Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 290
________________ झयमीमांसा। धमानत्वेन संवेद्यते । न च 'वृक्षे शाखा' इत्यादिकाऽपि मतिः समवायनि बन्धना किन्तु विवक्षितशाखाव्यतिरिक्तस्कन्धादिविशिष्टसमुदायनिबन्धनैव । एवम् 'इह घटे रूप-रस-गन्ध-स्पर्शाः' इत्यादिबुद्धेरपि घटस्वभावत्वं रूपादीनां निबन्धनत्वेन प्रतिपद्यते लोकः । तथाहि-घटे रूपादिकं घटखभावमेव एतद्रूपादिकं न पटादिखभावम् वहुषु रूपादिषु साधारणशक्तिविशेषप्रतिपादनाभिप्रायेण तदन्यरूपादिव्यवच्छेदेन घटादिश्रुतेः संकेतः रूपादिश्रुतेस्तु प्रत्येकमसाधारणचक्षुर्सानादिकार्योत्पा-५ दनशक्तिप्रकाशनाय समयकरणम् अत एव घटादिश्रुतिर्न रूपादीन् भेदान् आक्षिपति तत्सामाना धिकरण्याभावात् रूपादिशब्दाश्च घट-पटादिसर्वावस्थरूपादिवाचका इति रूपादिशब्देभ्यः केवलेभ्यो न तद्विशेषप्रतीतिस्तेन विशिष्टावस्थरूपादिप्रतिपादनाय 'घटे रूपादयः' इत्येवमुभयपदप्रयोगः क्रियते ततोऽपि घटात्मका रूपादयः पटात्मकरूपादिव्यवच्छेदेन प्रतीयन्ते घटशब्दस्तु सर्वावस्थं चलनादिस्वभावान्वितं घटं ब्रूत इति केवलान्न विशेषप्रतीतिः 'रूपम्' इत्यादिशब्दप्रयोगे तु तदन्य-१० व्यवच्छेदेन विशेषप्रतिपत्तिरुपजायते इति तत्प्रयोगः । तस्मात् संकेतवशात् 'इह घटे रूपादयः' इत्यादि ज्ञानं तथाभूतपदार्थनिबन्धनम् न समवायनिवन्धनम् यतो न घटरूपादिसमवायानां भेदः परस्परतः क्वचिदपि उपलब्धिगोचरः तत् कथमेतद् ज्ञानं समवायनिवन्धनं भवेत् ? तेन परोपन्यस्तहेतोरनैकान्तिकत्वात् उक्तन्यायेन प्रतिज्ञायाश्च अनुमानवाधितत्वान्न समवायसिद्धिः । यदपि 'इह बुद्ध्यविशेषात्' इत्याद्यभिधानम् तदपि असंगतम्, यतो यदि एकः समवायः स्यात् तदा तन्तुषु १५ घटः' इत्यादिबुद्धरपि उत्पत्तिः स्यात् । तथाहि-यत एव समवायात् 'कपालेषु घटः' इति प्रत्ययोत्पत्तिरभ्युपगता स एव समवायः तन्तुषु घटस्य इति किमिति तथाप्रत्ययोत्पत्तिन भवेत? अथ न तन्तुषु घट आश्रितः इति तत्र तथाप्रत्ययो नोत्पद्यते, असदेतत् यतः 'कपालेषु घट आश्रितः' इति समवायबलाद् भवद्भिरभिधीयते; स च समवायः किं तन्तुषु नास्ति येन 'इह तन्तुषु घटोऽस्ति' इति प्रत्ययो न भवेत समवायस्य एकत्वेन सर्वत्र अविशेषात् ? एवं च द्रव्य-गुण-कर्मणां द्रव्यत्व-गुणत्व-२० कर्मत्वादिविशेषणैः संबन्धस्य एकत्वात् पदार्थपञ्चकस्य विभागो न भवेत् । अथ समवायस्य एकत्वेऽपि न पदार्थसंकरः, आधाराधेयनियमात् । तथाहि-'द्रव्येष्वेव द्रव्यत्वम्' 'गुणेष्वेव गुणत्वम्' 'कर्मखेव कर्मत्वम्' इत्येवं द्रव्यत्वादीनां प्रतिनियताधारावच्छेदेन प्रतिपत्तेः सद्भावः, न; एवं समवायस्य प्रतिपदार्थ भिन्नत्वोपपत्तेः। अर्थं 'इह' इति समवायनिमित्ताया बुद्धरभिन्नाकारतया सर्वत्र अनुगमाद् एकः समवायः सर्वत्रावसीयते, तदेकत्वेऽपि द्रव्यत्वादिनिमित्तानां प्रत्ययानां प्रतिनियताधारावच्छेदेनाऽ २५ १ "अतो घटादिश्रुती रूपादिभेदानाक्षिपतीति सामानाधिकरण्याभावाद वेयधिकरण्यनैव तादात्म्यं प्रतिपाद्यते" -तत्त्वसं० पञ्जि. पृ० २६७ पं० १९ । २-सर्वावस्तुरू-बृ. आ. हा. वि. । “रूपादिशब्दा हि सर्वावस्थस्य रूपादेर्वाचकाः"-तत्त्वसं. पञ्जि. पृ० २६७ पं० २१।। ३ पृ. ७०० ५० १० टि. ३ । ४ “ययेकः समवायः स्यात् सर्वेष्वेव च वस्तुषु । कपालादिष्वपि ज्ञानं पटादीति प्रसज्यते ॥ गजादिष्वपि गोखादि समस्तीत्यनुषज्यते । ततो गवादिरूपत्वममीषां शावलेयवत् ॥ पटस्तन्तुषु योऽस्तीति समवायात् प्रतीयते । अस्ति चासौ कपालेषु तस्येति न तथेति किम् ॥ नाश्रितः स कपाले चेन्ननु तन्तुष्वपीष्यते । आश्रितः समवायेन स कपालेऽपि नास्ति किम् ? ॥ तन्तोर्यः समवायो हि पटस्येत्यभिधीयते । स घटस्य कपालेषु तद्धीरनवधिर्भवेत् ॥ एवं यश्च गजलादिसमवायो गजादिषु । गोलादिजातिभेदानां स एव खाश्रयेष्वपि" ॥ -तत्त्वसं० का० ८३५-८४० पृ० २६८-२६१। ५ भवतु अ-वा. बा. भ. मां । "किमिति तथाप्रतीतिर्न भवेत्”-तत्त्वसं० पजि० पृ. २६८ पं० २० । ६ “ 'आधार' इत्यादिनाऽत्र प्रशस्तमतेरुत्तरमाशङ्कतेआधाराधेयनियमः स चैकत्वेऽपि विद्यते । द्रव्येष्विव हि तजातिकर्मखेव च कर्मता"॥ -तत्त्वसं० का० ८४१ पृ. २६९ । ७ "इहेति समवायोत्थविज्ञानान्वयदर्शनात् । सर्वत्र समवायोऽयमेक एवेति गम्यते ॥ द्रव्यलादिनिमित्तानां व्यतिरेकस्य दर्शनात् । धियां द्रव्यादिजातीनां नियमस्ववसीयते"॥ -तत्त्वसं० का० ८४२-८४३ पृ. २६९ । ८-वच्छेदेनानुया-वा. बा० । “प्रतिनियताधारावच्छेदेनोत्पत्तेर्व्यतिरेकस्यानन्वयलक्षणस्य दर्शनात्" -तत्त्वसं० पजि० पृ. २६९ पं०१६।

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456