________________
द्वितीये काण्डे -
वरणान्तरायक्षयाच्च केवलम्' इति अत्र प्रथमं मोहक्षयस्ततो ज्ञानावरणादित्रयक्षयः सकृदिति व्याख्यानात् । तज्ज्ञानदर्शनयोः क्रमवृत्ती हि सर्वज्ञत्वं कादाचित्कं स्याद् दर्शनकाले ज्ञानाभावात् तत्काले च दर्शनाभावात् । सततं च भगवतः केवलिनः सर्वज्ञत्वं सर्वदर्शित्वं च साद्यपर्यवसिते केवलज्ञानदर्शने इति वचनात् । कुतस्तत्सिद्धिरिति चेत् निर्लोठितमेतत् सर्वज्ञसिद्धिप्रस्तावे न पुनरिहोच्यते । केवलज्ञानदर्शनयोर्युगपद्भावः कुतः सिद्ध इति चेत्, सामान्य - विशेषविषय योर्वि गतावरणयोरयुगपत्प्रतिभासायोगात् प्रतिबन्धकान्तराभावात् । सामान्यप्रतिभासो हि दर्शनं विशेषप्रतिभासो ज्ञानम् । तत्प्रतिबन्धकं ज्ञानावरणं दर्शनावरणं च । यदुदयादस्मदादेः केवलज्ञानदर्शनानाविर्भावः तयोश्च युगपदात्मविशुद्धिप्रकर्षविशेषात् परिक्षयसिद्धेः कथमिवा युगपत्प्रतिभासनं सामान्यविशेषयोः स्यात् प्रक्षीणाशेषमोहान्तरायस्य प्रतिबन्धान्तरं च कथमिव संभाव्येत येन युगपत्तद्वितयं न स्यात् ? अस्तु नाम केवलं तत्त्वज्ञानं युगपत्सर्वभासनम्, मतिश्रुतावधिमनः पर्ययज्ञानं तु कथमित्युच्यते" ।
अष्टश० अष्टस० पृ० २८१ पं० ५।
६०४
“सोपयोगस्यानेकस्य ज्ञानस्यैकत्र यौगपद्यवचने हि सिद्धान्तविरोधः सूत्रकारस्य न पुनरनुपयोगस्य सह द्वावुपयोगौ न स्त इति वचनात् ॥ सोपयोगयोर्ज्ञानयोः सह प्रतिषेधादिति निवेदयन्ति -
क्षायोपशमिकं ज्ञानं सोपयोगं क्रमादिति । नार्थस्य व्याहतिः काचित् क्रमज्ञानाभिधायिनः ॥ निरुपयोगस्यानेकस्य ज्ञानस्य सहभाववचनसामर्थ्यात् सोपयोगस्य क्रमभावः क्षायोपशमिकस्येत्युक्तं भवति तथा च नार्थस्य हानिः क्रमभाविज्ञानावबोधकस्य सम्भाव्यते । अत्रापराकूतमनूद्य निराकुर्वन्नाह
मोपयोगौ सह स्यातामित्यार्याः ख्यापयन्ति ये । दर्शनज्ञानरूपौ तौ न तु ज्ञानात्मकाविति ॥ ज्ञानानां सह भावाय तेषामेतद्विरुद्धयते । क्रमभावि च यज्ज्ञानमिति युक्तं ततो न तत्" ॥ १-३० लो० ६-८ पृ० २५३ पं० ३०। “जुगवं वहइ णाणं केवलणाणिस्स दंसणं च तहा । दिणयरपयास - तापं जह वह तह मुणेयव्वं ॥ १६० ॥ “सिद्धाणं सिद्धगई केवलणाणं च दंसणं खयियं । सम्मतमणाहारं, उवजोगा ण कमपउत्ती” ॥ ७३० ॥ "दंसणपुव्वं गाणं, छदमत्थाणं ण दोण्णि उवउग्गा । जुगवं जम्दा केवलि-णाहे जुगवं तु ते दोवि ॥ ४४ ॥
