________________
६०९
ज्ञानमीमांसा । [साकारानाकारोपयोगयोरेकान्तिकभेदासंभवप्रदर्शनेन अनेकान्तस्य समर्थनम् ] साकारानाकारोपयोगयो.कान्ततो भेद इति दर्शयन्नाह सूरिः
परिसुद्धं सायारं अवियत्तं दंसणं अणायारं ।
ण य खीणावरणिजे जुन्जइ सुवियत्तमवियत्तं ॥ ११ ॥ ज्ञानस्य हि व्यक्तता रूपं दर्शनस्य पुनरव्यक्तता न च क्षीणावरणे अर्हति व्यक्तताव्य-५ क्तते युज्यते । ततः सामान्यविशेषज्ञेयसंस्पर्शी उभयैकस्वभाव एवायं केवलिप्रत्ययः । न च ग्राह्यद्वित्वाद् ग्राहकद्वित्वमिति तत्र संभावना युक्ता केवलज्ञानस्य ग्राह्यानन्त्येनानन्ततापत्तेः । अन्योन्यानुविद्धग्राह्यांशद्वयभेदाद् ग्राहकस्य तथात्वकल्पने एकत्वानतिकमान्न दोष इति ।
सूरेरयमभिप्रायः-न चैकस्वभावस्य प्रत्ययस्य शीतोष्णस्पर्शवत् परस्परविभिन्नस्वभावद्वयवि. रोधो दर्शनस्पर्शनशक्तिद्वयात्मकैकदेवदत्तवत् स्वभावद्वयात्मकैकप्रत्ययस्य केवलिन्यविरोधात् अनेका-१० न्तवादस्य प्रमाणोपपन्नत्वात् ॥ ११॥
[ क्रमाक्रमोपयोगद्वयपक्षे शास्त्रसिद्धं ज्ञात-दृष्टभाषित्वं भगवतो न घटते इत्यभिधानम् ] क्रमाक्रमोपयोगद्वयाभ्युपगमे तु भगवत इदमापन्नमिति दर्शयति
अद्दिढे अण्णायं च केवली एव भासइ सया वि।
एगसमयम्मि हंदी वयणवियप्पो न संभवइ ॥१२॥ अदृष्टमेव ज्ञातं जात्यन्धहस्तिपरिज्ञानवत् अज्ञातमेव च दृष्टमलातचक्रदर्शनवत् । सर्वकालमेव केवली भाषत इत्येतदापन्नमक्रमोपयोगपक्षे । क्रमवय॒पयोगपेक्षे तु एकस्मिन् समये जानाति यत् तदेव भाषते ज्ञातं न च दृष्टम् समयान्तरे तु यदा पश्यति तदापि दृष्टं भापते न ज्ञातम् बोधानुरूप्येण वाचः प्रवर्तनात्। बोधस्य चैकांशावलम्बित्वादक्रमोपयोगपक्षे, क्रमोपयोगपक्षेतु तत्त्वाद् भिन्नसमयत्वाच्च तत एकस्मिन् समये शातं दृष्टं च भाषत इत्येष वचनविशेषो भवदर्शने न२० संभवतीति गृह्यताम् ॥ १२ ॥
[ क्रमाक्रमपक्षद्वये भगवतः अज्ञातदर्शितया अदृष्टज्ञायितया च सर्वज्ञत्वासंभवप्रदर्शनम् ] तथा च सर्वज्ञत्वं न संभवतीत्याह
अण्णायं पासंतो अद्दिष्टं च अरहा वियाणंतो।
किं जाणइ किं पासइ कह सव्वण्णु त्ति वा होइ ॥ १३ ॥ २५ अज्ञातं पश्यन्नदृष्टं च जानानः किं जानाति किंवा पश्यति न किञ्चिदपीति भावः। कथं वा तस्य सर्वज्ञता भवेत् ? ॥ १३॥
[ आगमसिद्धसमसंख्यकविषयावगाहित्वयुक्त्या केवलज्ञानदर्शनयोरभेदसमर्थनम् ] ज्ञानदर्शनयोरेकसंख्या(ख्य)त्वादप्येकत्वमित्याहकेवलणाणमणंतं जहेव तह दसणं पि पण्णत्तं ।
३० सागारग्गहणाहि य णियमपरित्तं अणागारं ॥ १४ ॥
१“जुजइ सवियत्तमविअत्त"-ज्ञानबिं० पृ० १५८ प्र० पं० ९। २-पक्षे चैक-हा०। ३-दाह-वा० बा० । ४-स्वाभि-वा० बा० । ५“एकांशावलम्बिलात्"-बृ० टि०। ६ “एकसंख्याशालिखात्"-ज्ञानबिं० पृ० १५९प्र.पं. १॥
७० स० त.