [ ] इति तत् प्रत्युक्तं द्रष्टव्यम् ॥४३॥
तत्त्वबोधविधायिन्यां सम्मतिटीकायां द्वितीयं काण्डम् ।
१ “एगे भवं दुवे भवं अक्खए भवं अव्वए भवं अवट्ठिए भवं अणेगभूयभावभविए भवं? सोमिला ! एगे वि अहं जाव अणेगभूयभावभविए वि अहं ।
से केणटेणं भंते । एवं वुच्चइ जाव-भविए वि अहं ? सोमिला ! दव्वट्ठयाए एगे अहं, नाण-दसणट्ठयाए दुविहे अहं, पएसट्टयाए अक्खए वि अहं, अव्वए वि अहं अवविए वि अहं, उवयोगट्टयाए अणेगभूयभावभविए वि अहं । से तेणटेणं जाव-भविए वि अहं"-इति संपूर्ण भगवतीसू० पृ. ७६० प्र०। २-त्तितिरो-आ. हा०वि०। त्तिविरो-भां. मां। ३-त् प्रयुक्तं द्र-भां० मां०।-त् प्रत्यक्षं द्र-बृ० आ० हा० वि०। ४ (ग्रन्थानम् ) ७२५० बृ० ।
८० स० त०