________________
द्वितीये काण्डे -
सामान्यात्मकम् एवमपि विशेषविकलसामान्यरूपविषयाभावतो निर्विषयस्य दर्शनस्याप्यभावान्न किञ्चित् केवली पश्येत् । अथायुगपद् ज्ञानदर्शने तस्याभ्युपगम्येते तथापि यदा जानाति न तदा पश्यति, यदा च पश्यति न तदा जानातीत्येकरूपाभावे अन्यतरस्याप्यभावात् पूर्ववदकिञ्चिज्ज्ञो ऽकिञ्चिद्दर्शी च स्यात् । उभयरूपे वा वस्तुन्यन्यतरस्यैव ग्राहकत्वात् केवलोपयोगो विपर्यस्तो वा भवेत् । ५ तथाहि - यद् उभयरूपे वस्तुनि सामान्यस्यैव ग्राहकं तद्विपर्यस्तम् यथा सांख्यज्ञानम् तथा च 'सामान्यग्राहि केवलदर्शनमिति तथा, यद् विशेषावभास्येव तथाभूते वस्तुनि तदपि विपर्यस्तम् यथा सुगतज्ञानम् तथा च केवलज्ञानमिति । यथा च सामान्यविशेषात्मकं वस्तु तथा प्रतिपादितमनेकधा । दानमपि सूत्रस्यान्यथाव्याख्यानादुपपन्नम् । तथाहि - न पूर्व प्रदर्शितस्तत्रार्थः किन्त्वयम् - केवली इमां रत्नप्रभां पृथिवीं यैराकारादिभिः समकं तुल्यं जानाति न तैराकारादिभिस्तुल्यं पश्यतीति १० किमेवं ग्राह्यम् ? 'एवम्' इत्यनुमोदना । ततो हेतौ पृष्ठे सति तत्प्रतिवचनं भिन्नालम्बनप्रदर्शकं तत् ज्ञानं साकारं भवति यतो दर्शनं पुनरनाकारमित्यतो भिन्नालम्बनावेतौ प्रत्ययाविति । इदं चोदाहरणमात्रं प्रदर्शितम् । एवं च सूत्रार्थव्यवस्थितौ पूर्वार्थकथनमालदानमेव । 'जंसमयं ' इत्यत्र 'जं' शब्दे 'अम्'भावः प्राकृतलक्षणात्—
१५
णीया लोवमभूया आणीया दो वि बिंदु-दुब्भावा । अत्थं वहति तं चिय जो च्चिय सिं पुव्वनिद्दिडो' ॥ [ अभूत एव बिन्दुरिहानीतः । यथा 'यत्कृत सुकृते' इति "जंकयसुकयं" [
६०६
२०
]
] इति लोकप्रयोगे ॥४॥
३०
[ आगमेन केवलज्ञान-दर्शनयो यौगपद्यमभिधाय अनुमानयुक्त्या पुनस्तत्प्रतिपादनम् ] आगमेनाभिधाय यौगपद्यं ज्ञान-दर्शनयोरनुमानेनाऽपि तयोस्तद् दर्शयितुमाहकेवलणाणावरणक्खयजायं केवलं जहा णाणं ।
तह दंसणं पि जुज्जइ णियआवरणक्खयस्संते ॥ ५ ॥
केवलज्ञानावरणक्षये यथोत्पन्नं विशेषावबोधस्वभावं ज्ञानं तथा तदैव दर्शनावरणक्षये सति सामान्यपरिच्छेदस्वभावं दर्शनमप्युत्पद्यताम् न ह्यविकलकारणे सति कार्यानुत्पत्तिर्युक्ता तस्यातत्कार्यताप्रसक्तेरितरत्राप्यविशेषतोऽनुत्पत्तिप्रसक्तेश्च । ज्ञानकाले दर्शनस्यापि संभवः तदुत्पत्तौ कारणसद्भावाद् युगपदुत्पत्त्यविकलकारणघटपटयुगपदुत्पत्तिवेत् । ननु च हेतौ सत्यपि २५ श्रुताद्यावरणक्षयोपशमे श्रुताद्यनुत्पद्यमानमपि कदाचित् दृष्टमित्यनैकान्तिको हेतुः नः श्रुतादौ क्षीणावरणत्वस्य हेतोरभावात् श्रुतादेः क्षीणोपशान्तावरर्णत्वात् । भिन्नावरणत्वादेव च श्रुतावधिवन्नैकत्वमेकान्ततो ज्ञानदर्शनयोरेकंदो भयाभ्युपगमवादेनैव ॥ ५ ॥
[ सर्वज्ञे छाद्मस्थिकक्रमोपयोगाभावात् तदृष्टान्तेनैव तत्र केवलज्ञानादन्यदा केवलदर्शनाभावप्रतिपादनम् ]
दृष्टस्तजातीय एवासावन्यत्राप्यभ्युपगमार्हो न जात्यन्तरे धूमवत् पावकेतरभावाभावयोः अन्यथानुमानादिव्यवहारविलोपप्रसङ्गादित्याह
भण्णइ खीणावरणे जह महणाणं जिणे ण संभवइ ।
तह खीणावरणिज्जे विसेसओ दंसणं नत्थि ॥ ६ ॥
१ "ध्यात्मके " - बृ० टि० ।
२ नीतौ लोपमभूतौ आनीतौ द्वावपि बिन्दु-द्विर्भावौ । अर्थं वहन्ति तमेव य एव तयोः पूर्वनिर्दिष्टः ॥
३ " यदविकलकारणं तद् भवत्येव यथाऽऽदित्यप्रकाशसमये तदविनाभावी प्रतापः । अविकलकारणं च ज्ञानोत्पत्तिकाले दर्शनमिति प्रयोगः ” — वृ० टि० । ४-कतोभ - वा० बा० । ५ यो यो ह-बृ० ।