________________
ज्ञानमीमांसा ।
६१३ न्द्रियादिसहचरितत्वनिरन्तराहारोपदेशत्वाद्यन्तरेणापि “विग्गहगइमावण्णा"[ इत्यादि सूत्रसंदर्भस्य केवलिभुक्तिप्रतिपादकस्यागमे सद्भावात् । न च तस्याप्रामाण्यम् सर्वज्ञप्रणीतत्वेनाभ्युपगतसूत्रस्येव प्रामाण्योपपत्तेः । न च तत्प्रणीतागमैकवाक्यतया प्रतीयमानस्याप्यस्यातत्प्रणीतत्वम् अन्यत्रापि तत्प्रसक्तेः । यदपि 'शरीरप्रायोग्यपुद्गलग्रहणमाहारत्वेनाभिमतमत्र' इत्यभिधानम् तदप्यसंगतम्; विग्रहगत्यापनसमवहतकेवल्ययोगिसिद्धव्यतिरिक्ताशेषप्राणिगणस्य शरीर-५ प्रायोग्यपुद्गलग्रहणमेवाहारशब्दवाच्यमिह सूत्रेऽभिप्रेतमिति कोऽन्यः सामयिकशब्दार्थविदो भवतोऽभिधातुं समर्थः? यदपि 'निरन्तराहारत्वं केवलिनस्तेनाहारेण समुद्धातक्षणत्रयमपहाय भवेत्' इत्युक्तम् तदप्यसंगतम् विशिष्टाहारस्य विशिष्टकारणप्रभवत्वात् तस्य च प्रतिक्षणमसंभवात् यस्तु पुद्गलादानलक्षणो लोमाद्याहारस्तस्य प्रतिक्षणं सद्भावेऽप्यदोषात् । यदपि 'यथासंभवमाहारव्यवस्थितेः केवलिनः कवलाहारः अन्यथा शरीरस्थितेरभावात् व्यवस्थाप्यते' इत्यभिधानम् तद्युक्तमेव न १० हि देशोनपूर्वकोटिं यावद विशिष्टाहारमन्तरेण विशिष्टौदारिकशरीरस्थितिः संभविनी । न च तच्छद्मस्थावस्थातः केवल्यवस्थायामात्यन्तिकं तच्छरीरस्य विजातीयत्वं येन प्रकृताहारविरहेऽपि तच्छरीरस्थितेरविरोधो भवेत् ज्ञानाद्यतिशयेऽपि प्राक्तनसंहननाद्यधिष्ठितस्य तस्यैवापातमनुवृत्तेः । अस्मदाद्यौदारिकशरीरविशिष्टस्थितेर्विशिष्टाहारनिमित्तत्वं प्रत्यक्षानुपलम्भप्रभवप्रमाणेन सर्वत्राधिगतमिति विशिष्टाहारमन्तरेण तत्स्थितेरन्यत्र सद्भावे सकृदपि तत्स्थितिस्तन्निमित्ता न भवेत् १५ अहेतोः सकृदपि सद्भावाभावात् । यदि पुनर्विशिष्टाहारनिमित्ताप्यस्मदादिषु विशिष्टशरीरस्थितिः पुरुषान्तरे तद्यतिरेकेणापि भवेत् तर्हि महानसादौ धूमध्वजप्रभवोऽपि धूमः पर्वतादौ तमन्तरे णापि भवेदिति धूमादेरग्न्याद्यनुमानमसङ्गतं भवेद् व्यभिचारात् । अर्थतज्जातीयो धूम एतजातीयाग्निप्रभवः सर्वत्र सकृत्प्रवृत्तेनैव प्रमाणेन व्यवस्थाप्यते तत्कार्यताप्रतिपत्तिबलादग्निस्वभावादन्यत्र तस्य भावे सकृदप्यग्नेर्न भावः स्याद् अग्निस्वभावाजन्यत्वात् तस्य भवति चाग्निस्वभावान्महानसादौ २० धूम इति सर्वत्र सर्वदा तत्स्वभावादेव तस्योत्पादे तदुत्पत्तिकस्याधूमस्वभावत्वादिति न धूमादेरग्याद्यनुमाने व्यभिचारस्तीयं प्रकारः प्रकृतेऽपि समानः