________________
६१२
द्वितीये काण्डे
[ पूर्वपक्षं प्रतिविधातुमुपयोगक्रमसामान्यस्य छद्मना व्याप्तिं निरस्य भुक्तेरपि तेन सह व्याप्यभावे तात्पर्यख्यापनम् ]
अत्र प्रतिविधीयते यदुक्तम् 'छद्मस्थे उपयोगक्रमस्य दृष्टत्वात् केवलिनि च छद्माभावादुपयोगक्रमाभावः तत्र क्रमोपयोगस्य क्षयोपशमकार्यत्वात् केवलिनि च तदभावात् क्रमोपयोगस्यापि ५ तत्कार्यस्याभावः । तथाहि यत् यत्कारणं तत् तदभावे न भवति यथा चक्षुरभावे चक्षुर्ज्ञानम् क्षयो 'पशमकारणश्च क्रमोपयोग इति क्षायिकोपयोगवति केवलिनि क्रमोपयोगाभावः । अथ क्षयोपशमाभावे भवतु तत्र मतिज्ञानादिक्रमवदुपयोगाभावः केवलज्ञानदर्शनयोस्तु क्षायिकत्वात् कथं क्षयोपशमाभावे तयोः क्रमाभावः ? उच्यते, यद् यदाऽविकलकारणं तत् तदाऽवश्यंतया प्रादुर्भवति यथा अन्त्यावस्थाप्राप्तक्षित्यादिसामग्रीसमयेऽङ्कुरः अविकलकारणं च केवलज्ञानोपयोगकाले केवलदर्श१० नम् स्वावरणक्षयलक्षणाविकलकारण सद्भावेऽपि तदा तस्यानुत्पत्तावतद्धेतुकताप्रसक्तेर्देशकालाकारनियमो न भवेत् । अनायत्तस्य तदसंभवात् इति प्रतिपादितत्वात् । ऋमोत्पत्तिस्वभावप्रकल्पनायां क्षायिकत्वं तस्य परित्यक्तं स्यात् अध्यक्षसिद्धे च क्रमे तत्स्वभावप्रकल्पना युक्तिसंगता अन्यथातिप्रसङ्गः सर्वभावव्यवस्थाविलोपप्रसक्तेः । न च यो यज्जातीये दृष्टः सोऽन्यंत्रातजातीये न भवति इत्येतदत्र विवक्षितं किं तर्हि कारणाभावे कार्य न भवति अविकलकारणं चाविलम्बितोत्पत्तिकमे१५ तदत्र प्रतिपादयितुमभिप्रेतमाचार्यस्य ।
[ केवलिनि कवलाहारमुपपादयितुं बाधकप्रमाणनिरासपूर्वकं साधकप्रमाणप्रदर्शनम् ]
तेन यदि केवलिनो भुक्तिकारणाभावः सिद्धो भवेत् प्रतिबद्धत्वं वा स्वकार्यकरणे कारणस्यावगतं भवेत् तदा तदभावनिश्चयः स्यात् न चैतदुभयमपि भवस्थकेवलिनि सिद्धम् अप्रतिबद्धसामर्थ्यस्य क्षुद्वेदनीयकर्मोदयस्य तत्र सद्भावात् । तेनातज्जातीयत्वेऽपि केवलिनि भुक्तिप्रकल्पनायां चतु२० र्ज्ञानत्वाऽकेवलित्वापत्त्यादेर्दूषणस्यानवकाशो भुक्तिकारणस्येव तत्कारणस्य तत्राभावान्निर्निमित्तस्य च चतुर्ज्ञानित्वादेः कार्यस्यासंभवात् । यच्च अतज्जातीयत्वं केवलिनः प्रतिपादितं तत् किमस्मदाद्यपेक्षया आहोस्विदात्मीयच्छद्मस्थावस्थापेक्षया ? तत्राद्यै विकल्पे सिद्धसाध्यता । द्वितीयपक्षेऽपि किं घातिकर्मक्षयापेक्षया तत् तस्याभ्युपगम्यते आहोस्विद् भुक्तिनिमित्तकर्मक्षयापेक्षया ? प्रथमपक्षे सिद्धं विजातीयत्वम् न तु तावता तस्य भुक्तिप्रतिषेधः अप्रतिबद्धसामर्थ्यस्य भुक्तिकारणस्य तथा२५ विजातीयत्वेऽपि स्वकार्यनिर्वर्तकत्वात् । द्वितीयपक्षोऽप्ययुक्तः अतजातीयत्वस्यैवासिद्धत्वात् तन्निमित्तस्य कर्मणो भवस्थकेवलिनि पर्यन्तसमयं यावदनुवृत्तेः । यदपि 'न देहित्वं भुक्तिकारणं तथाभूतशक्त्यायुष्ककर्मणोस्तद्धेतुकत्वादेकवैकल्ये तदभावात्' इति तदप्यसंगतम् यतो न देहित्वमात्रं प्रकृतभुक्तिकारणमपि तु विशिष्टकर्मोदयादिसामग्री तस्याश्च ततोऽद्याप्यव्यावृत्तेः कुतस्तदभावः ? तथाभूतशक्त्यायुष्ककर्मणोश्चैकस्यापि वैकल्यासिद्धेरेकवैकल्ये तदभावादित्यसिद्धम् । येच्च 'औदारि३० कव्यपदेशो ऽप्युदारत्वान्न भुक्तेः' इति, तदपि न दोषावहम् औदारिकशरीरित्वे स्वकारणाधीनाया भुक्तेरप्रतिषेधात् । व्यपदेशस्योदारत्वनिमित्तत्वेऽपि स्वकारणनिमित्तप्रकृतभुक्तिसिद्धेः । यर्देपि 'एकेन्द्रियादीनामयोगिपर्यन्तानामाहारिणां सूत्र उपदेश:' इत्याद्यभिधानम्, तदप्यसंगतम् ; एके
१ श्वेताम्बर मार्गानुयायिनः केवलिनः ( सर्वज्ञस्य ) कवलाहारकत्वं स्वीकुर्वते । दिगम्बरा अपि ये यापनीयसंघानुयायिनस्तेषामेव तद् अभिप्रेतम् नान्येषां दिगम्बराणाम् । अत्र विषये यापनीयसंघाग्रगामिना श्रीमता शाकटायनेन रचितं सप्तत्रिंशत्कारिकामयं केवलिभुक्तिप्रकरणमवबोद्धव्यम् । इतरदिगम्बराणां च मतमवबोद्धु प्रमेयकमलमार्तण्डगता सा केवलिकवलाहारचर्चाऽपि अत्रानुसन्धेया — पृ० ८४ द्वि० पं० १६ – पृ० ८७ द्वि० पं० ५ ।
२ पृ० ६१० पं० २४ । ३ भवति त - वा० बा० । ४ " देशकालप्रतिनियम " - बृ० टि० । ५ पृ० ५६८ पं० २१ तथा टि० ८ । ६- स्थालो - भ० मां० । ७- न्यत्र त-आ० हा ० वि० । पृ० ६१० पं० २५। ८- रणं वा बृ० वा० बा० । ९ " वैधर्म्येण निदर्शनमुक्तम् - " बृ० टि० । १० पृ० ६१० पं० २५ । ११ द्ये क भां० मां० विना । १२ पृ० ६१० पं० ३२ । १३ पृ० ६११ पं० १ । १४ पृ० ६११ पं० २ ।