दंसणपुत्रं गाणं छदमत्थाणं" सत्तावलोकनदर्शनपूर्वकं ज्ञानं भवति छद्मस्थानां संसारिणाम् । कस्मात् "ण दोण्णि उवउग्गा जुगवं जम्हा” ज्ञानदर्शनोपयोगद्वयं युगपन्न भवति यस्मात् "केवलिणाहे जुगवं तु ते दोऽवि” केवलिनाथे तु युगपत्ती ज्ञानदर्शनोपयोगी द्वौ भवत इति” – पृ० १६९ पं० ३-८ ।
अत्रेदमवधातव्यं विशेषावश्यकभाष्ये नन्दिचूर्ण्य च पक्षत्रयं पुरस्कर्तॄणां नामानि अनिर्दिश्यैव सामान्यतो वर्णितम् हरिभद्रीयायां मलयगिरीयायां च वृत्तौ क्रमोपयोगपक्षः श्रीजिनभद्रगणिक्षमाश्रमणादिसत्कत्वेन युगपदुपयोगपक्षः श्रीसिद्धसेनादिसत्कत्वेन एकोपयोगपक्षश्च श्रीवृद्धाचार्यादिसत्कत्वेन उपन्यस्तः परन्तु सम्मतिटीकाकारैः श्रीमदभयदेवैः युगपदुपयोगपक्षः श्रीमल्लवादिसत्कत्वेन एकोपयोगपक्षश्च प्रकरणकार - सिद्धसेन दिवाकर - सत्कत्वेन वर्णितः
श्रीहरिभद्राभयदेवमलयगिरीणां पक्षद्वयपुरस्कर्तृ विषयोऽयं मतभेदः वाचकवर्यैः श्रीमद्यशोविजयैरित्थं परिहृतः - " इदमिदानीं निरूप्यते - केवलज्ञानं स्वसमानाधिकरण केवलदर्शन समानकालीनं न वा, केवलज्ञानक्षणत्वं स्वसमानाधिकरणदर्शनक्षणाव्यवहितोत्तरत्वव्याप्यं न वा ? एवमाद्याः क्रमोपयोगवादिनां जिनभद्रगणिक्षमाश्रमणपूज्यपादानाम्, युगपदुपयोगवादिनां च मलवादिप्रभृतीनाम्, यदेव केवलज्ञानं तदेव केवलदर्शनमिति वादिनां च महावादि श्री सिद्धसेनदिवाकराणां साधारण्यो विप्रतिपत्तयः । यत्तु युगपदुपयोगवादित्वं सिद्धसेनाचार्याणां नन्दिवृत्तावुकं तदभ्युपगमवादाभिप्रायेण न तु खतन्त्रसिद्धान्ताभिप्रायेण क्रमाक्रमोपयोगद्वयपर्यनुयोगानन्तरमेव खपक्षस्य संमतावृद्भावितत्वादिति द्रष्टव्यम्” – ज्ञानबिं० पृ० १५४ द्वि० पं० ५ ।
सार्वश्य विषय को क्तपक्षत्रयगतः पारस्परिको बलीयान् विवादस्तेरेव नयवादाश्रयेण इत्थं समाहितः
"मेदप्राही व्यवहृतिनयं संश्रितो मल्लवादी पूज्याः प्रायः करणफलयोः सीनि शुद्धर्जुसूत्रम् । मेदोच्छेदोन्मुखमधिगतः संग्रहं सिद्धसेनस्तस्मादेते न खलु विषमाः सूरिपक्षास्त्रयोऽपि ॥ चित्सामान्यं पुरुषपदभाक्केवलाख्ये विशेषे तद्रूपेण स्फुटमभिहितं साधनन्तं यदेव । सूक्ष्मैरंशैः क्रमवदिदमप्युच्यमानं न दुष्टं तत्सूरीणामियमभिमता मुख्यगौणव्यवस्था ॥ तमोऽपगमचिज्जनुःक्षणभिदा निदानोद्भवाः श्रुता बहुतराः श्रुते नयविवादपक्षा यथा । तथा क इव विस्मयो भवतु सूरिपक्षत्रये प्रधानपदवी घियां क नु दवीयसी दृश्यते" ॥ - ज्ञानबिं० पृ० १६४ प्र० छो० २,३,४,