________________
प कवलाहार एव५
भावादिति' तदपि न
रणीदारिकशरीरस्थित
ज्ञानमीमांसा। एककर्मणोस्तद्धेतुत्वादेकवैकल्ये तदभावात् । औदारिकव्यपदेशोऽप्युदारत्वान्न भुक्तेः । यदपि 'एकेन्द्रियादीनामयोगिपर्यन्तानामाहारिणां सूत्रोपदेशात् केवलिनः कवलाहारित्वं केचित् प्रतिपन्नाः' तदपि सूत्रार्थापरिज्ञानात् तत्र ह्येकेन्द्रियादिभिः सह भगवतो निर्देशान्निरन्तराहारोपदेशाच्च शरीरप्रायोग्यपुद्गलग्रहणमाहारत्वेन विवक्षितमन्यथा क्षणत्रयमात्रमपहाय समुद्धातावस्थायां निरन्तराहारो भगवांस्तेनाहारेण भवेत् । यदपि 'यथासंभवमाहारव्यवस्थितेः सह निर्देशेऽपि कवलाहार एव५ केवलिनो व्यवस्थाप्यते युक्त्या अन्यथा तच्छरीरस्थितेरभावादिति तदपि न युक्तिक्षमम् यतो यदि नामास्मदादेः प्रकृताहारमन्तरेणौदारिकशरीरस्थितेःप्रभूतकालमभावात् केवलिनोऽपि तथाऽनुमीयते तर्हि सर्वज्ञतापि तस्य कथमवसातुं शक्या दृष्टव्यतिक्रमप्रकल्पनायोगात् श्रूयते च प्रकृताहारमन्तरेणाप्यौदारिकशरीरस्थितिश्चिरतरकाला प्रथमतीर्थकृत्प्रभृतीनाम् । न च तदियत्तानियमप्रतिपादकं प्रमाणमस्तीति सूत्रभेदकरणनिमित्तासंभवात् यथान्यासमेव सूत्रार्थपरिकल्पनमस्तु एवं च निरन्तरा-१० हारवचनमप्यनुल्लचितं भवेत् । अथापि स्यादतिशयदर्शनान्निरवशेषदोषावरणहानेरत्यन्तशुद्धात्मस्वभावप्रतिपत्तिवत् प्रकृताहारविकला औदारिकशरीरस्थितिरात्यन्तिकी क्वचिद् यदि भवेत् तदाऽसंभवन्मुक्तीनां केवलिनां प्रमाणतः प्रतिपत्तेः “असरीरा जीवघणा" इत्याद्यागमविरोधः प्रसज्येत, असदेतत् यतः किमेवं सर्वज्ञस्यासत्त्वं प्रतिपादयितुमभिप्रेतम् उतातिशयदर्शनस्य तदहेतुत्वम् ? न तावदाद्यः पक्षः धर्मिणोऽभावे तद्धर्मस्य प्रस्तुतस्य साधयितुमशक्तेः । नापि १५ द्वितीयः औदारिकशरीरस्य चिरतरकालावस्थायित्वस्याविरोधात् । न चातिशयदर्शनस्य तदहे. तुत्वे केवलिभुक्तिसिद्धिः । न च यदतिशयवत् तदात्यन्तिकमतिशयमनुभवतीति सर्वत्र साध्यते किन्तु व्याप्तिदर्शनमात्रमेतत् अतः कियत्कालावस्थितिमात्र केवलिनां शरीरस्थितेरिष्ट नात्यन्तिकम् । न च संयोगस्यात्यन्तिकी स्थितिः संभवति सत्यपि प्रकर्षदर्शने जीवकर्मणोरनादित्वेऽपि विश्लेषप्रतिपत्तेः संश्लेषस्थितिनियमस्य चानिष्टेरसंख्येयकालादूचं पुद्गलपरिणतेः सर्वस्या अन्यथाभवनाद् औदारि-२० कशरीरस्य च निराहारस्य चिरतरकालस्थायिन उत्तरकालमशेषकर्मक्षयाद् विनिवृत्तावस्ति