________________
ज्ञानमीमांसा ।
यथा क्षीणावर मति श्रुताऽवधि-मनः पर्यायज्ञानानि जिने न संभवन्तीत्यभ्युपगम्यते तथा तत्रैव क्षीणावरणीये विश्लेषतो ज्ञानोपयोगादन्यदा दर्शनं न संभवतीत्यभ्युपगन्तव्यम् क्रमोपयोगस्य मत्याद्यात्मकत्वात् तदभावे तदभावात् ॥ ६ ॥
[ क्रमवादिमतेऽनुमान विरोधवदागम विरोधोऽप्यापततीति प्रदर्शनम् ] न केवलं क्रमवादिनोऽनुमानविरोधः आगमविरोधोऽपीत्याह
सुक्तम्म चेव साई अपज्जवसियं ति केवलं वृत्तं । सुत्तासायणभीरूहि तं च दट्ठव्वयं होइ ॥ ७ ॥
६०७
साद्यपर्यवसाने केवलज्ञानदर्शने क्रमोपयोगे तु द्वितीयसमये तयोः पर्यवसानमिति कुतोऽपर्यवसितता? तेन क्रमोपयोगवादिभिः सूत्रासादना भीरुभिः “ केवलणाणे णं भंते !” [
] इत्यादि आगमे साद्यपर्यवसानताभिधानं केवलज्ञानस्य केवलदर्शनस्य च द्रष्टव्यं पर्यालो- १० चनीयं भवति । सूत्रासादना चात्र सर्वज्ञाधिक्षेपद्वारेण द्रष्टव्या अचेतनस्य वचनस्याधिक्षेपायोगात् ।
न च द्रव्यापेक्षयाऽपर्यवसितत्वम् द्रव्यविषयप्रश्नोत्तराश्रुतेः । अथ भवतोऽपि कथं तयोरपर्यवसानता पर्यायाणामुत्पादविगमात्मकत्वात् ? न च द्रव्यपेक्षयैतदिति वाच्यम् अस्मत्पक्षेऽप्यस्य समानत्वात् । तद्विषयप्रश्नप्रतिवचनाभावान्नेति चेत् तर्हि भवतोऽपि द्रव्यापेक्षयाऽपर्यवसानकथनमयुक्तम्, असदेतत्; तयोर्युगपद् रूपरसयोरिवोत्पादाभ्युपगमान्न ऋजुत्व वक्रतावत् । एवमपि १५ सपर्यवसानतेति चेत्, नः कथंचित् केवलिद्रव्यादव्यतिरेकतस्तयोरपर्यवसितत्वात् । न च क्रमैकान्तेऽप्येवं भविष्यत्यनेकान्तविरोधात् । न चात्रापि तथाभावः तथाभूतात्मकै ककेव लिद्रव्याभ्युपगमात् रूपरसात्मैकद्रव्यवत् अक्रमरूपत्वे च द्रव्यस्य तदात्मकत्वेन तयोरप्यक्रम एव । न च तयोस्तद्रूपतया तथाभावो न स्वरूपतः तथत्वेऽनेकान्तरूपताविरोधान्निरावरणस्याक्रमस्य क्रमरूपत्वविरोधाच्च तस्यावरणकृतत्वात् । किञ्च, यदि सर्वथा क्रमेणैव तयोरुत्पत्तिरनेकान्तविरोधः । अथ कथञ्चित् तदा युग- २० पदुत्पत्तिपक्षोऽप्यभ्युपगतः । न च द्वितीये क्षणे तयोरभावे अपर्यवसितता छानस्थिकज्ञानस्यैव युक्ता । पुनरुत्पादाद पर्यवसितत्वे पर्यायस्याप्यपर्यवसितताप्रसक्तिः । द्रव्यार्थतया तत्त्वे द्वितीयक्षणेऽपि तयोः सद्भावोऽन्यथा द्रव्यार्थत्वायोगात् ॥ ७ ॥
[ सोपसंहारमागमविरोधस्य स्पष्टीकरणम् ] तदेवं क्रमाभ्युपगमे तयोरागमविरोध इत्युपसंहरन्नाह -
२५
संतम्मि केवले दंसणम्मि णाणस्स संभवो णत्थि । केवलणाणम्मिय दंसणस्स तम्हा सणिहणाई ॥ ८ ॥
क्रमोत्पादे सति केवलदर्शने न तदा ज्ञानस्य संभवस्तथा केवलज्ञाने न दर्शनस्य तस्मात् सनिधने केवलज्ञानदर्शने ॥ ८ ॥
[ प्रकरणकारेण क्रमोपयोगद्वयवादिनम् सहोपयोगद्वयवादिनं च पर्यनुयुज्य खपक्षस्योपन्यासः ] ३० अत्र प्रकरणकारः क्रमोपयोगवादिनं तदुभयप्रधानाक्रमोपयोगवादिनं च पर्यनुयुज्य स्वपक्षं दर्शयितुमाह
१- भवीन्यभ्यु - आ० हा ० वि० । २ “केवलणाणी णं पुच्छा, गोयमा ! सातिए अपज्जवसिते" - प्रज्ञाप० प० १८ सू० २४१ पृ० ३८९ । ३ - थात्वेनैका - वा० बा० आ० हा०वि० ।