________________
६१०
द्वितीये काण्डेअत्र तात्पर्यार्थः-यद्येकत्वं ज्ञान-दर्शनयोर्न स्यात् ततोऽल्पविषयत्वाद् दर्शनमनन्तं न स्यादिति "अणन्ते केवलणाणे अणंते केवलदसणे” [
] इत्यागमविरोधः प्रसज्येत । दर्शनस्य हि ज्ञानाद् भेदे साकारग्रहणादनन्तविशेषवर्तिज्ञानादनाकारं सामान्यमात्रावलम्बि केवलदर्शनं यतो नियमेनैकान्तेनैव परीतमल्पं भवतीति कुतो विषयमेदादनन्तता ? ५ युगपदुपयोगद्वयवादी अनन्तं दर्शनं प्रज्ञप्तमित्यस्यां प्रतिज्ञायां 'साकारग्गहणाहि य णिय
मऽपरित्तं' इत्यकारप्रश्लेषात् साकोरे विशेषे गतं यत् सामान्यं तस्य यद् ग्रहणं दर्शनं तस्य नियमोऽवश्यंभावस्तेनापरीतमपरिमाणमिति साकारगतग्रहणनियमेनापरीतत्वादिति हेतुमभिधत्ते। यच्चापरीतं तदनन्तं यथा केवलज्ञानम् अपरीतता च दर्शनस्य द्रव्य-गुण-कर्मादेः साकारस्य च सकलँस्य
द्रव्यत्व-गुणत्व-कर्मत्वादिना स्वसामान्येन तावत्परिमाणेनाशून्यत्वात् सामान्यविकलस्य पर्यायस्यासंभ१० वात् । विशेषतादात्म्यव्यवस्थितसामान्यस्य दर्शनविषयस्यानन्त्येन दर्शनस्यापरीतत्वं नासिद्धमिति भवति तस्यानन्त्यसिद्धिरिति व्यवस्थितः ॥ १४ ॥ [ अभेदवाद्युक्तस्य केवले अपर्यवसितत्वादिदोषस्य क्रमवादिना समुद्धरणम् तस्य च
. पुनरभेदवादिना प्रतिसमाधानम् ] क्रमवादिदर्शने ज्ञानदर्शनयोरपर्यवसितत्वादिकं नोपपद्यत इति यत् प्रेरितमेकत्ववादिना १५ तत्परिहारार्थमाह
भण्णइ जह चउणाणी जुज्जइ णियमा तहेव एयं पि।
भण्णइ ण पंचणाणी जहेव अरहा तहेयं पि ॥१५॥ यथा क्रमोपयोगप्रवृत्तोऽपि मत्यादिचतुर्ज्ञानी अपर्यवसितचतुर्ज्ञान उत्पद्यमानतज्ज्ञानसर्वदोपलब्धिको व्यक्तबोधो शांतदृष्टभाषी शाता द्रष्टा संज्ञेयवर्ती चावश्यमेव युज्यते तच्छक्तिसम२० न्वयात् तथैतदपि एकत्ववादिना यदपर्यवसितादि केवलिनि प्रेर्यते तद् युज्यत एव ।
__ अत्रैकत्ववादिना प्रतिसमाधानं भण्यते यथैवाहन्न पञ्चज्ञानी भवति तथैतदपि क्रमवादिना यदुच्यते भेदतो ज्ञानवान् दर्शनवानिति च तदपि न भवतीति सूत्रकृतोऽभिप्रायः।
[ भुक्ति-क्रमोपयोगयोश्छद्मना व्याप्तिं स्वीकुर्वतां केषांचिन्मतस्य व्यावर्णनम् ]
अत्र च छद्मस्थे किलोपयोगक्रमस्य दृष्टत्वात केवलिनि च छद्माभावान्न क्रमवान ज्ञानदर्शनोप२५योग इत्ययमत्रार्थो विवक्षित इति केचित् प्रतिपन्नाः न हि यो यज्जातीये दृष्टः सोऽतज्जातीयेऽपि भवति अतिप्रसङ्गात् अन्यथा छद्मस्था अपि केवलिवत् क्रमोपयोगित्वात् सर्वज्ञाः स्युः सोऽपि वा न
त् तत एव सर्वज्ञवन्निरावरणास्ते सोऽपि वा सावरणः तत एव एकज्ञानिनो वा ते सोऽपि वा चतुर्ज्ञानी स्यात् ।
[केवलिकवलाहारचर्चा ]
[ कवलाहारनिषेधवादस्य पूर्वपक्षतयोपन्यासः ] अत एव छद्मस्थे भुजिक्रियादर्शनात् केवलिनि तद्विजातीये भुजिक्रियाकल्पना न युक्ता-अन्यथा चतुर्तानित्वाऽकेवलित्व-संसारित्वादयोऽपि तत्रै स्युः-न देहित्वं तद्भुक्तिकारणं तथाभूतशक्त्यायु:
१"अणंते नाणे केवलिस्स, अणंते दंसणे केवलिस्स, निव्वुडे नाणे केवलिस्स, निव्वुडे दंसणे केवलिस्स"-भगवतीसू० श० ५ उ० ४ सू० १८५ पृ. २१६। २-कार वि-बृ० वा. बा. विना। ३-हणे नि-बृ.। ४-लद्र-बृ० । ५-स्थितिसा-हा० वि०। ६-स्थिती। क्र-वा. बा०। ७-तमनेकत्व-बृ. आ. हा० वि०। ८ "युगपदुपयोगवादी"-बृ० टि०। ९ "ज्ञातदृष्टभाषी ज्ञाता दृष्टा च नियमेन"-ज्ञानबिं० पृ० १५९ प्र०५० १२। १०ी वावबृ० वा. बा. मां. विना। ११ “यदपर्यवसितत्वादि क्रमोपयोगे केवलिनि"-ज्ञानबि. पृ० १५९ प्र. पं० १३ १२-पक्षा न हि आ० हा० वि०। १३ इयं चर्चा स्याद्वादरत्नाकरे भन्यन्तरेण चर्चिता विद्यते-परि० २ सू० २७ पृ० ४५७-४८३। १४ "केवलिनि"-बृ.टि.)
३०