________________
६०८
सामान्यविशेषपरिच्छेदकावरणापगमे समाने कस्य प्रथमतरमुत्पादो भवेत् अन्यतरस्योत्पादे तदितरस्याप्युत्पादः स्यात् न चेदन्यतरस्यापि न स्यादविशेषात् इत्युभयोरप्यभाव५ प्रसक्तिः अक्रमोपयोगवादिनः कथमिति चेत् समम् एककालम् उत्पादस्तयोर्भवेत् सत्यक्रमकारणे कार्यस्याप्यक्रमस्य भावादित्यक्रमौ द्वावुपयोगौ । अत्रैकोपयोगवाद्याह- हंदि दुवे णत्थि उवओगा इति द्वावप्युपयोग नैकदेति ज्ञायताम् सामान्यविशेषपरिच्छेदात्मकत्वात् केवलस्येति ॥ ९ ॥
१०
द्वितीये काण्डे -
दंसणणाणावरणक्खए समाणम्मि कस्स पुव्वअरं । होज समं उप्पाओ हंदि दुए णत्थि उवओगा ॥ ९ ॥
२०
[ केवलज्ञान-दर्शनयोरभेदपक्ष एव सर्वज्ञत्व सर्वदर्शित्वोपपत्तिरिति प्रकटनम् ]
यदेव ज्ञानं तदेव दर्शन मित्यस्मिन्नेव वादे सर्वज्ञतासंभव इत्याह
जइ सव्वं सायारं जाणइ एक्कसमएण सत्र्वण्णू । जुज्जइ सावि एवं अहवा सव्वं ण याणाइ ॥ १० ॥
यदि आकारात्मकं वस्तु भवनं भवनात्मकं वा आकारात्मकं सामान्यविशेषयोरविनिर्भार्गवृत्तित्वात् सर्वं साकारं जानंस्तदात्मकं सामान्यं तदैव पश्यति तत् पश्यन् वा तदव्यतिरिक्तं विशेषं तदैव जानाति उभयात्मकवस्त्ववबोधैकरूपत्वात् सर्वज्ञोपयोगस्य तदा सर्वज्ञत्वं सर्वदर्शित्वं च १५ तस्य सर्वकालं युज्यते प्रतिक्षणमुभयात्मकैकरूपत्वात् तस्य । अथवा सर्वं सामान्यं साकारं वा वस्तु न पश्यति न जानाति च तथाभूतयोस्तयोरसत्त्वात् जात्यन्धवत् आकाशवद्वा । अथवा सर्व न जानात्येकदेशोपयोगवृत्तित्वाद् मतिज्ञानिवत् । युगपत् क्रमेण चैकन्तभिन्नोपयोगद्वयवादिमते न सर्वज्ञता सर्वदर्शिता चेत्याशय आचार्यस्य ।
[ क्रमाक्रमामेदपक्षत्रयग्राहिण आचार्यान् नामग्राहं निर्दिश्य तैः स्वस्वपक्षपोषकतया व्याख्यातानां सूत्राणां संसूचनम् ]
अत्र च जिन भद्रगणिक्षमाश्रमणपूज्यानामयुगपद्भाव्युपयोगद्वयमभिमतम् । मल्लवादिनस्तु युगपद्भावि तद्वयमिति । सिद्धान्तवाक्यान्यपि "सागारमणागारं लक्खणमेयं तु सिद्धाणं" [ प्रशाप० द्विती० प० सू० ५४ गा० १६० ] । तथा "केवलणाणुवउत्ता जाणंति” [ प्रज्ञाप० द्विती० प० सू० ५४ गा० १६१ ] इत्यादीनि युगपदुपयोगवादिना स्वमतसंवादकत्वेन व्याख्यातानि । क्रमोपयोगवादिना २५ तु "सव्वाओ लद्धीओ” [ विशेषावभा० गा० ३०८९ ] इत्यादीनि स्वमतसंवादकत्वेन । प्रकरणकारोपि स्वमतसंवादकान्येतान्यन्यानि च व्याख्यातवान् ॥ १० ॥
१ एकस-वा० वा० आ० । २ - गवर्तित्वा-वा० बा० । ४- कान्तरितोप- बृ० ।
५ “असरीरा जीवघणा उवउत्ता य दंसणे य नाणे य" । इति पूर्वार्धम् प्रज्ञाप० पृ० १०६ द्वि० ।
६ “केवलनाणुवउत्ता जाणंता सव्वभावगुणभावे । पासंता सव्वओ खलु केवलदिट्ठीहिऽणंताहिं” ॥ - प्रज्ञाप० पृ० १०६ द्वि० ।
७ इदं गाथाद्वयमौपपातिके आवश्यक निर्युक्त्यन्तर्गतनमस्कारनिर्युक्तो विशेषावश्यक माध्यटीकायां च वर्तते - पृ० ११६ प्र०गा० ११-१२ | पृ० १७५ गा० ९१-९२ | पृ० ११९८, ११९९ ।
८ “सव्वाओ लद्धीओ जं सागारोवओगलाभाओ । तेणेह सिद्धलद्धी उप्पज्जइ तदुवउत्तस्स” ॥ इति संपूर्ण गाथा ।
३- कारं ज्ञानं तदा - बृ० आ० हा० वि० ।