________________
ज्ञानमीमांसा |
६०५
head "दा जानाति तदा न पश्यति जिनः" इति सूत्रम् - "केवली णं भंते ! इमं रयणप्पभं पुढविं आयारेहिं पमाणेहिं हेऊहिं संठाणेहिं परिवारेहिं जं समयं जाणइ नो तं समयं पासइ ? हंता गोयमा ! केवली णं" [ ] इत्यादिकम् - अवलम्बमानाः ।
अस्य च सूत्रस्य किलायमर्थः - केवली सम्पूर्णबोधः 'णं' इति प्रश्नोऽभ्युपगमसूचकः । 'भन्ते !' इति भगवन् ! इमां रत्नप्रभामन्वर्थाभिधानां पृथ्वीमाकारैः समनिम्नोन्नतादिभिः प्रमाणैर्देर्घ्यादिभिः हेतुभि ५ रनन्तानन्तप्रदेशिकैः स्कन्धैः संस्थानैः परिमण्डलादिभिः परिवारैः घनोदधिवलयादिभिः 'जं समयं णो तं समयं' इति च "कालाध्वनोरत्यन्तसंयोगे” [ पा० २-३-५ ] इति द्वितीयाँ अधिकरणसप्तमीबाधिका तेन यं समयं जानाति यदा जानातीत्यर्थः 'णो तं समयं पश्यतीति न तदा पश्यतीति भावः । विशेषोपयोगः सामान्योपयोगान्तरितः सामान्योपयोगश्च विशेषोपयोगान्तरितस्तत्स्वाभाव्यादिति प्रश्नार्थः । उत्तरं पुनः 'हंता गोयमा !' इत्यादिकं प्रश्नानुमोदकम् 'हंता' इत्यभिमतस्यामन्त्रणम् 'गौतम' १० इति गोत्रामन्त्रणम् प्रश्नानुमोदनार्थ पुनस्तदेव सूत्रमुच्चारणीयम् हेतुप्रश्नस्य चात्र सूत्रे उत्तरम् - "साकारे से णाणे अणागारे दंसणे" [ ] साकारं विशेषावलम्बि अस्य केवलिनो ज्ञानं भवति अनाकारमतिक्रान्तविशेषं सामान्यालम्बि दर्शनम् । न चानेकप्रत्ययोत्पत्तिरेकदा निरावरणस्यापि तत्स्वाभा व्यात् न हि चक्षुर्ज्ञानकाले श्रोत्रज्ञानोत्पत्तिरुपलभ्यते । न चावृतत्वात् तदा तदनुत्पत्तिः स्वसमयेऽप्य नुत्पत्तिप्रसङ्गात् । ततो युगपदने कप्रत्ययानुत्पत्तौ स्वभाव एव कारणम् नावरणसद्भावः । सन्निहिते ऽपि १५ चयात्मके विषये विशेषांशमेव गृह्णन् केवली तत्रैव सामर्थ्यात् सर्वज्ञ इति व्यपदिश्यते सर्वविशेषशत्वात् सर्वसामान्यदर्शित्वाच्च सर्वदर्शी । यच्चैवंव्याख्यायामकिञ्चिज्ज्ञत्वं केवलिनः होढैदानं चेति दूपणम्, तन्नः यतो यदि तत् केवलं ज्ञानमेव भवेद् दर्शनमेव वा ततः स्यादकिञ्चिज्ज्ञता न चैवम् आलदानमपि न संभवति 'यं समयं' इत्याद्युक्तव्याख्यायाः सम्प्रदायाविच्छेदतो ऽपव्याख्यानत्वायोगात् । न च दुःसम्प्रदायोऽयम् तदन्यव्याख्यातॄणामविसंवादात् "जं समयं च णं समणे भगवं महा २० वीरे" [ ] इत्यादावप्यागमे असकृदुच्चार्यमाणस्यास्य शब्दस्यैतदर्थत्वेन सिद्धत्वात् । ततो दुर्व्याख्यैषा - यैः समकं यत्समकमिति भवतैव होढदानं कृतम् ।
[ केवलोपयोगद्वयस्य क्रमभावित्वं प्रतिषेध्य तत्सहभावित्वपरतया आगमस्य व्याख्यानम् ]
एते च व्याख्यातारः तीर्थकरासादनाया अभीरवः तीर्थकरमासादयन्तो न विभ्यतीति यावत् । सा च 'न किञ्चिज्जानाति तीर्थकृदित्यधिक्षेपः' 'अन्यथोक्ते तीर्थकृतैवमुक्तम्' इत्यालदार्नम् । २५ तथाहि-- यदि विषयः सामान्यविशेषात्मकस्तदा विषयि केवलं विशेषात्मकं वा भवेत् सामान्यात्मकं वा ? यदि विशेषात्मकमिति पक्षस्तदा निःसामान्यविशेषग्राहित्वात् तेषां च तद्विकलानामभावात् निर्विषयतया तदवभासिनो ज्ञानस्याभाव इत्यकिञ्चिज्ज्ञः सर्वज्ञस्ततो भवेत् । अथ
१" केवली णं भंते! इमं रयणप्पभ्रं पुढविं आगारेहिं हेतुहिं उवमाहिं दितेहिं वण्णेहिं संठाणेहिं पमाणेहिं पढोया रेहिं जं समयं जाणति तं समयं पासइ ? जं समयं पासइ तं समयं जाणइ ?
गोयमा ! नो तिणट्ठे समट्ठे ।
सेकेणणं भंते ! एवं वुच्चति - 'केवली णं इमं रयणप्पभं पुढविं आगारेहिं जं समयं जाणति नो तं समयं पासति, जं समयं पासति नो तं समयं जाणति ?
गोयमा ! सागारे से णाणे भवति, अणागारे से दंसणे भवति से तेणद्वेणं जाव णो तं समयं जाणति एवं जाव अहेसत्तमं । एवं सोहम्मकप्पं जाव अचुयं गेविजगविमाणा अणुत्तरविमाणा ईसीपब्भारं पुढविं, परमाणुं पोग्गलं दुपदेसियं खंधं जाव अणंतपदेसियं खंधं" इति संपूर्ण सूत्रम् - प्रज्ञाप० प० ३० सू० ३१४ पृ० ५३१ ।
एतत्सदृशान्यन्यानि सूत्राणि भगवतीसूत्रीयचतुर्दशाऽष्टादशशतकान्तर्गताभ्यां दशमाष्टमोद्देशकाभ्यां यथाक्रममवगन्तव्यानि ।
२ " कालाध्वनोर्व्याप्तौ " - हैम० २-२-४२ । ३ - या सप्तमीबा -ल० वा० बा० भ० मां० विना । ४ 'नाम' -ल० टि० । ५ " आलदानम्" - बृ० ल० टि० । ६ “सिद्धसेनदिवाकरेण " - बृ० टि० । ७ “जिनभद्रगणिक्षमाश्रमणमतमुक्तम् सम्प्रत्युत्तरं कृतम्” - बृ० टि० । ८ सा न आ० हा० वि० । ९-नं च त भ० मां० विना ।