विशिष्टौदारिकशरीरस्थितेर्विशिष्टाहारमन्तरेणापि भावे तच्छरीरस्थितिरेवासौ न भवेत् । न चात्यन्तविजातीयत्वं तस्या इति प्रतिपादितम् । सर्वथा समानजातीयत्वं तु महानसपर्वतोपलब्धधूमयोरप्यसंभवि । ततोऽस्मदादेरिव केवलिनोऽपि प्रकृताहारमन्तरेणौदारिकशरीरस्थितिश्चिरतरकाला न संभवतीत्यनुमान प्रवर्तत एव अन्यथा धूमा-२५ देरन्याद्यनुमानमपि न स्यात् । यदपि 'कुतस्तस्यैवं सर्वज्ञतादिसिद्धिः' इत्यभिधानम् तदप्यसङ्गतम् घातिकर्मक्षयप्रभवसर्वज्ञतादेः प्रकृताहारेण तत्कार्येण वा चिरकालभाव्यौदारिकशरीरस्थित्यादिना विरोधासंभवात् सर्वज्ञतासिद्धिनिबन्धनस्य च प्रमाणस्य प्रतिपादितत्वात् प्रकृताहारप्रतिपादकस्य च । यदपि 'निराहारौदारिकशरीरस्थितेः प्रथमतीर्थकरप्रभृतीनामतिशयश्रवणात् तदियत्तानियमप्रतिपादकप्रमाणाभावाच्च' इति तदप्यपर्यालोचिताभिधानम् तस्य प्रामाण्ये तदियत्तानियमस्यापि ३० तत एव सिद्धेः तद्धिकनिराहारतच्छरीरस्थितेः सूत्रे निषेधान्निरशनकालस्य तावत एवोत्कृष्टताप्रतिपादनात् । यदपि 'सूत्रभेदकरणकारणासंभवात्' इत्यादि तदप्यसंगतम् चिरतरकालस्थितिरेव तच्छरीरस्य सूत्रभेदकरणकारणं प्रकृताहारमन्तरेण तत्स्थितेरसंभवस्य प्रतिपादनात् । भूयांसि च प्रकृताहारप्रतिपादकानि केवलिनः सूत्राण्यागमै उपलभ्यन्ते प्रतिनियतकालप्रकृताहारनिषेधकानि
१“विग्गहगइमावन्ना केवलिणो समुहया अयोगी या । सिद्धा य अणाहारा सेसा आहारगा जीवा" ॥ इत्येषा गाथा सूत्रकृताङ्गसूत्रटीकाकृता श्रीशीलाकेन तत्सूत्रद्वितीयश्रुतस्कन्धस्य आहारपरिज्ञानानि तृतीयेऽध्ययने व्याख्यायामुद्धृताऽस्तिपृ. ३४४ द्वि. पं० १-२ । तस्या विशदा व्याख्याऽपि तत्स्थानत एव बोद्धव्या । प्रमेयकमलमार्तण्डेऽपि एषा उद्धृताऽस्तिपृ. ८५प्र.पं. १२ । स्याद्वादर० पृ० ४६२५० २४ । २ पृ. ६११ पं०४ । ३-रप्रयो-बृ० । ४ पृ०६११५०४ । ५ पृ० ६११ पं० ५। ६ तस्या भा-ल० सं०। ७ अत्र-'त्पादेऽतदुत्पत्ति'-इति सावग्रहः पाठो युज्यते अन्यथा 'स्याधूम' इति असंगतं स्यात् । ८ प्र० पृ. पं० १२ । ९पृ० ६११ पं० ८। १०-स्तस्यैव स-भां• मां० विना । ११ पृ. ५३-६९ । १२ पृ० ६११ पं० ९ । १३-माण्यात्तदिय-बृ० ।-माण्यं तर्हि तदिय-आ० । १४ पृ० ६११ पं०१०। १५ सूत्राणि चैतानि सूत्रकृताङ्गसूत्रान्तर्गतद्वितीयश्रुतस्कन्धे आहारपरिज्ञानाम्नि तृतीयेऽध्ययने, भगवतीसूत्रे प्रथमशतकीयप्रथमोद्देशके, प्रज्ञापनासूत्रे च आहारपदे लभ्यन्ते-पृ० ३४२..३६० । पृ० १९-३० । पृ० ४९८-५२४ ।