साधनं सुनिश्चितासंभवद्वाधकप्रमाणत्वम् इदमेव च तत्त्वव्यवस्थायां सर्वत्राभ्युपगन्तव्यम् न ह्यध्यक्षाद्यवगतस्याप्यर्थस्यैतदन्तरेण तत्त्वव्यवस्थितिः अनुभूतस्यापि बाधकप्रत्ययप्रवृत्तौ मिथ्यात्वरूपतया व्यव. स्थापनात् । ततः सुनिश्चितासंभवद्बाधकप्रमाणत्वादेव प्रमाणप्रमेयतत्त्वसिद्धिः बाधकप्रमाणनिश्चयात् तद्विपरीतार्थप्रतिपत्तिः उभयोरनिश्चये दृष्टश्रुतयोरर्थयोः संशीतिरिति व्यवस्था सुनिश्चितासंभवद्वाध-२५ कप्रमाणत्वं च प्रकृताहारवैकल्येऽपि सर्वज्ञौदारिकशरीरचिरस्थायित्वप्रतिपादकागमस्य समस्त्येवेति न किञ्चित् तस्य कवलाहारपरिकल्पनया। केवली च कवलाहारमनन् किं बुभुक्षया उत शरीरस्थित्यन्यथाऽनुपपत्त्या आहोस्वित् स्वभावतोऽश्नातीति वक्तव्यम् ? न तावदाद्यः पक्षः बुभुक्षाया दुःखरूपत्वात् तन्मूलदोषराशिनिवृत्तौ तस्या असंभवात् अनिवृत्तौ वा तत्प्रभवस्य दुःखसमूहस्य सद्भावे आत्यन्तिकसौख्यानुपपत्तिर्भगवति स्यात् । न च क्षुत्तुल्या शरीरवेदनेत्युक्तम् । बुभुक्षामन्तरेणापि ३० शरीरं स्थापयितुमिच्छुरश्नातीति चेत्, न; अनन्तवीर्यस्य भगवतः शरीरस्थितिमिच्छोः प्रकृताहारमन्तरेणापि तत्स्थापनासामर्थ्याविरोधात् शरीरतिष्ठापयिषाऽपि बुभुक्षावत् क्लेश एवेति न प्रथमपक्षादस्य विशेष इति न द्वितीयः पक्षोऽपि । नापि तृतीयपक्षाभ्युपगमोऽपि युक्तः प्रकृताहारविकलस्यैव विवक्षितकालभाविशरीरस्थितिखभावकल्पनयैव दोषाभावाद् अन्यथाऽशिष्टव्यवहारेष्वपि तत्स्वभावकल्पनायाः प्रसङ्गात् । तीर्थप्रवर्तनस्य तु व्यापारव्याहारलक्षणस्य तत्कालभाविविवक्षाचिकीर्षाऽभा-३५ वेऽपि सद्भावो न विरुध्यते तीर्थप्रवर्तनस्य सद्भावनाविशेषोत्पन्नविशिष्टफलरूपत्वात् । सकलक्लेशोपरमेऽपि च तीर्थप्रवर्तनं स्वयमभ्युपगतं परेण प्रकृताहारादिकं तु क्लेशोपशमनार्थ कथं तत्स्वभावतः कल्पयितुं युक्तम् ? न च भगवति क्लेशः नापि तदुपशमनवाञ्छा तस्येति कवलाहारपरिकल्पनायां भगवति पक्षत्रयेऽपि दोषानतिवृत्तेः प्रकारान्तरस्य चासंभवान्न तत्र प्रकृताहारकल्पना युक्तिसंगता।
१ स्याद्वादर० पृ० ४५८ पं० ४-५। २ पृ. ६०८ पं० २२ टि० ५। ३ “शरीरस्थितेरहेतुरतिशयदर्शनमिति भावः"-६० टि०। ४-भययोर-आ० हा०वि०। ५“पंथसमा नत्थि जरा खुहासमा वेयणा नत्थि" इति जैनागमे विश्रुतं सुभाषितम् । ६-पिबुद्धिबुभुक्षा-भां० मां०। ७-स्य तद्भा-वा० बा• विना ।